श्रवणम्

10.92.11
ते हि द्यावा᳚पृथि॒वी भूरि᳚रेतसा॒ नरा॒शंस॒श्चतु᳚रङ्गो य॒मो॑दि᳚तिः ।
दे॒वस्त्वष्टा᳚ द्रविणो॒दा ऋ᳚भु॒क्षण॒ः प्र रो᳚द॒सी म॒रुतो॒ विष्णु᳚रर्हिरे ॥
▶ पदपाठः (Word-by-word)
ते । हि । द्यावा᳚पृथि॒वी इति᳚ । भूरि᳚॑रेतसा । नरा॒शंसः᳚ । चतुः᳚॑अङ्गः । य॒मः । अदि᳚तिः ।
दे॒वः । त्वष्टा᳚ । द्र॒वि॒णः॒॑दाः । ऋ॒भु॒क्षणः᳚ । प्र । रो॒द॒सी इति᳚ । म॒रुतः᳚ । विष्णुः᳚ । अ॒र्हि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भूरिरेतसा बहूदके द्यावापृथिवी द्यावापृथिव्यौ यमो देवोऽदितिश्च त्वष्टा देवश्व द्रविणोदा अग्निश्च ऋभुक्षण ऋभवश्च रोदसी रुद्रस्य पत्नी च मरुतो देवाश्च विष्णुश्च एते विश्वे देवाश्चतुरङ्गश्चतुर्भिरग्निभिर्युक्तस्तस्मिन्नराशंसो नराशंसनामधेये यज्ञे प्रार्हिरे। अस्माभिः स्तोतृभिः पूज्यन्ते॥११॥