उदी॒र्ष्वात॒ः पति᳚वती॒ ह्ये॒३॒᳚षा वि॒श्वाव᳚सुं॒ नम᳚सा गी॒र्भिरी᳚ळे ।
अ॒न्यामि᳚च्छ पितृ॒षदं॒ व्य᳚क्तां॒ स ते᳚ भा॒गो ज॒नुषा॒ तस्य᳚ विद्धि ॥
अ॒न्यामि᳚च्छ पितृ॒षदं॒ व्य᳚क्तां॒ स ते᳚ भा॒गो ज॒नुषा॒ तस्य᳚ विद्धि ॥
पदपाठः (Word-by-word)
उत् । ई॒र्ष्व॒ । अतः᳚ । पति᳚॑वती । हि । ए॒षा । वि॒श्व॑व᳚सुम् । नम᳚सा । गीः॒॑भिः । ई॒ळे॒ ।
अ॒न्याम् । इ॒च्छ॒ । पि॒तृ॒॑सद᳚म् । वि॑अ᳚क्ताम् । सः । ते॒ । भा॒गः । ज॒नुषा᳚ । तस्य᳚ । वि॒द्धि॒ ॥
अ॒न्याम् । इ॒च्छ॒ । पि॒तृ॒॑सद᳚म् । वि॑अ᳚क्ताम् । सः । ते॒ । भा॒गः । ज॒नुषा᳚ । तस्य᳚ । वि॒द्धि॒ ॥
सायणभाष्यम् (Sayana Commentary)
अभिर्नृणां विवाहः स्तूयते। हे विश्वावसो अतः स्थानत्कन्यासमीपादुदीर्ष्व। उत्तिष्थ। एषा कन्या पतिवती हि सञ्जाता। अत उदीष्वेति वातः शब्दो योज्यः। विश्वावसुमेतन्नामानं गन्धर्वं नमसा नमस्कारेण गीर्भिः स्तुतिभिश्चेळे। स्तौ मि। तर्ह्येनां विहाय कां स्वीकरोमीति यदि ब्रूषे तर्ह्यन्यां पितृषदं पितृकुले स्थितां व्यक्तामनूढेति परिस्फुटां विगतांजनां वा। स्तनोद्गमादिराहित्येनाप्रौढामित्यर्थः। स तादृशः पदार्थस्ते तव भागः कल्पितः। तस्य तं भागं विद्धि जानीहि जनुषा जन्मना। लभस्वेत्यर्थः॥२१॥