परा᳚ देहि शामु॒ल्यं᳚ ब्र॒ह्मभ्यो॒ वि भ᳚जा॒ वसु᳚ ।
कृ॒त्यैषा प॒द्वती᳚ भू॒त्व्या जा॒या वि᳚शते॒ पति᳚म् ॥
कृ॒त्यैषा प॒द्वती᳚ भू॒त्व्या जा॒या वि᳚शते॒ पति᳚म् ॥
पदपाठः (Word-by-word)
परा᳚ । दे॒हि॒ । शा॒मु॒ल्य᳚म् । ब्र॒ह्म॑भ्यः᳚ । वि । भ॒ज॒ । वसु᳚ ।
कृ॒त्या । ए॒षा । प॒त्॑वती᳚ । भू॒त्वी । आ । जा॒या । वि॒श॒ते॒ । पति᳚म् ॥
कृ॒त्या । ए॒षा । प॒त्॑वती᳚ । भू॒त्वी । आ । जा॒या । वि॒श॒ते॒ । पति᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
शामुल्यम्। शामलमित्यर्थः। शमलं शारीरं मलम्। शरीरावच्छन्नस्य मलस्य धारकम् वस्त्रं परा देहि। परात्यज। धृतप्रायश्चित्यार्थम् ब्रह्मभ्यो ब्राह्मणेभ्यो वसु धनं वि भज। प्रयच्छेत्यर्थः। किमर्थं वधूवासः परित्याग इति चेत् उच्यते। एषा कृत्या पद्वती पादवती सती जाया भूत्वी भुत्वा पतिं विशते। कृत्यारूपवासः प्रवेशात् कृत्या जाया भूत्वा विश्वत इत्युपचर्यते। अतस्तत्परित्यागे कृतैव त्यक्ता भवतीत्यर्थः। यदि वधूवासः स्वयम् निधत्ते तदैवं भवतीति वधूवासः संस्पर्शनं निन्दायुक्तम्॥२९॥