त्वं शर्धा᳚य महि॒ना गृ᳚णा॒न उ॒रु कृ᳚धि मघवञ्छ॒ग्धि रा॒यः ।
त्वं नो᳚ मि॒त्रो वरु᳚णो॒ न मा॒यी पि॒त्वो न द᳚स्म दयसे विभ॒क्ता ॥
त्वं नो᳚ मि॒त्रो वरु᳚णो॒ न मा॒यी पि॒त्वो न द᳚स्म दयसे विभ॒क्ता ॥
पदपाठः (Word-by-word)
त्वम् । शर्धा᳚य । म॒हि॒ना । गृ॒णा॒नः । उ॒रु । कृ॒धि॒ । म॒घ॒॑व॒न् । श॒ग्धि । रा॒यः ।
त्वम् । नः॒ । मि॒त्रः । वरु᳚णः । न । मा॒यी । पि॒त्वः । न । द॒स्म॒ । द॒य॒से॒ । वि॒॑भ॒क्ता ॥
त्वम् । नः॒ । मि॒त्रः । वरु᳚णः । न । मा॒यी । पि॒त्वः । न । द॒स्म॒ । द॒य॒से॒ । वि॒॑भ॒क्ता ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वं महिना महता स्तोत्रेण गृणानः स्तूयमानः सञ्शर्धाय शर्धं बलमुरु कृधि। विस्तीर्णं कुरु। हे मघवन् रायो धनानि च शग्धि। अस्मभ्यं प्रयच्छ। हे दस्म दर्शनीयेन्द्र विभक्ता विशेषेन धनानां भाजयिता त्वं मित्रो वरुणो न मित्रवद्वरुणवच्च मायी प्रज्ञा युक्तः सन्नोऽस्मभ्यम् । नः सम्प्रत्यर्थे। सम्प्रति पित्वोऽन्नानि दयसे। प्रयच्छसि॥५॥