ये व॒ध्व᳚श्च॒न्द्रं व᳚ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु᳚ ।
पुन॒स्तान्य॒ज्ञिया᳚ दे॒वा नय᳚न्तु॒ यत॒ आग᳚ताः ॥
पुन॒स्तान्य॒ज्ञिया᳚ दे॒वा नय᳚न्तु॒ यत॒ आग᳚ताः ॥
पदपाठः (Word-by-word)
ये । व॒ध्वः᳚ । च॒न्द्रम् । व॒ह॒तुम् । यक्ष्माः᳚ । यन्ति᳚ । जना᳚त् । अनु᳚ ।
पुन॒रिति᳚ । तान् । य॒ज्ञियाः᳚ । दे॒वाः । नय᳚न्तु । यतः᳚ । आ॑ग᳚ताः ॥
पुन॒रिति᳚ । तान् । य॒ज्ञियाः᳚ । दे॒वाः । नय᳚न्तु । यतः᳚ । आ॑ग᳚ताः ॥
सायणभाष्यम् (Sayana Commentary)
वध्वश्चन्द्रं हिरण्यरूपं वहतुं ये यक्ष्मा व्याधयोऽनु यन्ति प्राप्नुवन्ति जनादस्मद्विरोधिनः सकाशात्। यद्वा। जनाद्यमाख्यात्। तान्पुनर्नयन्तु प्रापयन्तु यज्ञिया यज्ञार्हा देवा इन्द्रादयः। यत आगता यस्मात्ते यक्ष्मा आगताः तत्र तान्नयन्तु॥३१॥