प्रेतो मु॒ञ्चामि॒ नामुतः᳚ सुब॒द्धाम॒मुत᳚स्करम् ।
यथे॒यमि᳚न्द्र मीढ्वः सुपु॒त्रा सु॒भगास᳚ति ॥
यथे॒यमि᳚न्द्र मीढ्वः सुपु॒त्रा सु॒भगास᳚ति ॥
पदपाठः (Word-by-word)
प्र । इ॒तः । मु॒ञ्चामि᳚ । न । अ॒मुतः᳚ । सु॒॑ब॒द्धाम् । अ॒मुतः᳚ । क॒र॒म् ।
यथा᳚ । इ॒यम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒॑पु॒त्रा । सु॒॑भगा᳚ । अस᳚ति ॥
यथा᳚ । इ॒यम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒॑पु॒त्रा । सु॒॑भगा᳚ । अस᳚ति ॥
सायणभाष्यम् (Sayana Commentary)
इतः पितृकुलात्प्रमुञ्चामि त्वां नामुतो भर्तृगृहात्प्रमुञ्चामि। अमुतो भर्तृगृहे सुबद्धां करम्। यथेयं कन्या हे इन्द्र मीढ्वः सेक्तः सुपुत्रा सुभगा सुष्ठु भाग्या वासति भवति तथा कुरु॥२५॥