श्रवणम्

10.125.7
अ॒हं सु᳚वे पि॒तर᳚मस्य मू॒र्धन्मम॒ योनि᳚र॒प्स्व१॒᳚न्तः स᳚मु॒द्रे ।
ततो॒ वि ति᳚ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप᳚ स्पृशामि ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । सु॒वे॒ । पि॒तर᳚म् । अ॒स्य॒ । मू॒र्धन् । मम᳚ । योनिः᳚ । अ॒प्॑सु । अ॒न्तरिति᳚ । स॒मु॒द्रे ।
ततः᳚ । वि । ति॒ष्ठे॒ । भुव᳚ना । अनु᳚ । विश्वा᳚ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा᳚ । उप᳚ । स्पृ॒शा॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्यौः पितेति श्रुतेः पिता द्यौः। पितरं दिवमहं सुवे। प्रसुवे। जनयामि आत्मन आकाशः सम्भूतः। तै. आ. ६-१। इति श्रुतेः। कुत्रेति तदाह। अस्य परमात्मनो मूर्धन्मूर्धन्युपरि। कारणभूते तस्मिन्हिवियदादिकार्यजातम् सर्वं वर्तते तंतुषु पट इव। मम च योनिः कारणं समुद्रे। समुद्द्रवन्त्यस्माद्भूतजातानीति समुद्रः परमात्मा। तस्मिन्नप्सु व्यापनशीलसु धीवृत्तिष्वन्तर्मध्ये यद्ब्रह्म चैतन्यं तन्मम कारणमित्यर्थः। यत ईदृग्भूताहमस्मि ततो हेतोर्विश्वा विश्वानि सर्वाणि भुवनानि भूजातान्यनु प्रविश्य वि तिष्ठे विविधं व्याप्यतिष्ठामि। समवप्रविभ्यः स्थ इत्यात्मनेपदम्। उतापि चामूं द्यां विप्रकृष्टदेशेऽवस्थितं स्वर्गलोकम् । उपलक्षणमेतत्। एतदुपलक्षितं कृत्स्नं विकारजातं वर्ष्मणा कारणभूतेन मायात्मकेन मदीयेन देहेनोप स्पृशामि। यद्वा। अस्य भूलोकस्य मूर्धन्मूर्धन्युपर्यहं पितरमाकाशं सुवे। समुद्रे जलधावप्सूदकेष्वन्तर्मध्ये मम योनिः कारणभूतोऽंभृणाख्य ऋशिर्वर्तते। यद्वा। समुद्रेऽन्तरिक्षेऽप्स्वम्मयेषु देवशरीरेषु मम कारणभूतं ब्रह्य चैतन्यं वर्तते। ततोऽहं कारणात्मिका सती सर्वाणि भुवनानि व्याप्नोमि। अन्यत्समानम्॥७॥