दशमं मण्डलम् - सूक्तम् 169

4 ऋचः

ऋषिः: शबरः काक्षीवतः देवता: गावः छन्दः: त्रिष्टुप्

सूक्तम् 10.169 - सम्पूर्णम्

1 / 4
ऋक्: 10.169.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
10.169.1
म॒यो॒भूर्वातो᳚ अ॒भि वा᳚तू॒स्रा ऊर्ज᳚स्वती॒रोष᳚धी॒रा रि᳚शन्ताम् ।
पीव᳚स्वतीर्जी॒वध᳚न्याः पिबन्त्वव॒साय᳚ प॒द्वते᳚ रुद्र मृळ ॥
▶ पदपाठः (Word-by-word)
म॒यः॒॑भूः । वातः᳚ । अ॒भि । वा॒तु॒ । उ॒स्राः । ऊर्ज᳚स्वतीः । ओष᳚धीः । आ । रि॒श॒न्ता॒म् ।
पीव᳚स्वतीः । जी॒व॑ध᳚न्याः । पि॒ब॒न्तु॒ । अ॒व॒साय᳚ । प॒त्॑वते᳚ । रु॒द्र॒ । मृ॒ळ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मयोभूरिति। चतुरृचमष्टादशं सूक्तं कक्षीवद्गोत्रस्य शबरस्यर्षम् त्रैष्टुभम् गोदेवत्यम्। अनुक्रान्तं च। मयोभूः शबरः काक्षीवतो गव्यमिति। घासाय वनं प्रतिष्ठमाना गा आदितो द्वाभ्यामभिमन्त्रणीयाः। सूत्रितं च। गाः प्रतिष्ठमाना अनुमन्त्रयेत मयोभूर्वातो अभि वातूस्रा इति द्वाभ्याम् । आ. गृ. २-१०-५। इति॥

वातो वायुर्मयोभूः सुखस्य भावयिता सन्नुस्रा गा अभि वातु। अभिगच्छतु। ताश्च गाव ऊर्जस्वती रसवतीरोषधीर्बलवन्ति तृणान्या रिशन्ताम्। अभितः स्वादयन्तु। तथा पीवस्वतीः प्रवृद्धा जीवधन्या जीवानां प्राणयित्रीरपश्च पिबन्तु। हे रुद्र ज्वरादिरोगस्य प्रेक्षणेन संहर्तर्देव पद्वते पादयुक्तायावसायान्नाय गोरूपाय मृळ। उपदयां कुरु। मा बाधस्वेत्यर्थः॥१॥

10.169.2
याः सरू᳚पा॒ विरू᳚पा॒ एक᳚रूपा॒ यासा᳚म॒ग्निरिष्ट्या॒ नामा᳚नि॒ वेद᳚ ।
या अङ्गि᳚रस॒स्तप᳚से॒ह च॒क्रुस्ताभ्य᳚ः पर्जन्य॒ महि॒ शर्म᳚ यच्छ ॥
▶ पदपाठः (Word-by-word)
याः । स॑रू᳚पाः । वि॑रू᳚पाः । एक᳚॑रूपाः । यासा᳚म् । अ॒ग्निः । इष्ट्या᳚ । नामा᳚नि । वेद᳚ ।
याः । अङ्गि᳚रसः । तप᳚सा । इ॒ह । च॒क्रुः । ताभ्यः᳚ । प॒र्ज॒न्य॒ । महि᳚ । शर्म᳚ । य॒च्छ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

या गावः सरूपाः समानरूपा याश्च विरूपा विभिन्नरूपा याश्चैकरूपा एकेनैव वर्णेनोपेता यासां च गवां नामानीडे रन्तेऽदित इत्यादीनीष्ट्या यागेन हेतुनाग्निर्वेद जानाति याश्च गा अङ्गिरस ऋषयस्तपसा पशुप्राप्तिसाधनेन चित्रायागादिलक्षणेनेहास्मिंल्लोके चक्रुः कृतवन्तः ताभ्यः सर्वाभ्यो गोभ्यो हे पर्जन्य महि महच्छर्म सुखं यच्छ। प्रदेहि॥२॥

10.169.3
या दे॒वेषु᳚ त॒न्व१॒᳚मैर᳚यन्त॒ यासां॒ सोमो॒ विश्वा᳚ रू॒पाणि॒ वेद᳚ ।
ता अ॒स्मभ्यं॒ पय᳚सा॒ पिन्व᳚मानाः प्र॒जाव᳚तीरिन्द्र गो॒ष्ठे रि᳚रीहि ॥
▶ पदपाठः (Word-by-word)
याः । दे॒वेषु᳚ । त॒न्व᳚म् । ऐर᳚यन्त । यासा᳚म् । सोमः᳚ । विश्वा᳚ । रू॒पाणि᳚ । वेद᳚ ।
ताः । अ॒स्मभ्य᳚म् । पय᳚सा । पिन्व᳚मानाः । प्र॒जा॑व᳚तीः । इ॒न्द्र॒ । गो॒॑स्थे । रि॒री॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वाभ्यां सायं गृहमागच्छन्तीर्गा अनुमन्त्रयेत। सूत्र्यते हि। या देवेषु तन्वमैरयन्तेति च सूक्तशेशम्। आगावीयमेके। आ. गृ/ २-१०-६,७। इति॥

या गावो देवेषु यष्टव्येषु तन्वमात्मीयं शरीरमैरयन्त हवीरूपेण प्रेरयन्ति यासां च गवां विश्वा सर्वाणि रूपाणि रूप्यमाणानि क्षीरादीनि श्रयणद्रव्याणि सोमोवेद जानाति अस्मभ्यमस्मदर्थं पयसा क्षीरेण पिन्वमाना वर्धमानाः अत एव प्रजावतीः प्रजाभिर्वत्सैरुपेतास्ता गा हे इन्द्र गोष्ठेऽस्मदीये रिरीहि। गमय। री गतिरेषनयोः। छान्दसो विकरणस्य श्लुः॥३॥

10.169.4
प्र॒जाप᳚ति॒र्मह्य᳚मे॒ता ररा᳚णो॒ विश्वै᳚र्दे॒वैः पि॒तृभि᳚ः संविदा॒नः ।
शि॒वाः स॒तीरुप᳚ नो गो॒ष्ठमाक॒स्तासां᳚ व॒यं प्र॒जया॒ सं स᳚देम ॥
▶ पदपाठः (Word-by-word)
प्र॒जा॑प᳚तिः । मह्य᳚म् । ए॒ताः । ररा᳚णः । विश्वैः᳚ । दे॒वैः । पि॒तृ॑भिः᳚ । स॒म्॑वि॒दा॒नः ।
शि॒वाः । स॒तीः । उप᳚ । नः॒ । गो॒॑स्थम् । आ । अ॒क॒रित्य᳚कः । तासा᳚म् । व॒यम् । प्र॒॑जया᳚ । सम् । स॒दे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रजापतिर्विधाता मह्यं स्तोत्र एता गा रराणः प्रयच्छन्। रातेर्व्यत्ययेन शानच्। छान्दसः शपः श्लुः। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। विश्वैः सर्वैर्देवैः पितृभिश्च सम्विदान ऐकमत्यं गतः सन् शिवाः सतीः कल्याणीर्भवन्तीर्गा नोऽस्माकं गोष्ठं व्रजमुप गोष्ठसमीपेऽकः। करोतु। तासां गवां प्रजया सन्तानेन वयं सं सदेम। सङ्गच्छेमहि। सदेराशिषि लिङि लिङ्याशिष्यङ्॥४॥