श्रवणम्

10.92.5
प्र रु॒द्रेण᳚ य॒यिना᳚ यन्ति॒ सिन्ध᳚वस्ति॒रो म॒हीम॒रम᳚तिं दधन्विरे ।
येभि॒ः परि᳚ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु᳚वज्ज॒ठरे॒ विश्व᳚मु॒क्षते᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । रु॒द्रेण᳚ । य॒यिना᳚ । य॒न्ति॒ । सिन्ध᳚वः । ति॒रः । म॒हीम् । अ॒रम᳚तिम् । द॒ध॒न्वि॒रे॒ ।
येभिः᳚ । परि᳚॑ज्मा । प॒रि॒॑यन् । उ॒रु । ज्रयः᳚ । वि । रोरु᳚वत् । ज॒ठरे᳚ । विश्व᳚म् । उ॒क्षते᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिन्धवः स्यन्दनशीला आपो ययिना गमनशीलेन रुद्रेण रुद्रपुत्रेण मरुद्गणेन सह प्र यन्ति। अथ बहुवदाह। तेऽमी मरुतोऽरमतिम् । रमतिर्विरामोऽवसानम् । तद्रहितामपर्यन्तां महीं पृथीवीं तिरो दधन्विरे। तिरस्कुर्वन्तीत्यर्थः। परिज्मा परितो गन्तेन्द्रः परियन् परितो गच्छन् येभिर्यैर्मरुद्गणैः सहोरु ज्रयो बहुवेगं करोतीति शेषः। किञ्च जठरेऽन्तरिक्षे रोरुवच्छब्दं कुर्वन्पर्जन्यो यैर्मरुद्गणैः सह विश्वं भुवनमुक्षते सिञ्चते॥५॥