दशमं मण्डलम् - सूक्तम् 147

5 ऋचः

ऋषिः: सुवेदाः शैरीषिः देवता: इंद्रः छन्दः: जगती

सूक्तम् 10.147 - सम्पूर्णम्

1 / 5
ऋक्: 10.147.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.147.1 समानपद
श्रत्ते᳚ दधामि प्रथ॒माय᳚ म॒न्यवे॑ह॒न्यद्वृ॒त्रं नर्यं᳚ वि॒वेर॒पः ।
उ॒भे यत्त्वा॒ भव᳚तो॒ रोद᳚सी॒ अनु॒ रेज᳚ते॒ शुष्मा᳚त्पृथि॒वी चि᳚दद्रिवः ॥
▶ पदपाठः (Word-by-word)
श्रत् । ते॒ । द॒धा॒मि॒ । प्र॒थ॒माय᳚ । म॒न्यवे᳚ । अह᳚न् । यत् । वृ॒त्रम् । नर्य᳚म् । वि॒वेः । अ॒पः ।
उ॒भे इति᳚ । यत् । त्वा॒ । भव᳚तः । रोद᳚सी॒ इति᳚ । अनु᳚ । रेज᳚ते । शुष्मा᳚त् । पृ॒थि॒वी । चि॒त् । अ॒द्रि॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रत्त इति पञ्चर्चमेकोनविंशं सूक्तं शिरीषपुत्रस्य सुवेदस आर्षं पञ्चमी त्रिष्टुप् शिष्टा जगत्यः। इन्द्रो देवता। अनुक्रम्यते हि। श्रत्ते पञ्च सुवेदाः शैरीषिस्त्रिष्टुबन्तमिति। तृतीये रात्रिपर्याये प्रशास्तुः शस्त्र इदम् सूक्तम्। सूत्रितं च। श्रत्ते दधामीदम् त्यत्पात्रमिन्द्रपानमिति याज्या। आ. ६-४। इति॥

हे इन्द्र ते तव मन्यवे कोपाय तेजसे वा प्रथमाय मुख्याय श्रद्धधामि। श्रद्धा नामादरातिशयः। तद्विषयं करोमि। यद्येन मन्युना त्वं वृत्रमावरकमसुरं मेघं वा नर्यं नेतव्यमहन् अवधीः। हत्वा च तेनावृता अप उदकानि च विवेः इमं लोकं प्रत्यागमयः। तस्मै मन्यव इत्यन्वयः। यद्यदोभे रोदसी द्यावापृथिव्यौ त्वा त्वामनुसृत्य भवतः वर्तेते। त्वदधीने अभूतामित्यर्थः। तदानीं पृथिवी चित्। पृथिवीत्यन्तरिक्षनाम। प्रथितं विस्तीर्णमन्तरिक्षमपि हे अद्रिवो वज्रवन्निन्द्र शुष्मात्त्वदीयाद्बलाद्रेजते। कम्पते॥१॥

10.147.2
त्वं मा॒याभि᳚रनवद्य मा॒यिनं᳚ श्रवस्य॒ता मन᳚सा वृ॒त्रम᳚र्दयः ।
त्वामिन्नरो᳚ वृणते॒ गवि᳚ष्टिषु॒ त्वां विश्वा᳚सु॒ हव्या॒स्विष्टि᳚षु ॥
▶ पदपाठः (Word-by-word)
त्वम् । मा॒याभिः᳚ । अ॒न॒व॒द्य॒ । मा॒यिन᳚म् । श्र॒व॒स्य॒ता । मन᳚सा । वृ॒त्रम् । अ॒र्द॒यः॒॒ ।
त्वाम् । इत् । नरः᳚ । वृ॒ण॒ते॒ । गो॑इ᳚ष्टिषु । त्वाम् । विश्वा᳚सु । हव्या᳚सु । इष्टि᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अनवद्यावद्यरहित प्रशस्येन्द्र त्वं मायिनं मायाविनं वृत्रं मायाभिर्वञ्चनाभिर्बुद्धिविशेषैर्वा श्रवस्यता श्रवः श्रवणीयं यशोऽन्नं वेच्छता मनसार्दयः। अहिंसीः। अपि च नरो नेतारोऽङ्गिरसस्त्वामित्त्वामेव गविष्टिषु गवां पणिभिरपहृतानामेषणेषु प्रापणेषु विषयभूतेषु वृणते। सम्भजन्ते। तथा विश्वासु सर्वासु हव्यस्वाह्वातव्यासु प्रार्थनीयास्विष्टिषु यागक्रियासु त्वामेव वृणते॥२॥

10.147.3
ऐषु᳚ चाकन्धि पुरुहूत सू॒रिषु᳚ वृ॒धासो॒ ये म᳚घवन्नान॒शुर्म॒घम् ।
अर्च᳚न्ति तो॒के तन᳚ये॒ परि᳚ष्टिषु मे॒धसा᳚ता वा॒जिन॒मह्र᳚ये॒ धने᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ए॒षु॒ । चा॒क॒न्धि॒ । पु॒रु॒॑हू॒त॒ । सू॒रिषु᳚ । वृ॒धासः᳚ । ये । म॒घ॒॑व॒न् । आ॒न॒शुः । म॒घम् ।
अर्च᳚न्ति । तो॒के । तन᳚ये । परि᳚ष्टिषु । मे॒ध॑सा᳚ता । वा॒जिन᳚म् । अह्र᳚ये । धने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुहूतेन्द्र एषु सुरिष्वा चाकन्धि। अथर्थमभिदीप्यस्व। अभिकामयस्व। कनी दीप्तिकान्तिगतिषु। अस्माच्चर्करीतमेतत्। हे मघवन्धनवन्निन्द्र ये सूरयो वृधानस्त्वत्प्रसादाद्वर्धमानाः सन्तो मघं धनमानशुः प्राप्नुवन्ति। अपि च मेधसाता मेधसातौ यज्ञे वाजिनं बलवन्तमन्नवन्तं वेजनवन्तं वा त्वां येऽर्चन्ति पूजयन्ति तोके पुत्रे तनये तत्पुत्रे परिष्टिषु परित इष्यमानेष्वन्येष्वपि फलेष्वह्रयेऽलजाकरे धने द। एतेषु निमित्तेषु सत्सु त्वामेव स्तुश्त्यादिभिः पूजयन्तीत्यर्थः॥३॥

10.147.4
स इन्नु रा॒यः सुभृ᳚तस्य चाकन॒न्मदं॒ यो अ᳚स्य॒ रंह्यं॒ चिके᳚तति ।
त्वावृ᳚धो मघवन्दा॒श्व᳚ध्वरो म॒क्षू स वाजं᳚ भरते॒ धना॒ नृभि᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । इत् । नु । रा॒यः । सु॑भृ᳚तस्य । चा॒क॒न॒त् । मद᳚म् । यः । अ॒स्य॒ । रंह्य᳚म् । चिके᳚तति ।
त्वा॑वृ᳚धः । म॒घ॒॑व॒न् । दा॒शु॑अ᳚ध्वरः । म॒क्षु । सः । वाज᳚म् । भ॒र॒ते॒ । धना᳚ । नृ॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इत् स एव स्तोता सुभृतस्य सुष्ठु सम्पादितस्य रायो धनस्य। द्वितीयार्थे षष्ठी। ईदृशं धनं नु क्शिप्रं चाकनत्। कामयते। लभत इत्यर्थः। रंह्यम् । रंहोवेगः। तदर्हमस्येन्द्रस्य मदं सोमपानजन्यं हर्षं यः स्तोता चिके तति स्तुतिपदैर्जानाति। हे मघवन् त्वावृधस्त्वया वर्धितो दाश्वध्वरो दत्त्तयज्ञो यजमानो नृभिर्नेतृभिरृत्विग्भिर्भृत्यैर्वा धना धनानि वाजमन्नं च मक्षु शीघ्रं भरते। सम्पादयति॥४॥

10.147.5
त्वं शर्धा᳚य महि॒ना गृ᳚णा॒न उ॒रु कृ᳚धि मघवञ्छ॒ग्धि रा॒यः ।
त्वं नो᳚ मि॒त्रो वरु᳚णो॒ न मा॒यी पि॒त्वो न द᳚स्म दयसे विभ॒क्ता ॥
▶ पदपाठः (Word-by-word)
त्वम् । शर्धा᳚य । म॒हि॒ना । गृ॒णा॒नः । उ॒रु । कृ॒धि॒ । म॒घ॒॑व॒न् । श॒ग्धि । रा॒यः ।
त्वम् । नः॒ । मि॒त्रः । वरु᳚णः । न । मा॒यी । पि॒त्वः । न । द॒स्म॒ । द॒य॒से॒ । वि॒॑भ॒क्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं महिना महता स्तोत्रेण गृणानः स्तूयमानः सञ्शर्धाय शर्धं बलमुरु कृधि। विस्तीर्णं कुरु। हे मघवन् रायो धनानि च शग्धि। अस्मभ्यं प्रयच्छ। हे दस्म दर्शनीयेन्द्र विभक्ता विशेषेन धनानां भाजयिता त्वं मित्रो वरुणो न मित्रवद्वरुणवच्च मायी प्रज्ञा युक्तः सन्नोऽस्मभ्यम् । नः सम्प्रत्यर्थे। सम्प्रति पित्वोऽन्नानि दयसे। प्रयच्छसि॥५॥