द्वे ते᳚ च॒क्रे सू᳚र्ये ब्र॒ह्माण᳚ ऋतु॒था वि᳚दुः ।
अथैकं᳚ च॒क्रं यद्गुहा॒ तद᳚द्धा॒तय॒ इद्वि᳚दुः ॥
अथैकं᳚ च॒क्रं यद्गुहा॒ तद᳚द्धा॒तय॒ इद्वि᳚दुः ॥
पदपाठः (Word-by-word)
द्वे इति᳚ । ते॒ । च॒क्रे इति᳚ । सू॒र्ये॒ । ब्र॒ह्माणः᳚ । ऋ॒तु॒॑था । वि॒दुः॒ ।
अथ᳚ । एक᳚म् । च॒क्रम् । यत् । गुहा᳚ । तत् । अ॒द्धा॒तयः᳚ । इत् । वि॒दुः॒ ॥
अथ᳚ । एक᳚म् । च॒क्रम् । यत् । गुहा᳚ । तत् । अ॒द्धा॒तयः᳚ । इत् । वि॒दुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
अथ स्वयमेव स्मात्मानं प्रति सूर्या वदति। हे सूर्ये ते तव द्वे चक्रे प्रज्ञाते पुरा दृष्टे द्वे एव चन्द्रसूर्यात्मके ऋतुथर्तुषु विनिर्दिष्टे चक्रे ब्रह्माणो ब्राह्मणा विदुः। अथैकं चक्रं तृतीयं संवत्सरात्मकं गुहा गुहायां निहितं यदस्ति तदद्थातय इत्। एतन्मेधाविनामसु पठितम्। मेधाविन एव विदुः। चानन्ति॥१६॥