अ॒नृ॒क्ष॒रा ऋ॒जवः᳚ सन्तु॒ पन्था॒ येभि॒ः सखा᳚यो॒ यन्ति᳚ नो वरे॒यम् ।
सम᳚र्य॒मा सं भगो᳚ नो निनीया॒त्सं जा᳚स्प॒त्यं सु॒यम᳚मस्तु देवाः ॥
सम᳚र्य॒मा सं भगो᳚ नो निनीया॒त्सं जा᳚स्प॒त्यं सु॒यम᳚मस्तु देवाः ॥
पदपाठः (Word-by-word)
अ॒नृ॒क्ष॒राः । ऋ॒जवः᳚ । स॒न्तु॒ । पन्थाः᳚ । येभिः᳚ । सखा᳚यः । यन्ति᳚ । नः॒ । व॒रे॒॑यम् ।
सम् । अ॒र्य॒मा । सम् । भगः᳚ । नः॒ । नि॒नी॒या॒त् । सम् । जाः॒॑प॒त्यम् । सु॒॑यम᳚म् । अ॒स्तु॒ । दे॒वाः॒ ॥
सम् । अ॒र्य॒मा । सम् । भगः᳚ । नः॒ । नि॒नी॒या॒त् । सम् । जाः॒॑प॒त्यम् । सु॒॑यम᳚म् । अ॒स्तु॒ । दे॒वाः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे देवाः पन्थाः पन्थानो मार्गा अनृक्षराः। ऋक्षरः कण्टक उच्यते। कण्टकरहिता ऋजवोऽकुटिलाश्च सन्तु येभिर्यैः पथिभिर्नोस्माकं सखायो वरप्रेषिता वरेयं वरैर्याचितव्यम् पितरं प्रति यन्ति गच्छन्ति ते पन्था इति। किञ्चार्यमा देवो नोऽस्मान् सं निनीयात्। सम्यक् प्रापयेत्। तथा भगो देवः सं निनीयात्। हे देवाः आसङ्गतमस्तु पतिकुलमिति शेषः तथेदं जास्पत्यं जायापत्योर्युगलं सुयममस्तु। सुमिथुनमस्तु॥२३॥