श्रवणम्

10.178.2
इन्द्र᳚स्येव रा॒तिमा॒जोहु᳚वानाः स्व॒स्तये॒ नाव᳚मि॒वा रु᳚हेम ।
उर्वी॒ न पृथ्वी॒ बहु᳚ले॒ गभी᳚रे॒ मा वा॒मेतौ॒ मा परे᳚तौ रिषाम ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य॑इव । रा॒तिम् । आ॒॑जोहु᳚वानाः । स्व॒स्तये᳚ । नाव᳚म्॑इव । आ । रु॒हे॒म॒ ।
उर्वी॒ इति᳚ । न । पृथ्वी॒ इति᳚ । बहु᳚ले॒ इति᳚ । गभी᳚रे॒ इति᳚ । मा । वा॒म् । आ॑इ᳚तौ । मा । परा᳚॑इतौ । रि॒षा॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रस्येव तार्क्ष्यस्य रातिं दानमाजोहुवानाः पुनः पुनराह्वयन्तो वयम् स्वस्तयेऽविनाशाय नावमिव नौर्यथा दुरवगाहं समुद्रं तारयति तथा दुःखस्य तारयित्रीं तामा रुहेम। आरूढा भूयास्म। रुहेराशीर्लिङि लिङ्याशिष्यङ्। हे उर्वी उर्व्यौ विस्तीर्णे हे पृथ्वी पृथिवी प्रथिते विख्याते हे बहुले अनन्ते गभीरे गाम्भीर्योपेते ईदृषौ हे द्यावापृथिव्यौ। नशब्दः सम्प्रत्यर्थे। सम्प्रति वां युवयोः सम्बन्धिन्येतौ तार्क्ष्यस्यागमे परेतौ परागमने च वयं मा रिषाम। हिंसिता मा भूम। आङ् पराभ्यामुत्तरस्येणो भावे क्तिन्। तादौ च नितीति गतेः प्रकृतिस्वरत्वम्॥२॥