श्रवणम्

10.92.1 समानपद
य॒ज्ञस्य᳚ वो र॒थ्यं᳚ वि॒श्पतिं᳚ वि॒शां होता᳚रम॒क्तोरति᳚थिं वि॒भाव᳚सुम् ।
शोच॒ञ्छुष्का᳚सु॒ हरि᳚णीषु॒ जर्भु᳚र॒द्वृषा᳚ के॒तुर्य᳚ज॒तो द्याम᳚शायत ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञस्य᳚ । वः॒ । र॒थ्य᳚म् । वि॒श्पति᳚म् । वि॒शाम् । होता᳚रम् । अ॒क्तोः । अति᳚थिम् । वि॒भा॑व᳚सुम् ।
शोच᳚न् । शुष्का᳚सु । हरि᳚णीषु । जर्भु᳚रत् । वृषा᳚ । के॒तुः । य॒ज॒तः । द्याम् । अ॒शा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञस्येति पञ्चदशर्चं द्वितीयं सूक्तं मनोः पुत्रस्य शार्यातस्यार्षम् जागतं बहुदेवताकम्। तथा चानुक्रान्तम्। यज्ञस्य शार्यातो मानवो वैश्वदेवं तु जागतमिति। चातुर्विंशिक आरम्भणीयेऽहनि वैश्वदेवशस्त्र इदं सूक्तं वैश्वदेवनिविद्धानम्। सूत्रितं च। ते हि द्यावापृथिवी यज्ञस्य वो रथ्यम्। आ. ७-४। इति। पृष्थाभिप्लवषडहयोर्द्वितीयेऽहन्यपीदं वैश्वदेवनिविद्धानं चातुर्विंशिकेन तृतीयसवनमिति सूत्रकृतातिदिष्टत्वात्॥

हे देवाह् वो यूयं यज्ञस्य नेतारं विश्पतिं मनुष्यानां पालकम् स्वामिनं वा विशां देवानां होतारमह्वातारमक्तो रात्रेरतिथिमतिथिभूतं विभावसुं विविधदीप्तधनं तमग्निं परिचरतेति शेषः। शुष्कासु शुष्कभूतास्वोषधीषु शोचञ्ज्वलन् हरिणीषु हरितवर्णास्वार्द्रास्वोषधीषु जर्भुरद्भक्षयन् कुटिलं गच्छन्वा वृषा कामानां वर्षिता केतुः प्रज्ञापको यजतो यश्टव्योऽग्निर्द्यां दिवमशायत। प्रतिशेते॥१॥