दशमं मण्डलम् - सूक्तम् 178

3 ऋचः

ऋषिः: अरिष्थनेमिस्तार्क्ष्यः देवता: तार्क्ष्यः छन्दः: त्रिष्टुप्

सूक्तम् 10.178 - सम्पूर्णम्

1 / 3
ऋक्: 10.178.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
10.178.1
त्यमू॒ षु वा॒जिनं᳚ दे॒वजू᳚तं स॒हावा᳚नं तरु॒तारं॒ रथा᳚नाम् ।
अरि᳚ष्टनेमिं पृत॒नाज᳚मा॒शुं स्व॒स्तये॒ तार्क्ष्य᳚मि॒हा हु᳚वेम ॥
▶ पदपाठः (Word-by-word)
त्यम् । ऊं॒ इति᳚ । सु । वा॒जिन᳚म् । दे॒व॑जू᳚तम् । स॒ह॑वा᳚नम् । त॒रु॒तार᳚म् । रथा᳚नाम् ।
अरि᳚ष्ट॑नेमिम् । पृ॒त॒नाज᳚म् । आ॒शुम् । स्व॒स्तये᳚ । तार्क्ष्य᳚म् । इ॒ह । हु॒वे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यमू ष्विति तृचम् सप्तविंशं सूक्तं तार्क्ष्यपुत्रस्यारिष्टनेमेरार्षम् त्रैष्टुभं तार्क्ष्यदेवताकम्। तथा चानुक्रान्तम्। त्यमू ष्वरिष्टनेमिस्तार्क्ष्यस्तार्क्ष्यमिति। अहर्गणेषु द्वितीयादिष्वहःसु निष्केवल्यसूक्तानां पुरस्तादिदं सूक्तं शंसनीयम्। सूत्रितं च। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यमग्रे निष्केवल्यसूक्तानाम्। आ. ७-१। इति। विषुवति तु निष्केवल्यसूक्तानामन्त एव तत्सूक्तम्। सूत्र्यते हि। त्यामूश्वितीह तार्क्ष्यमन्ततः। आ. ८-६। इति। महाव्रतेऽपि निष्केवल्य एतत्। तथैव पञ्चमारण्यके सूत्र्यते। ऐ. आ. ५-३-१॥

त्यमु तं प्रसिद्धमेव तार्क्ष्यं तृक्षपुत्रं सुपर्णम्। तृक्शाद्यञ्। गर्गादिः। स्वस्तये क्षेमायेहास्मिन्कर्मणि हुवेम। भृशमाह्वयेमहि। बहुलम् छन्दसीति ह्वयतेः सम्प्रसारणम्। लुङ्याशिष्यङ्। यद्वा। प्रार्थनायां लिङि व्यत्ययेन शः। कीदृशम् । वाजिनं बलवन्तमन्नवन्तं वा देवजूतम् देवैः सोमाहरणार्थं प्रेरितम्। जु इति गत्यर्थः सौत्रो धातुः। अस्मात्कर्मणि निष्था। तृतीया कर्मणिति पूर्वपदप्रकृतिस्वरत्वम्। यद्वा। देवैः प्रीयमानम् तर्प्यमाणम्। यदाह यास्कः। जूतिर्गतिः प्रीतिर्वा देवजूतं देवप्रीतं वा। नि. १०-२८। इति। सहवानं सहस्वन्तं बलवन्तमभिभवनवन्तं वा अत एव रथानामन्यदीयानां तरुतारं सङ्ग्रामे जेतारम् । यद्वा। रंहणशीला इमे लोका रथाः। तान्सोमाहरणसमये शीघ्रं तरीतारम्। श्रूयते हि। एष हीमांल्लोकान्सद्यस्तरतीति। ऐ. ब्रा. ४-२०। तरतेस्तृचि ग्रसितस्कभितेत्यादावुडागमो निपात्यते। पा. ७-२-३४। अरिष्टनेमिमहिंसितरथम् । यद्वा। नेमिर्नमनशीलमायुधम् । अहिंसितायुधम् । अथवा। उपचाराज्जनके जन्यशब्दः। अरिष्टनेमेर्मम जनकम्। पृतनाजं पृतनानां शत्रुसेनानां प्राजितारं प्रगमयितारं चेतारं वा। अज गतिक्षेपनयोः। अस्मात्क्विप्। वलादावार्धधातुके विकल्प इष्यते। का. २-४-५६-२। इति वचनाद्वीभावाभावः। यजतेर्वा डप्रत्ययः। आशुं शीघ्रगामिनम्॥१॥

10.178.2
इन्द्र᳚स्येव रा॒तिमा॒जोहु᳚वानाः स्व॒स्तये॒ नाव᳚मि॒वा रु᳚हेम ।
उर्वी॒ न पृथ्वी॒ बहु᳚ले॒ गभी᳚रे॒ मा वा॒मेतौ॒ मा परे᳚तौ रिषाम ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य॑इव । रा॒तिम् । आ॒॑जोहु᳚वानाः । स्व॒स्तये᳚ । नाव᳚म्॑इव । आ । रु॒हे॒म॒ ।
उर्वी॒ इति᳚ । न । पृथ्वी॒ इति᳚ । बहु᳚ले॒ इति᳚ । गभी᳚रे॒ इति᳚ । मा । वा॒म् । आ॑इ᳚तौ । मा । परा᳚॑इतौ । रि॒षा॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रस्येव तार्क्ष्यस्य रातिं दानमाजोहुवानाः पुनः पुनराह्वयन्तो वयम् स्वस्तयेऽविनाशाय नावमिव नौर्यथा दुरवगाहं समुद्रं तारयति तथा दुःखस्य तारयित्रीं तामा रुहेम। आरूढा भूयास्म। रुहेराशीर्लिङि लिङ्याशिष्यङ्। हे उर्वी उर्व्यौ विस्तीर्णे हे पृथ्वी पृथिवी प्रथिते विख्याते हे बहुले अनन्ते गभीरे गाम्भीर्योपेते ईदृषौ हे द्यावापृथिव्यौ। नशब्दः सम्प्रत्यर्थे। सम्प्रति वां युवयोः सम्बन्धिन्येतौ तार्क्ष्यस्यागमे परेतौ परागमने च वयं मा रिषाम। हिंसिता मा भूम। आङ् पराभ्यामुत्तरस्येणो भावे क्तिन्। तादौ च नितीति गतेः प्रकृतिस्वरत्वम्॥२॥

10.178.3 समानपद
स॒द्यश्चि॒द्यः शव᳚सा॒ पञ्च᳚ कृ॒ष्टीः सूर्य᳚ इव॒ ज्योति᳚षा॒पस्त॒तान᳚ ।
स॒ह॒स्र॒साः श᳚त॒सा अ᳚स्य॒ रंहि॒र्न स्मा᳚ वरन्ते युव॒तिं न शर्या᳚म् ॥
▶ पदपाठः (Word-by-word)
स॒द्यः । चि॒त् । यः । शव᳚सा । पञ्च᳚ । कृ॒ष्टीः । सूर्यः᳚॑इव । ज्योति᳚षा । अ॒पः । त॒तान᳚ ।
स॒ह॒स्र॒॑साः । श॒त॒॑साः । अ॒स्य॒ । रंहिः᳚ । न । स्म॒ । व॒र॒न्ते॒ । यु॒व॒तिम् । न । शर्या᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यश्चिद्योऽपि तार्क्ष्यः सद्यह् शीघ्रं शवसात्मीयेन बलेनाप उदकान्यमृतलक्षणानि ततान विस्तारितवान् सूर्य इव यथा सूर्यः सर्वस्य प्रेरक आदित्यो ज्योतिषात्मीयेन तेजसा वर्षर्तावपो विस्तारयति तद्वत्। कृष्टयो मनुष्याः। पञ्चकृष्टीः पञ्चविधान्कृष्टीन्मनुष्यान्प्रति। निषादपञ्चमांश्चतुरो वर्नानित्यर्थः। अस्य तार्क्ष्यस्य रंहिर्गतिः सहस्रसाः सहस्रसंख्यस्य धनस्य दात्री सम्भक्त्री वा भवति। तथा शतसा शतस्य च दात्री सम्भक्त्री वा भवति। सनतेः सनोतेर्वा जनसनखनेति विट्। विड्वनोरनुनासिकस्यादित्यात्वम् । न स्म न खल्वीदृशीं तार्क्ष्यस्य ते गतिं वरन्ते। के चन वारयन्ति। तत्र दृष्टान्तः। शर्यां शरकाण्डमयीमिषुं धनुषो मुक्ताम् युवतिं न लक्ष्येण मिश्रीभवन्तीमिव। सा यथा दुर्निवारा तथैषा कैश्चिदपि वारयितुमशक्येत्यर्थः। अत्र निरुक्तम्। सद्योपि यः शवसा बलेन्द् तनोत्यपः सूर्य इव ज्योतिषा पञ्च मनुष्यजातानि सहस्रसानिनी शतसानिन्यस्य सा गतिर्न स्मैनां वारयन्ति प्रयुवतीमिव शरमयीमिषुम्। नि. १०-२९। इति॥३॥