श्रवणम्

10.85.30
अ॒श्री॒रा त॒नूर्भ᳚वति॒ रुश᳚ती पा॒पया᳚मु॒या ।
पति॒र्यद्व॒ध्वो॒३॒᳚ वास᳚सा॒ स्वमङ्ग᳚मभि॒धित्स᳚ते ॥
▶ पदपाठः (Word-by-word)
अ॒श्री॒रा । त॒नूः । भ॒व॒ति॒ । रुश᳚ती । पा॒पया᳚ । अ॒मु॒या ।
पतिः᳚ । यत् । व॒ध्वः᳚ । वास᳚सा । स्वम् । अङ्ग᳚म् । अ॒भि॒॑धित्स᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रापि वधूवसः संस्पर्शनिन्दोच्यते। तनूर्वरस्य सम्बन्धिन्यश्रीरश्रीका भवति। कथं स्यादिति उच्यते। रुशती। रुशदिति वर्णनाम। दीप्तयामुयानया पापरुपया कृत्यया युक्ता चेत्तनूः। तदेवाह। पतिर्यद्यदि वध्वो वाससा स्वमङ्गमभिधित्सते परिधातुमिच्छति॥३०॥