ऋ॒क्सा॒माभ्या᳚म॒भिहि᳚तौ॒ गावौ᳚ ते साम॒नावि᳚तः ।
श्रोत्रं᳚ ते च॒क्रे आ᳚स्तां दि॒वि पन्था᳚श्चराचा॒रः ॥
श्रोत्रं᳚ ते च॒क्रे आ᳚स्तां दि॒वि पन्था᳚श्चराचा॒रः ॥
पदपाठः (Word-by-word)
ऋ॒क्॑सा॒माभ्या᳚म् । अ॒भि॑हि᳚तौ । गावौ᳚ । ते॒ । सा॒म॒नौ । इ॒तः॒ ।
श्रोत्र᳚म् । ते॒ । च॒क्रे इति᳚ । आ॒स्ता॒म् । दि॒वि । पन्थाः᳚ । च॒रा॒च॒रः ॥
श्रोत्र᳚म् । ते॒ । च॒क्रे इति᳚ । आ॒स्ता॒म् । दि॒वि । पन्थाः᳚ । च॒रा॒च॒रः ॥
सायणभाष्यम् (Sayana Commentary)
हे सूर्ये देवि ते तवर्क्सामाभ्यामभिधानीस्थानाभ्यामभिहितौ गावौ गोस्थानीयौ सूर्याचन्द्रमसौ सामनौ समानौ सन्तावितः। गच्छतः। आनोवाहौ पत्युर्गृहं प्रति गच्छतः। ते तव श्रोत्रम्। श्रोते इत्यर्थः। वरस्य गुणग्राहिणी श्रोत्रे एव चक्रे अस्ताम्। मनोरूपस्य रथस्य श्रोत्रे चक्रे अभवतामित्यर्थः। दिवि पन्थाश्चराचरश्चलाचलोऽथन्तन्तं गमनसाधनभुतो मार्गोऽभुत्। रथसञ्चारप्रदेशो द्युलोक आसीत्॥११॥