श्रवणम्

10.85.42
इ॒हैव स्तं॒ मा वि यौ᳚ष्टं॒ विश्व॒मायु॒र्व्य᳚श्नुतम् ।
क्रीळ᳚न्तौ पु॒त्रैर्नप्तृ᳚भि॒र्मोद᳚मानौ॒ स्वे गृ॒हे ॥
▶ पदपाठः (Word-by-word)
इ॒ह । ए॒व । स्त॒म् । मा । वि । यौ॒ष्ट॒म् । विश्व᳚म् । आयुः᳚ । वि । अ॒श्नु॒त॒म् ।
क्रीळ᳚न्तौ । पु॒त्रैः । नप्तृ᳚॑भिः । मोद᳚मानौ । स्वे । गृ॒हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

इहैव स्तम्। इहैवास्मिंल्लोके स्तम्। भवतम्। मा वि यौष्टम्। मा पृथग्भुतम्। विश्वमायुर्व्यश्नुतम्। प्राप्नुतम्। किञ्च पुत्रैर्नप्तृभिः पौत्रैः सह स्वे गृहे मोदमानौ भवतमिति शेषः॥४२॥