श्रवणम्

10.147.4
स इन्नु रा॒यः सुभृ᳚तस्य चाकन॒न्मदं॒ यो अ᳚स्य॒ रंह्यं॒ चिके᳚तति ।
त्वावृ᳚धो मघवन्दा॒श्व᳚ध्वरो म॒क्षू स वाजं᳚ भरते॒ धना॒ नृभि᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । इत् । नु । रा॒यः । सु॑भृ᳚तस्य । चा॒क॒न॒त् । मद᳚म् । यः । अ॒स्य॒ । रंह्य᳚म् । चिके᳚तति ।
त्वा॑वृ᳚धः । म॒घ॒॑व॒न् । दा॒शु॑अ᳚ध्वरः । म॒क्षु । सः । वाज᳚म् । भ॒र॒ते॒ । धना᳚ । नृ॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इत् स एव स्तोता सुभृतस्य सुष्ठु सम्पादितस्य रायो धनस्य। द्वितीयार्थे षष्ठी। ईदृशं धनं नु क्शिप्रं चाकनत्। कामयते। लभत इत्यर्थः। रंह्यम् । रंहोवेगः। तदर्हमस्येन्द्रस्य मदं सोमपानजन्यं हर्षं यः स्तोता चिके तति स्तुतिपदैर्जानाति। हे मघवन् त्वावृधस्त्वया वर्धितो दाश्वध्वरो दत्त्तयज्ञो यजमानो नृभिर्नेतृभिरृत्विग्भिर्भृत्यैर्वा धना धनानि वाजमन्नं च मक्षु शीघ्रं भरते। सम्पादयति॥४॥