दशमं मण्डलम् - सूक्तम् 92

15 ऋचः

ऋषिः: शार्यातो मानवः देवता: विश्वेदेवाः छन्दः: जगती

सूक्तम् 10.92 - सम्पूर्णम्

1 / 15
ऋक्: 10.92.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
10.92.1 समानपद
य॒ज्ञस्य᳚ वो र॒थ्यं᳚ वि॒श्पतिं᳚ वि॒शां होता᳚रम॒क्तोरति᳚थिं वि॒भाव᳚सुम् ।
शोच॒ञ्छुष्का᳚सु॒ हरि᳚णीषु॒ जर्भु᳚र॒द्वृषा᳚ के॒तुर्य᳚ज॒तो द्याम᳚शायत ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञस्य᳚ । वः॒ । र॒थ्य᳚म् । वि॒श्पति᳚म् । वि॒शाम् । होता᳚रम् । अ॒क्तोः । अति᳚थिम् । वि॒भा॑व᳚सुम् ।
शोच᳚न् । शुष्का᳚सु । हरि᳚णीषु । जर्भु᳚रत् । वृषा᳚ । के॒तुः । य॒ज॒तः । द्याम् । अ॒शा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञस्येति पञ्चदशर्चं द्वितीयं सूक्तं मनोः पुत्रस्य शार्यातस्यार्षम् जागतं बहुदेवताकम्। तथा चानुक्रान्तम्। यज्ञस्य शार्यातो मानवो वैश्वदेवं तु जागतमिति। चातुर्विंशिक आरम्भणीयेऽहनि वैश्वदेवशस्त्र इदं सूक्तं वैश्वदेवनिविद्धानम्। सूत्रितं च। ते हि द्यावापृथिवी यज्ञस्य वो रथ्यम्। आ. ७-४। इति। पृष्थाभिप्लवषडहयोर्द्वितीयेऽहन्यपीदं वैश्वदेवनिविद्धानं चातुर्विंशिकेन तृतीयसवनमिति सूत्रकृतातिदिष्टत्वात्॥

हे देवाह् वो यूयं यज्ञस्य नेतारं विश्पतिं मनुष्यानां पालकम् स्वामिनं वा विशां देवानां होतारमह्वातारमक्तो रात्रेरतिथिमतिथिभूतं विभावसुं विविधदीप्तधनं तमग्निं परिचरतेति शेषः। शुष्कासु शुष्कभूतास्वोषधीषु शोचञ्ज्वलन् हरिणीषु हरितवर्णास्वार्द्रास्वोषधीषु जर्भुरद्भक्षयन् कुटिलं गच्छन्वा वृषा कामानां वर्षिता केतुः प्रज्ञापको यजतो यश्टव्योऽग्निर्द्यां दिवमशायत। प्रतिशेते॥१॥

10.92.2 समानपद
इ॒मम᳚ञ्ज॒स्पामु॒भये᳚ अकृण्वत ध॒र्माण᳚म॒ग्निं वि॒दथ᳚स्य॒ साध᳚नम् ।
अ॒क्तुं न य॒ह्वमु॒षसः᳚ पु॒रोहि᳚तं॒ तनू॒नपा᳚तमरु॒षस्य᳚ निंसते ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । अ॒ञ्जः॒॑पाम् । उ॒भये᳚ । अ॒कृ॒ण्व॒त॒ । ध॒र्माण᳚म् । अ॒ग्निम् । वि॒दथ᳚स्य । साध᳚नम् ।
अ॒क्तुम् । न । य॒ह्वम् । उ॒षसः᳚ । पु॒रः॑हि᳚तम् । तनू॒३॒᳚॑नपा᳚तम् । अ॒रु॒षस्य᳚ । निं॒स॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उभये देवमनुश्या अन्जस्पामञ्जसा रक्षकं धर्माणं धारकमिममग्निं विदथन्य यज्ञस्य साधनं साधयितारमकृण्वत। आकुर्वत। किञ्चारुषस्यारोचमानस्य वायोस्तनूनपातं पुत्रं यह्वं महान्तं पुरोहितमुशसोक्तुं न स्वरश्मिभिरञ्जकमादित्यमिव निंसते। चुम्बयन्ति। आश्रयन्त इत्यर्थः॥२॥

10.92.3
बळ᳚स्य नी॒था वि प॒णेश्च᳚ मन्महे व॒या अ᳚स्य॒ प्रहु᳚ता आसु॒रत्त᳚वे ।
य॒दा घो॒रासो᳚ अमृत॒त्वमाश॒तादिज्जन᳚स्य॒ दैव्य᳚स्य चर्किरन् ॥
▶ पदपाठः (Word-by-word)
बट् । अ॒स्य॒ । नी॒था । वि । प॒णेः । च॒ । म॒न्म॒हे॒ । व॒याः । अ॒स्य॒ । प्र॑हु᳚ताः । आ॒सुः॒ । अत्त᳚वे ।
य॒दा । घो॒रासः᳚ । अ॒मृ॒त॒॑त्वम् । आश᳚त । आत् । इत् । जन᳚स्य । दैव्य᳚स्य । च॒र्कि॒र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वि पणेरस्माभिर्विविधं पणितव्यस्य स्तुत्यस्याग्नेर्नीथा नीथान्यस्मत्सम्बन्धीनि प्रज्ञानानि बट् सत्यानि स्युरिति मन्महे। वयं कामयामहे। किञ्चास्याग्नेर्वया अस्मदीया अन्नाहुतयेऽत्तवे भक्षनाय प्रहुता आसुर्भवेयुरिति कामयामहे। किञ्च यदा यस्मिन्काले घोरासो घोरा अग्नेर्ज्वाला अमृतत्त्वमविनाशित्वमाशत प्राप्नुवन्ति आदिदनन्तरमेवास्माकमृत्विजो दैव्यस्य देवेशु भवस्य जनस्याग्नेरर्थाय चर्किरन्। किरेयुः। अग्नौ हवींशि प्रक्शिपेयुरित्यर्थः॥३॥

10.92.4
ऋ॒तस्य॒ हि प्रसि᳚ति॒र्द्यौरु॒रु व्यचो॒ नमो᳚ म॒ह्य१॒᳚रम᳚ति॒ः पनी᳚यसी ।
इन्द्रो᳚ मि॒त्रो वरु᳚ण॒ः सं चि᳚कित्रि॒रे॑थो॒ भगः᳚ सवि॒ता पू॒तद᳚क्षसः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । हि । प्र॑सि᳚तिः । द्यौः । उ॒रु । व्यचः᳚ । नमः᳚ । म॒ही । अ॒रम᳚तिः । पनी᳚यसी ।
इन्द्रः᳚ । मि॒त्रः । वरु᳚णः । सम् । चि॒कि॒त्रि॒रे॒ । अथो॒ इति᳚ । भगः᳚ । स॒वि॒ता । पू॒त॑द᳚क्षसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्य यज्ञस्य सम्बन्धिनमग्निं प्रति प्रसितिर्विस्तृता द्यौरुरु विस्तीर्णं व्यचो व्याप्तमन्तरिक्षं च पनीयसी स्तुत्यतमारमतिः पर्यन्तरहिता मही पृथिवी च नमो नमनं कुर्वन्तीति शेशः। अथो अपि चैनमग्निमिन्द्रो मित्रश्च वरुणश्च भगश्च सविता पूतदक्षसः शुद्धबला एते देवा एनमग्निं सं चिकित्रिरे। ज्यैष्थ्याय सञ्जानते॥४॥

10.92.5
प्र रु॒द्रेण᳚ य॒यिना᳚ यन्ति॒ सिन्ध᳚वस्ति॒रो म॒हीम॒रम᳚तिं दधन्विरे ।
येभि॒ः परि᳚ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु᳚वज्ज॒ठरे॒ विश्व᳚मु॒क्षते᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । रु॒द्रेण᳚ । य॒यिना᳚ । य॒न्ति॒ । सिन्ध᳚वः । ति॒रः । म॒हीम् । अ॒रम᳚तिम् । द॒ध॒न्वि॒रे॒ ।
येभिः᳚ । परि᳚॑ज्मा । प॒रि॒॑यन् । उ॒रु । ज्रयः᳚ । वि । रोरु᳚वत् । ज॒ठरे᳚ । विश्व᳚म् । उ॒क्षते᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिन्धवः स्यन्दनशीला आपो ययिना गमनशीलेन रुद्रेण रुद्रपुत्रेण मरुद्गणेन सह प्र यन्ति। अथ बहुवदाह। तेऽमी मरुतोऽरमतिम् । रमतिर्विरामोऽवसानम् । तद्रहितामपर्यन्तां महीं पृथीवीं तिरो दधन्विरे। तिरस्कुर्वन्तीत्यर्थः। परिज्मा परितो गन्तेन्द्रः परियन् परितो गच्छन् येभिर्यैर्मरुद्गणैः सहोरु ज्रयो बहुवेगं करोतीति शेषः। किञ्च जठरेऽन्तरिक्षे रोरुवच्छब्दं कुर्वन्पर्जन्यो यैर्मरुद्गणैः सह विश्वं भुवनमुक्षते सिञ्चते॥५॥

10.92.6
क्रा॒णा रु॒द्रा म॒रुतो᳚ वि॒श्वकृ᳚ष्टयो दि॒वः श्ये॒नासो॒ असु᳚रस्य नी॒ळयः᳚ ।
तेभि᳚श्चष्टे॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मेन्द्रो᳚ दे॒वेभि᳚रर्व॒शेभि॒रर्व᳚शः ॥
▶ पदपाठः (Word-by-word)
क्रा॒णाः । रु॒द्राः । म॒रुतः᳚ । वि॒श्व॑कृ᳚ष्टयः । दि॒वः । श्ये॒नासः᳚ । असु᳚रस्य । नी॒ळयः᳚ ।
तेभिः᳚ । च॒ष्टे॒ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा । इन्द्रः᳚ । दे॒वेभिः᳚ । अ॒र्व॒शेभिः᳚ । अर्व᳚शः ॥
▶ सायणभाष्यम् (Sayana Commentary)

असुरस्य मेघस्य नीळय आवासभूता दिवोऽन्तरिक्षसम्बन्धिनः श्येनासः श्येनाः शंसनीयगतयो विश्वकृष्टयो व्याप्तमनुष्या रुद्रा रुद्रपुत्रा ये मरुतः क्राणाः स्वाधिकारकर्माणि कुर्वाणा आसत इति शेशः। तेभिस्तैरर्वशेभिरश्ववद्भिः सोमवद्भिर्वा देवेभिर्देवैः सहार्वशोऽश्वान् सोमवान्वेन्द्रश्च ष्टे। पश्यति। वरुणश्च मित्राश्चार्यमा च सोमवद्भिः सह पश्यन्ति॥६॥

10.92.7
इन्द्रे॒ भुजं᳚ शशमा॒नास᳚ आशत॒ सूरो॒ दृशी᳚के॒ वृष᳚णश्च॒ पौंस्ये᳚ ।
प्र ये न्व᳚स्या॒र्हणा᳚ ततक्षि॒रे युजं॒ वज्रं᳚ नृ॒षद᳚नेषु का॒रवः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रे᳚ । भुज᳚म् । श॒श॒मा॒नासः᳚ । आ॒श॒त॒ । सूरः᳚ । दृशी᳚के । वृष᳚णः । च॒ । पौंस्ये᳚ ।
प्र । ये । नु । अ॒स्य॒ । अ॒र्हणा᳚ । त॒त॒क्षि॒रे । युज᳚म् । वज्र᳚म् । नृ॒॑सद᳚नेषु । का॒रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये शशमानासः शशमानाः स्तोतार इन्द्रे स्तुते सति भुजं पालनमाशत प्राप्नुवन्ति। सूरः सूर्ये स्तुते सति दृशीके दर्शनं सर्ववस्तुविषयं प्राप्नुवन्ति। वृषणो वर्षितरीन्द्रे स्तुते पौंस्यं बलं च प्राप्नुवन्ति। किञ्च ये कारवः स्तोतारोऽस्येन्द्रस्यार्हणा पूजनानि नु क्षिप्रं ततक्षिरे प्रकृष्टानि कुर्वन्ति ते स्तोतारो नृषदनेषु नरः कर्तृत्वेन येशु सीदन्ति तिष्ठन्ति तेषु यज्ञेषु युजं सहायमिन्द्रस्य वज्रं प्राप्नुवन्ति॥७॥

10.92.8
सूर᳚श्चि॒दा ह॒रितो᳚ अस्य रीरम॒दिन्द्रा॒दा कश्चि᳚द्भयते॒ तवी᳚यसः ।
भी॒मस्य॒ वृष्णो᳚ ज॒ठरा᳚दभि॒श्वसो᳚ दि॒वेदि᳚वे॒ सहु᳚रिः स्त॒न्नबा᳚धितः ॥
▶ पदपाठः (Word-by-word)
सूरः᳚ । चि॒त् । आ । ह॒रितः᳚ । अ॒स्य॒ । री॒र॒म॒त् । इन्द्रा᳚त् । आ । कः । चि॒त् । भ॒य॒ते॒ । तवी᳚यसः ।
भी॒मस्य᳚ । वृष्णः᳚ । ज॒ठरा᳚त् । अ॒भि॒॑श्वसः᳚ । दि॒वे॑दि᳚वे । सहु᳚रिः । स्त॒न् । अबा᳚धितः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूरः सूर्योऽप्यस्येन्द्रस्य परमेश्वरस्य परमात्मन आज्ञां परिपालयितुं मन्वानो हरितोऽश्वान्प्रेरयतिति शेषः। प्रेरयन्नध्वन्या रीरमत्। आभिमुख्येन रमयति। यः कश्चिद्देवोऽपि सृष्तौ भयते बिभेति स देवस्तवीयसः प्रवृद्धादिन्द्रात्परमात्मनो भयादेव बिभेति। तथा च तैत्तिरीये पठितम्। भीषास्माद्वातः पवते। तै. उ. २-८। इत्यादिना। किञ्च वृष्णः कामानां वर्षितुर्भिमस्य सर्वभयङ्ग्करस्य परमात्मनः परमेश्वरस्य दिवेदिवेऽन्वहमभिश्वस आभिमुख्येन ठ्वसतो जठरादुदरादन्तरिक्षात्सहुरिः सहनशीलोऽबाधितो बाधरहितः सन्। स्तनयति। शब्दं करोति॥८॥

10.92.9 समानपद
स्तोमं᳚ वो अ॒द्य रु॒द्राय॒ शिक्व᳚से क्ष॒यद्वी᳚राय॒ नम᳚सा दिदिष्टन ।
येभि᳚ः शि॒वः स्ववा{4}᳚ एव॒याव᳚भिर्दि॒वः सिष᳚क्ति॒ स्वय᳚शा॒ निका᳚मभिः ॥
▶ पदपाठः (Word-by-word)
स्तोम᳚म् । वः॒ । अ॒द्य । रु॒द्राय᳚ । शिक्व᳚से । क्ष॒यत्॑वी᳚राय । नम᳚सा । दि॒दि॒ष्ट॒न॒ ।
येभिः᳚ । शि॒वः । स्व॑वा᳚न् । ए॒व॒याव᳚॑भिः । दि॒वः । सिस᳚क्ति । स्व॑य᳚शाः । निका᳚म॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवयावभिरश्वैरागच्छद्भिर्येभिर्यैमरुद्भिः सह स्ववाञ्जातिमान् स्वयशा स्वभूतकीर्तिः शिवः सुखकरः परमेश्वरो दिवो व्युलोकाद्यजमानान्सिषक्ति सेवते हे ऋत्विजः यूयमद्यास्मिन्यागे निकामभिर्नियताभिलाषैस्तैर्मरुद्भिः सहिताय क्षयद्वीराय क्षितशत्रवे शिक्वसे शरणे शक्ताय रुद्राय नमसान्नेन नमस्कारेण वा सह सोत्मं स्तोत्रं दिदिष्टन। दिशत। सृजत। गमयतेत्यर्थः॥९॥

10.92.10
ते हि प्र॒जाया॒ अभ᳚रन्त॒ वि श्रवो॒ बृह॒स्पति᳚र्वृष॒भः सोम᳚जामयः ।
य॒ज्ञैरथ᳚र्वा प्रथ॒मो वि धा᳚रयद्दे॒वा दक्षै॒र्भृग᳚व॒ः सं चि᳚कित्रिरे ॥
▶ पदपाठः (Word-by-word)
ते । हि । प्र॒॑जायाः᳚ । अभ᳚रन्त । वि । श्रवः᳚ । बृह॒स्पतिः᳚ । वृ॒ष॒भः । सोम᳚॑जामयः ।
य॒ज्ञैः । अथ᳚र्वा । प्र॒थ॒मः । वि । धा॒र॒य॒त् । दे॒वाः । दक्षैः᳚ । भृग᳚वः । सम् । चि॒कि॒त्रि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हि यस्मात्कारणद्वृषभः कामानां वर्षिता बृहस्पतिः सोमजामयोऽन्ये सोमबन्धवस्ते विश्वे देवाः प्रजाया अर्थाय श्रवोऽन्नं व्यभरन्त विभरन्ति वृष्टिद्वारेण पोषयन्ति तस्मात्कारणात्तासां प्रजानां मध्येऽथर्वा नामर्षिः प्रथमः प्रथममेव क्रियमाणैर्यज्ञैर्वि धारयत्। देवान्कर्मयोग्यान्विधृतानकरोत्। अत्र निगमः। यज्ञैरथर्वा प्रथमः प्रथस्तते। इ. १-८३-५। इति। अथ दक्षैर्बलैः सह देवा विश्वे भृगव ऋषयश्च सं चिकित्रते। अथर्वणा कृतं यज्ञं गत्वा पशून्संज्ञातवन्तः॥१०॥

10.92.11
ते हि द्यावा᳚पृथि॒वी भूरि᳚रेतसा॒ नरा॒शंस॒श्चतु᳚रङ्गो य॒मो॑दि᳚तिः ।
दे॒वस्त्वष्टा᳚ द्रविणो॒दा ऋ᳚भु॒क्षण॒ः प्र रो᳚द॒सी म॒रुतो॒ विष्णु᳚रर्हिरे ॥
▶ पदपाठः (Word-by-word)
ते । हि । द्यावा᳚पृथि॒वी इति᳚ । भूरि᳚॑रेतसा । नरा॒शंसः᳚ । चतुः᳚॑अङ्गः । य॒मः । अदि᳚तिः ।
दे॒वः । त्वष्टा᳚ । द्र॒वि॒णः॒॑दाः । ऋ॒भु॒क्षणः᳚ । प्र । रो॒द॒सी इति᳚ । म॒रुतः᳚ । विष्णुः᳚ । अ॒र्हि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भूरिरेतसा बहूदके द्यावापृथिवी द्यावापृथिव्यौ यमो देवोऽदितिश्च त्वष्टा देवश्व द्रविणोदा अग्निश्च ऋभुक्षण ऋभवश्च रोदसी रुद्रस्य पत्नी च मरुतो देवाश्च विष्णुश्च एते विश्वे देवाश्चतुरङ्गश्चतुर्भिरग्निभिर्युक्तस्तस्मिन्नराशंसो नराशंसनामधेये यज्ञे प्रार्हिरे। अस्माभिः स्तोतृभिः पूज्यन्ते॥११॥

10.92.12
उ॒त स्य न᳚ उ॒शिजा᳚मुर्वि॒या क॒विरहि᳚ः शृणोतु बु॒ध्न्यो॒३॒᳚ हवी᳚मनि ।
सूर्या॒मासा᳚ वि॒चर᳚न्ता दिवि॒क्षिता᳚ धि॒या श᳚मीनहुषी अ॒स्य बो᳚धतम् ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्यः । नः॒ । उ॒शिजा᳚म् । उ॒र्वि॒या । क॒विः । अहिः᳚ । शृ॒णो॒तु॒ । बु॒ध्न्यः᳚ । हवी᳚मनि ।
सूर्या॒मासा᳚ । वि॒॑चर᳚न्ता । दि॒वि॒॑क्षिता᳚ । धि॒या । श॒मी॒न॒हु॒षी॒ इति᳚ । अ॒स्य । बो॒ध॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च नोऽस्माकमुशिजां कामयमानानामृत्विजामुर्वियोर्वीं बह्वीं स्तुतिं कविर्मेधावी भुध्न्यो बुध्नेऽन्तरिक्षे भवः सोऽहिर्देवो हवीमनि हूयन्ते यत्र देवेभ्यो हवींषि तस्मिन्यज्ञे शृणोतु। दिविक्षिता दिवि वसन्तौ विचरन्ता विशेषेण चरन्तौ सूर्यामासा सूर्यचन्द्रमसौ धिया बुद्ध्यास्य स्तोत्रमिदं बोधतम् । बुध्येतां तमी कर्मवती पृथिवी। शमीति कर्मनामसु पाठात्। नहुषी द्यौः। अत्र वाजसनेयकम्। द्यौर्नहुषीयं वै शमी तस्या एष गर्भ इति। हे द्यावापृथिव्यौ युवां स्तोत्रं धिया स्वीयया प्रज्ञया बुध्येतम्। अवगच्छतमित्यर्थः॥१२॥

10.92.13 समानपद
प्र नः᳚ पू॒षा च॒रथं᳚ वि॒श्वदे᳚व्यो॒॑पां नपा᳚दवतु वा॒युरि॒ष्टये᳚ ।
आ॒त्मानं॒ वस्यो᳚ अ॒भि वात᳚मर्चत॒ तद᳚श्विना सुहवा॒ याम᳚नि श्रुतम् ॥
▶ पदपाठः (Word-by-word)
प्र । नः॒ । पू॒षा । च॒रथ᳚म् । वि॒श्व॑दे᳚व्यः । अ॒पाम् । नपा᳚त् । अ॒व॒तु॒ । वा॒युः । इ॒ष्टये᳚ ।
आ॒त्मान᳚म् । वस्यः᳚ । अ॒भि । वात᳚म् । अ॒र्च॒त॒ । तत् । अ॒श्वि॒ना॒ । सु॒॑ह॒वा॒ । याम᳚नि । श्रु॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूषा देवो नोऽस्माकं सम्बन्धि चरथं जङ्गमं प्रावतु। प्रकर्षेण रक्षतु। किञ्च विश्वदेव्यो विश्वदेवहितोऽपां नपाद्वायुरिष्टये यज्ञस्य निष्कृत्यर्थं प्रावतु। चिञ्चात्मानं सर्वेषामात्मभुतं वातं वायुं वस्यो वसीयः प्रशस्यतरमन्नं प्राप्तुम् । अस्मभ्यमन्नं कामयमानमिति शेषः। हे अश्विनाश्विनौ सुहवा स्वाह्वानौ युवां यामनि गमने तदिदं स्तोत्रं श्रुतम्। शृणुतम्॥१३॥

10.92.14
वि॒शामा॒सामभ᳚यानामधि॒क्षितं᳚ गी॒र्भिरु॒ स्वय᳚शसं गृणीमसि ।
ग्नाभि॒र्विश्वा᳚भि॒रदि᳚तिमन॒र्वण᳚म॒क्तोर्युवा᳚नं नृ॒मणा॒ अधा॒ पति᳚म् ॥
▶ पदपाठः (Word-by-word)
वि॒शाम् । आ॒साम् । अभ᳚यानाम् । अ॒धि॒॑क्षित᳚म् । गीः॒॑भिः । ऊं॒ इति᳚ । स्व॑य᳚शसम् । गृ॒णी॒म॒सि॒ ।
ग्नाभिः᳚ । विश्वा᳚भिः । अदि᳚तिम् । अ॒न॒र्वण᳚म् । अ॒क्तोः । युवा᳚नम् । नृ॒॑मनाः᳚ । अध᳚ । पति᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभयानां संसारभयरहितानामासां विशां मनुष्याणामधिक्षितमन्तर्निवसन्तं स्वयशसमुपार्जितकीर्तिमेनमग्निं गीर्भिः स्तुतिभिर्गृणीमसि। वयं स्तुमः। किञ्चानर्वणमप्रत्यृतां पत्युरपत्यान्तत्वेनाप्रतिगतामदितिमदीनां देवमातरं विश्वाभिः सर्वाभिर्ग्नाभिर्देवपत्नीभिः सह स्तुमः। किञ्चाक्तो रात्रेर्युवानं स्वतेजसा विश्रयितारं चन्द्रमसं स्तुपुः। किञ्च नृमणाः नृषु मनुष्येष्वनुग्राहकमना यः तमादित्यं स्तुमः। अधाथ पतिं सर्वस्य पालकमिन्द्रं स्तुमः॥१४॥

10.92.15
रेभ॒दत्र᳚ ज॒नुषा॒ पूर्वो॒ अङ्गि᳚रा॒ ग्रावा᳚ण ऊ॒र्ध्वा अ॒भि च᳚क्षुरध्व॒रम् ।
येभि॒र्विहा᳚या॒ अभ᳚वद्विचक्ष॒णः पाथः᳚ सु॒मेकं॒ स्वधि᳚ति॒र्वन᳚न्वति ॥
▶ पदपाठः (Word-by-word)
रेभ᳚त् । अत्र᳚ । ज॒नुषा᳚ । पूर्वः᳚ । अङ्गि᳚राः । ग्रावा᳚णः । ऊ॒र्ध्वाः । अ॒भि । च॒क्षुः॒ । अ॒ध्व॒रम् ।
येभिः᳚ । वि॑हा᳚याः । अभ᳚वत् । वि॒॑च॒क्ष॒णः । पाथः᳚ । सु॒॑मेक᳚म् । स्व॑धि᳚तिः । वन᳚न्॑वति ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्गिरा नामर्षिरार्त्विज्येन वृतः स देवान्स्तौति। अत्रास्मिन्यज्ञे जनुषा जन्मना पूर्वः प्रत्नोऽङ्गिरा नामर्षी रेभत्। देवान्स्तौति। ग्रावाणश्चोर्ध्वा उद्यताः सन्तोऽध्वरं यज्ञसाधनं सोममभि चक्षुः। अभिपश्यन्ति। विचक्षणो विद्रष्टेन्द्रो येभिर्यैर्ग्रावभिरभिषवसंबन्धिभिः शब्दैर्विहाया महानभवत्। हृष्टोऽभूदित्यर्थः। आस्येन्द्रस्य स्वधितिर्वज्रो वनन्वत्युदकवति मार्गे पाथोऽन्नसाधनं सुमेकं शोभनमुदकं निरगमयदिति शेषः॥१५॥