दशमं मण्डलम् - सूक्तम् 125

8 ऋचः

ऋषिः: वागांभृणी देवता: वागांभृणी छन्दः: त्रिष्टुप्

सूक्तम् 10.125 - सम्पूर्णम्

1 / 8
ऋक्: 10.125.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
10.125.1
अ॒हं रु॒द्रेभि॒र्वसु᳚भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः ।
अ॒हं मि॒त्रावरु᳚णो॒भा बि᳚भर्म्य॒हमि᳚न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । रु॒द्रेभिः᳚ । वसु᳚॑भिः । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्व॑दे᳚वैः ।
अ॒हम् । मि॒त्रावरु᳚णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति᳚ । अ॒हम् । अ॒श्विना᳚ । उ॒भा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमित्यष्टर्चं त्रयोदशं सूक्तम्। अम्भृणस्य महर्षेर्दुहिता वाङ्नाम्नी ब्रह्मविदुषी स्वात्मानमस्तौत्। अतः सर्षिः। सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता। तेन ह्येशा तादात्म्यमनुभवन्ती सर्वजगद्रूपेण सर्वस्याधिष्ठानत्वेन चाहमेव सर्वं भवामीति स्वात्मानं स्तौति। द्वितीया जगती शिष्टाः सप्त त्रिष्टुभः। तथा चानुक्रान्तम्। अहमष्टौ वागांभृणी तुष्टावात्मानम् द्वितीया जगतीति। गतो विनियोगः॥

अहं सुक्तस्य द्रष्ट्री वागांभृणी यद्ब्रह्म जगत्कारणं तद्रूपा भवन्ती रुद्रेभी रुद्रैरेकादशभिः। इत्थंभावे तृतीया। तदात्मना चरामि। एवं वसुभिरित्यादौ तत्तदात्मना चरामीति योज्यम् । तथा मित्रावरुणा मित्रं च वरुणं च सुपां सुलुगिति द्वितीयाया आकारः। उभोभावहमेव ब्रह्मीभूता बिभ्रमि। धारयामि। इन्द्राग्नी अप्यहमेव धारयामि। उभोभावश्विनाश्विनावप्यहमेव धारयामि। मयि हि सर्वं जगच्छुक्तौ रजतमिवाध्यस्तं सद्दृश्यते। माया च जगदाकारेण विवर्तते। तादृश्या मायया आधारत्वेनासङ्गस्यापि ब्रह्मण उक्तस्य सर्वस्योत्पत्तिः॥१॥

10.125.2
अ॒हं सोम᳚माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भग᳚म् ।
अ॒हं द᳚धामि॒ द्रवि᳚णं ह॒विष्म᳚ते सुप्रा॒व्ये॒३॒᳚ यज᳚मानाय सुन्व॒ते ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । सोम᳚म् । आ॒ह॒नस᳚म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा᳚रम् । उ॒त । पू॒षण᳚म् । भग᳚म् ।
अ॒हम् । द॒धा॒मि॒ । द्रवि᳚णम् । ह॒विष्म᳚ते । सु॒प्र॒॑अ॒व्ये᳚ । यज᳚मानाय । सु॒न्व॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहनसमाहन्तव्यमभिषोतव्यं सोमं यद्वा शत्रूणामाहन्तारं दिवि वर्तमानं देवतात्मानं सोममहमेव बिभर्मि। तथा तृष्टारमुतापि च पूषणं भगं चाहमेन बिभर्मि। तथा हविष्मते हविर्भिर्युक्ताय सुप्राव्ये शोभनं हविर्देवानां प्रापयित्रे तर्पयित्रे। अवतेस्तर्पणार्थादवितॄस्तृतन्त्रिभ्य ईः। उ. ३-१५८। इति कारप्रत्ययः। चरुर्थेकवचने यण्युदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येति सुपः स्वरितत्वम्। सुन्वते सोमाभिषवं कुर्वते। शतुरनुम इति चतुर्थ्या उदात्तत्वम्। ईदृशाय यजमानाय द्रविणं धनं यागफलरूपमहमेव धारयामि। एतच्च ब्रह्मणः फलदातृत्वं फलमत उपपत्तेः। ३-२-३८। इत्यधिकरणे भगवता भाष्यकारेण समर्थितम्॥२॥

10.125.3
अ॒हं राष्ट्री᳚ सं॒गम᳚नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् ।
तां मा᳚ दे॒वा व्य᳚दधुः पुरु॒त्रा भूरि᳚स्थात्रां॒ भूर्या᳚वे॒शय᳚न्तीम् ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । राष्ट्री᳚ । स॒म्॑गम᳚नी । वसू᳚नाम् । चि॒कि॒तुषी᳚ । प्र॒थ॒मा । य॒ज्ञिया᳚नाम् ।
ताम् । मा॒ । दे॒वाः । वि । अ॒द॒धुः॒ । पु॒रु॒॑त्रा । भूरि᳚॑स्थात्राम् । भूरि᳚ । आ॒॑वे॒शय᳚न्तीम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं राष्ट्री । ईश्वरनामैतत्। सर्वस्य जगत ईश्वरी। तथा वसूनां धनानां सङ्गमनी सङ्गमयित्र्युपासकानां प्रापयित्री। चिकितुषी यस्ताक्षात्कर्तव्यं परं ब्रह्म तञ्जातवती स्वात्मतया साक्षात्कृतवती। अत एव यज्ञियानां यज्ञार्हाणां प्रथमा मुख्या। यैवं गुणविशिष्टाहं तां मां भूरिस्थात्रां बहुभावेन प्रपञ्चात्मनावतिष्ठमानां भूरि भूरीणि बहूनि भूतजातान्यावेशयन्ती जीवभावेनात्मानं प्रवेशयन्तीं ईदृशीं मां पुरुत्रा बहुषु देशेषु व्यदधुः। देवा विदधति। कुर्वन्ति। उक्तप्रकारेण वैश्वरूप्येणावस्थानात्। यद्युत्कुर्वन्ति तत्सर्वं मामेव कुर्वन्तीत्यर्थः॥३॥

10.125.4
मया॒ सो अन्न᳚मत्ति॒ यो वि॒पश्य᳚ति॒ यः प्राणि᳚ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् ।
अ॒म॒न्तवो॒ मां त उप᳚ क्षियन्ति श्रु॒धि श्रु᳚त श्रद्धि॒वं ते᳚ वदामि ॥
▶ पदपाठः (Word-by-word)
मया᳚ । सः । अन्न᳚म् । अ॒त्ति॒ । यः । वि॒॑पश्य᳚ति । यः । प्राणि᳚ति । यः । ई॒म् । शृ॒णोति᳚ । उ॒क्तम् ।
अ॒म॒न्तवः᳚ । माम् । ते । उप᳚ । क्षि॒य॒न्ति॒ । श्रु॒धि । श्रु॒त॒ । श्र॒द्धि॒॑वम् । ते॒ । व॒दा॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योन्नमत्ति स भोक्तृशक्तिरूपया मयैवान्नमत्ति। यश्च विपश्यति। आलोकयतीत्यर्थः। यश्च प्राणिति श्वासोच्छोस्वादिव्यापारं करोति सोऽपि मयैव। यश्चोक्तं शृणोति। श्रु श्रवणे। श्रुवः शृ चेति श्रुधातोः शृभावः। य ईदृशीमन्तर्यामिरूपेण स्थितां मां न जानन्ति तेऽमन्तवोऽमन्यमाना अजानन्त उपक्षियन्ति। उपक्षीणाः संसारेण हीना भवन्ति। मनेरौणादिकस्तुप्रत्ययः। नञ्समासे व्यत्ययेनान्तोदात्तत्वम्। यद्वा। भावे त्य्प्रत्ययः। ततो बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वं माममन्तवो मद्विषयज्ञानरहिता इत्यर्थः। हे श्रुत विश्रुत सखे श्रुधि। मया वक्ष्यमाणं शृणु। छान्दसो विकरणस्य लुक्। श्रुशृणुपॄकृवृभ्य इति हेर्धिभावः। किं तच्छ्रोतव्यम् । त्रद्दिवम् । श्रद्धिः श्रद्धा। तया युक्तम् । श्रद्धायत्नेन लभ्यमित्यर्थः। श्रदन्तरोरुपसर्गवद्वृत्तिरिष्यते। पा. १-४-५७-२। इति श्रच्छब्दस्योपसर्गवद्वर्तमानात्वादुपसर्गे घोः किरिति किप्रत्ययः। मत्वर्थीयोपः। ईदृशं ब्रह्मात्मकं वस्तु ते तुभ्यं वदामि। उपदिशामि॥४॥

10.125.5
अ॒हमे॒व स्व॒यमि॒दं व᳚दामि॒ जुष्टं᳚ दे॒वेभि᳚रु॒त मानु᳚षेभिः ।
यं का॒मये॒ तंत᳚मु॒ग्रं कृ᳚णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु᳚मे॒धाम् ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट᳚म् । दे॒वेभिः᳚ । उ॒त । मानु᳚षेभिः ।
यम् । का॒मये᳚ । तम्॑त᳚म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण᳚म् । तम् । ऋषि᳚म् । तम् । सु॒॑मे॒धाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं स्वयमेवेदं वस्तु ब्रह्मात्मकं वदामि। उपदिशामि। देवेभिर्देवैरीन्द्रादिभिरपि जुष्टं सेवितम् । उपाति च मानुषेभिर्मनुष्यैरपि जुष्टम्। ईदृग्वस्त्वात्मिकाहं कामये यं पुरुषं रक्षितुमहं वाञ्छामि तं तं पुरुषमुग्रं कृणोमि। सर्वेभ्योऽधिकं करोमि। तमेव ब्रह्माणं स्रष्टारं करोमि। तमेवर्षिमतीन्द्रियार्थदर्शिनं करोमि। तमेव सुमेधां शोभनप्रज्ञं च करोमि॥५॥

10.125.6
अ॒हं रु॒द्राय॒ धनु॒रा त᳚नोमि ब्रह्म॒द्विषे॒ शर᳚वे॒ हन्त॒वा उ᳚ ।
अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी आ वि᳚वेश ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । रु॒द्राय᳚ । धनुः᳚ । आ । त॒नो॒मि॒ । ब्र॒ह्म॒॑द्विषे᳚ । शर᳚वे । हन्त॒वै । ऊं॒ इति᳚ ।
अ॒हम् । जना᳚य । स॒॑मद᳚म् । कृ॒णो॒मि॒ । अ॒हम् । द्यावा᳚पृथि॒वी इति᳚ । आ । वि॒वे॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरा त्रिपुरविजयसमये रुद्राय रुद्रस्य। षष्ठ्यर्थे चतुर्थी। महादेवस्य धनुश्चापमहमा तनोमि। ज्ययाततं करोमि। किमर्थम् । ब्रह्मद्विषे ब्राह्मणानां द्वेष्टारं शरवे शरुं हिंसकं त्रिपुरनिवासिनमसुरं हन्तवै हन्तुं हिंसितुम् । हन्तेस्तुमर्थे सेसेनिति तवैप्रत्ययः। अन्तश्च तवै युगपदित्याद्यन्तयोर्युगपदुदात्तत्वम्। शॄ हिंसायामित्यस्माच्छॄस्वृस्निहीत्यादिनोप्रत्ययः। क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थी। उशब्दः पूरकः। अहमेव समदम्। समानं माद्यन्त्यस्मिन्निति समत्सङ्ग्रामः। स्तोतृजनार्थं शत्रुभिः सह सङ्ग्राममहमेव कृणोमि। करोमि। तथा द्यावापृथिवी दिवं च पृथिवीं चान्तर्यामितयाहमेवा विवेश। प्रविष्टवती॥६॥

10.125.7
अ॒हं सु᳚वे पि॒तर᳚मस्य मू॒र्धन्मम॒ योनि᳚र॒प्स्व१॒᳚न्तः स᳚मु॒द्रे ।
ततो॒ वि ति᳚ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप᳚ स्पृशामि ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । सु॒वे॒ । पि॒तर᳚म् । अ॒स्य॒ । मू॒र्धन् । मम᳚ । योनिः᳚ । अ॒प्॑सु । अ॒न्तरिति᳚ । स॒मु॒द्रे ।
ततः᳚ । वि । ति॒ष्ठे॒ । भुव᳚ना । अनु᳚ । विश्वा᳚ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा᳚ । उप᳚ । स्पृ॒शा॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्यौः पितेति श्रुतेः पिता द्यौः। पितरं दिवमहं सुवे। प्रसुवे। जनयामि आत्मन आकाशः सम्भूतः। तै. आ. ६-१। इति श्रुतेः। कुत्रेति तदाह। अस्य परमात्मनो मूर्धन्मूर्धन्युपरि। कारणभूते तस्मिन्हिवियदादिकार्यजातम् सर्वं वर्तते तंतुषु पट इव। मम च योनिः कारणं समुद्रे। समुद्द्रवन्त्यस्माद्भूतजातानीति समुद्रः परमात्मा। तस्मिन्नप्सु व्यापनशीलसु धीवृत्तिष्वन्तर्मध्ये यद्ब्रह्म चैतन्यं तन्मम कारणमित्यर्थः। यत ईदृग्भूताहमस्मि ततो हेतोर्विश्वा विश्वानि सर्वाणि भुवनानि भूजातान्यनु प्रविश्य वि तिष्ठे विविधं व्याप्यतिष्ठामि। समवप्रविभ्यः स्थ इत्यात्मनेपदम्। उतापि चामूं द्यां विप्रकृष्टदेशेऽवस्थितं स्वर्गलोकम् । उपलक्षणमेतत्। एतदुपलक्षितं कृत्स्नं विकारजातं वर्ष्मणा कारणभूतेन मायात्मकेन मदीयेन देहेनोप स्पृशामि। यद्वा। अस्य भूलोकस्य मूर्धन्मूर्धन्युपर्यहं पितरमाकाशं सुवे। समुद्रे जलधावप्सूदकेष्वन्तर्मध्ये मम योनिः कारणभूतोऽंभृणाख्य ऋशिर्वर्तते। यद्वा। समुद्रेऽन्तरिक्षेऽप्स्वम्मयेषु देवशरीरेषु मम कारणभूतं ब्रह्य चैतन्यं वर्तते। ततोऽहं कारणात्मिका सती सर्वाणि भुवनानि व्याप्नोमि। अन्यत्समानम्॥७॥

10.125.8
अ॒हमे॒व वात᳚ इव॒ प्र वा᳚म्या॒रभ᳚माणा॒ भुव᳚नानि॒ विश्वा᳚ ।
प॒रो दि॒वा प॒र ए॒ना पृ᳚थि॒व्यैताव᳚ती महि॒ना सं ब᳚भूव ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । ए॒व । वातः᳚॑इव । प्र । वा॒मि॒ । आ॒॑रभ᳚माणा । भुव᳚नानि । विश्वा᳚ ।
प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । ए॒ताव᳚ती । म॒हि॒ना । सम् । ब॒भू॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि कार्याण्यारभमाणा कारणरूपेणोत्पादयन्त्यहमेव परेणानधिष्ठिता स्वयमेव प्र वामि। प्रवर्ते। वात इव यथा वातः परेणाप्रेरितः सन् स्वेच्छयैव प्रवाति तद्वत्। उक्तं सर्वं निगमयति। परो दिवा। पर इति सकारान्तं परस्तादित्यर्थे वर्तते यथाध इत्यधस्तादर्थे। तद्योगे च तृतीया सर्वत्र दृश्यते। दिव आकाशस्य परस्तात्। एना पृथिव्या। द्वितीया टौस्वेन इतीदम एनादेशः। अस्याः पृथिव्याः परः परस्तात्। द्यावापृथिव्योरुपादानमुपलक्षणम् । एतदुपलक्षितात्सर्वाद्विकारजातात्परस्ताद्वर्तमानासङ्गोदासीनकूटस्थ ब्रह्मचैतन्य रूपाहं महिना महिम्नृतावती सं बभूव। एतच्छब्देनोक्तं सर्वं परामृश्यते। एत्परिमाणमस्याः। यत्तदेतेभ्यः परिमाणे। पा. ५-२-३९। इति वतुप्। आ सर्वनाम्न इत्यात्वम्। सर्वजगदात्मनाहं सम्भूतास्मि। महच्छब्दादिमनिचि टेरिति टिलोपः। ततः तृतीयायामुदात्तनिवृत्तिस्वरेण तस्या उदात्तत्वम्। छान्दसोमलोपः॥८॥