दशमं मण्डलम् - सूक्तम् 81

7 ऋचः

ऋषिः: विश्वकर्मा भौवनः देवता: विश्वकर्मा छन्दः: त्रिष्टुप्

सूक्तम् 10.81 - सम्पूर्णम्

1 / 7
ऋक्: 10.81.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.81.1
य इ॒मा विश्वा॒ भुव᳚नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी᳚दत्पि॒ता नः᳚ ।
स आ॒शिषा॒ द्रवि᳚णमि॒च्छमा᳚नः प्रथम॒च्छदव᳚रा{4}॒ आ वि᳚वेश ॥
▶ पदपाठः (Word-by-word)
यः । इ॒मा । विश्वा᳚ । भुव᳚नानि । जुह्व᳚त् । ऋषिः᳚ । होता᳚ । नि । असी᳚दत् । पि॒ता । नः॒ ।
सः । आ॒॑शिषा᳚ । द्रवि᳚णम् । इ॒च्छमा᳚नः । प्र॒थ॒म॒॑छत् । अव᳚रान् । आ । वि॒वे॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इमेति सप्तर्चम् त्रयोदशं सूक्तं भुवनपुत्रस्य विश्वक्रमण आर्षम् त्रैष्टुभं विश्वकर्मदैवत्यम्। तथा चानुक्रान्तम्। य इमा विश्वकर्मा भौवनो वैश्वकर्मनं त्विति। गतह् सूक्त विनियोगः। अत्र वाजसनेयकम् । ब्राह्मा वै स्वयं भूत्सपोऽतप्यत। तदैक्षत न वै तपस्यानन्त्यमस्ति हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति तत्सर्वेषु भूतेष्वात्मानं हुत्वेत्यादि। शत. १३-७-१।

अत्र निरुक्तम्। विश्वकर्मा सर्वमेधे सर्वानि भुतानि जुहवांचकार स आत्मानमप्यन्ततो जुहवाञ्चकार। तदभिवादिन्येषर्ग्भवति य इमा विश्वा भुवनानि जुह्वदिति। नि. १०-२६। इति। यो विश्वकर्मैतन्नामक ऋषिर्भुवनपुत्रो होता होमनिष्पादकः सन्विश्वा सर्वानि भुवनानि जुह्वद्धोमं कुर्वन्। प्रथमं सर्वंजगद्धुत्वेत्यर्थः। पश्चादग्नौ न्यसिदत् पिता जनकः। आत्मकृतेन कर्मणा देहोत्पत्तेः। न चैकस्य जन्यजनकभावो विरुध्यते तपोबलेन शरीरद्वयस्वीकारात्। स एकधा भवति। छां. उ. ७-२६-२। इत्यादिश्रुतेः। स ऋषिराशिषाशिष्प्रतिपादकेन सूक्त वाकादिना द्रविणं धनं स्वर्गाख्यमिच्छमानः कामयमानः प्रथमच्छत्प्रथममग्नेर्भुवनैराच्छादयितावरान्विप्रकृष्टान्भूतान्स्वात्मनाहुताना विवेश। आविष्टवानग्निमित्युक्तार्थ एव पुनर्विशेषेणोक्तः। एवमुत्तरत्राधियज्ञपरतया योज्यम्। अथाध्यात्मप्रसिद्ध्योच्यते। यो विश्वकर्मा परमेश्वर इमा विश्वा भुवनानि जुह्वत्प्रलयकाले पृथिव्यादीनि मान्सप्त लोकान्स्वात्मन्यहुतिप्रक्षेपवत्सम्हरन्नृषिरतीन्द्रिय द्रष्टा सर्वज्ञो होता संहाररूपस्य होमस्य कर्र्ता नोऽस्माकं इता जनको नोषसाद स्वयं स्थितवान्। अयमर्थः। प्रलयकाले प्राप्ते सति सर्वाल्लोकान्संहृत्यास्माकमपि संहत्रा पुनः स्रष्टा च सन् सर्वज्ञो यः परमेश्वरः स्वयमेक एवासीत्। तथा हि श्रुतयः। आत्मा वा इदमेक एवाग्र आसीत्। ऐ. आ. २-४-१। सदेव सोम्येदमग्र आसीत्। छां. उ. ६-२-१। इत्यादिकाः। स तादृशः परमेश्वर आशिषा बहुः स्यां प्रजायेयेत्येवंरूपया पुनः पुनः सिसृक्षया द्रविणमिच्छमानः धनोपलक्षितं जगद्भोगमाकाङ्क्षमाणः प्रथमच्छत्प्रथमं मुख्यं निष्प्रपञ्चं पारमार्थिकं रूपमावृण्वन्नवरान्स्वसृष्टान्प्राणि हृदयप्रदेशाना विवेश। आविष्टवाञ्जीवरूपेण। तथा च श्रूयते। सोऽकामयत बहुः स्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वेदं सर्वमसृजत यदिदंकिञ्च तत्सृष्ट्वा तदेवानुप्राविशत्। तै. आ. ८-६। इति । एवमन्या अप्युपनिषद उदाहार्याः॥१॥

10.81.2 समानपद
किं स्वि᳚दासीदधि॒ष्ठान᳚मा॒रम्भ᳚णं कत॒मत्स्वि᳚त्क॒थासी᳚त् ।
यतो॒ भूमिं᳚ ज॒नय᳚न्वि॒श्वक᳚र्मा॒ वि द्यामौर्णो᳚न्महि॒ना वि॒श्वच᳚क्षाः ॥
▶ पदपाठः (Word-by-word)
किम् । स्वि॒त् । आ॒सी॒त् । अ॒धि॒॑स्थान᳚म् । आ॒॑रम्भ᳚णम् । क॒त॒मत् । स्वि॒त् । क॒था । आ॒सी॒त् ।
यतः᳚ । भूमि᳚म् । ज॒नय᳚न् । वि॒श्व॑क᳚र्मा । वि । द्याम् । और्णो᳚त् । म॒हि॒ना । वि॒श्व॑च᳚क्षाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वैश्वदेवस्य पशोर्वपाया अनुवाक्या किं स्विदित्येषा। सूत्रितं च। किं स्विदासीदधिष्ठानं यो नः पिता जनिता। आ. ३-८। इति॥

पूर्वमन्त्रे जगत्प्रलयकाले संहृत्य पश्चात्सिसृक्षायां सर्वं सृष्ट्वा तत्र प्रविष्ट इत्युक्तम्। तत्र तस्य द्वितीयस्याधिष्ठानजगदुपादानकारणाद्यसम्भवात्सृष्टिरनुपपन्नेत्याक्षिपति। लोके हि घटं चिकीर्षुः कुलालो गृहादिकं किञ्चित्स्थानमधिष्ठाय मृद्रूपेणारम्भद्रव्येण चक्रादिरूपैरुपकरणैर्घटं निष्पादयति। तद्वदीस्वरस्य जगदाश्रयद्यावापृथिव्योरुत्पादनवेलायामधिष्ठानं किं स्विदासीत्। किं नामा भूत्। न किञ्चिदित्यर्थः। तथा तयोरारम्भणं कतमस्त्वित्। आरभ्यतेऽनेनेत्यारम्भण मुपादानकारणम्। तदपि कतमद्भवेत्। तदपि नेत्यर्थः। यद्यपि सम्भवेदारम्भणं कथासीत्। कथमभूत्। किं स्वयं सदसद्वा भवेदित्यर्थः। उभयमपि नोपपद्यते। सच्चेत् अद्वैतभङ्गप्रसङ्गः। असच्चॆत् सदात्मकयोर्द्यावापृथिव्योरुपादानानर्हत्वात्। नान्यत्किञ्चन मिषत्। ऐ. आ. २-४-१। इति श्रुतेश्चेत्यभिप्रायः। यतो यस्मादधिष्ठानादारम्भणाच्च विश्वचक्षाः सर्वद्रष्टा विश्वकर्मा परमेश्वरो भूमिं जनयन्वर्तते तथा द्याम् दिवं व्यौर्णोत् व्यवृणोत् सृष्टवान् महिना स्वमहत्त्वेन। किं स्विदासीदिति॥२॥

10.81.3
वि॒श्वत᳚श्चक्षुरु॒त वि॒श्वतो᳚मुखो वि॒श्वतो᳚बाहुरु॒त वि॒श्वत᳚स्पात् ।
सं बा॒हुभ्यां॒ धम᳚ति॒ सं पत᳚त्रै॒र्द्यावा॒भूमी᳚ ज॒नय᳚न्दे॒व एकः᳚ ॥
▶ पदपाठः (Word-by-word)
वि॒श्वतः᳚॑चक्षुः । उ॒त । वि॒श्वतः᳚॑मुखः । वि॒श्वतः᳚॑बाहुः । उ॒त । वि॒श्वतः᳚॑पात् ।
सम् । बा॒हु॑भ्या᳚म् । धम᳚ति । सम् । पत᳚त्रैः । द्यावा॒भूमी॒ इति᳚ । ज॒नय᳚न् । दे॒वः । एकः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया सर्वात्मकत्वेन कुलालादिविलक्षणत्वादधिष्ग्ठानाद्यभावेऽपि स्रष्टुं शक्नोतीत्याह। विश्वतश्चक्षुः सर्वतो व्याप्तचक्षुः। उतापि च विश्वतो मुखः। तथा विश्वतो बाहुः। उतापि च विश्वतस्पात्। स एवं विधः परमेश्वरः स्वस्मिंस्त्रैलोक्यमुत्पादयतीत्यर्थः। कथमिति उच्यते। बाहुभ्यां दिवं सं धमति। धमतिर्गरिकर्मा। सम्यक् प्रेरयति। तथा पतत्रैर्गमनशीलैः पाद्यैः पृथिवीं सं धमतीति। उभयोरेव श्रवणं प्राधान्याभिप्रायम् । एवं द्यावाभूमी जनयन् दिवं च पृथिवीं चोत्पादयन्देवो द्योतमानः स्वयं प्रकाशः परमेश्वरः एकोऽसहाय एव वर्तते॥३॥

10.81.4
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि᳚ष्टत॒क्षुः ।
मनी᳚षिणो॒ मन᳚सा पृ॒च्छतेदु॒ तद्यद॒ध्यति᳚ष्ठ॒द्भुव᳚नानि धा॒रय᳚न् ॥
▶ पदपाठः (Word-by-word)
किम् । स्वि॒त् । वन᳚म् । कः । ऊं॒ इति᳚ । सः । वृ॒क्षः । आ॒स॒ । यतः᳚ । द्यावा᳚पृथि॒वी इति᳚ । निः॒॑त॒त॒क्षुः ।
मनी᳚षिणः । मन᳚सा । पृ॒च्छत᳚ । इत् । ऊं॒ इति᳚ । तत् । यत् । अ॒धि॒॑अति᳚ष्ठत् । भुव᳚नानि । धा॒रय᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वस्यामृच्युक्तं ब्रह्मैव भूम्यादिकारणमिति। तदेवानया प्रश्नकथनव्याजेनोच्यते। लोके हि प्रौढं प्रासादं निर्मिमाणः कस्मिंश्चित्प्रौढे वने कञ्चिन्महान्तं वृक्षं भित्त्वा तक्षणादिना स्तम्बादिकं सम्पादयति। इह तु परमेश्वरप्रेरिता जगत्स्रष्टारो यतो यस्माद्वनाद्यं वृक्षमादाय द्यावापृथिवी निष्टतक्षुः तक्षणेन द्यावापृथिव्यौ निष्पादितवन्तः तद्वनं किं स्वित् किं नाम स्यात्। तथा क उ स वृक्ष आस। कस्तादृशो महान्वृक्षोऽभूत्। हे मनीशिणो मनस ईश्वराः तदुभयं मनसा जुज्ञासायुक्तेन पृच्छतेदु। पृच्छतैव। किञ्चेश्वरो भुवनानि धारयन्यत्स्थानमध्यतिष्ठत् तदपि पृच्छत। एतस्य सर्वस्याप्युत्तरं ब्रह्म स वृक्ष आसीदित्यादिकमुत्तरम्॥४॥

10.81.5
या ते॒ धामा᳚नि पर॒माणि॒ याव॒मा या म᳚ध्य॒मा वि᳚श्वकर्मन्नु॒तेमा ।
शिक्षा॒ सखि᳚भ्यो ह॒विषि᳚ स्वधावः स्व॒यं य᳚जस्व त॒न्वं᳚ वृधा॒नः ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । धामा᳚नि । प॒र॒माणि᳚ । या । अ॒व॒मा । या । म॒ध्य॒मा । वि॒श्व॒॑क॒र्म॒न् । उ॒त । इ॒मा ।
शिक्ष᳚ । सखि᳚॑भ्यः । ह॒विषि᳚ । स्व॒धा॒॑वः॒ । स्व॒यम् । य॒ज॒स्व॒ । त॒न्व᳚म् । वृ॒धा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

साकमेधेषु वैश्वकर्मण एककपालस्य या ते धामानीत्येषा याज्या। सूत्रितं च। विश्वकर्मन्हविषा वावृहानो याते धामानि परमाणि यावमा। आ. २-१८। इति॥ पूर्वोक्तस्य पशोर्हविष एवैष याज्या। सूत्रितं च। याते धामानि परमाणि यावमा य इमे द्यावापृथिवी जनित्री। आ. ३-८। इति॥

अनया भौवनो विश्वकर्मा जगत्कारनम् विश्वकर्मदेवं स्तौति। हे विश्वकर्मन् या यानि ते तव परमाणि धामानि शरीराणि सन्ति या यानि च मध्यमानि शरीराणि सन्ति उतापि च या यान्यवमावमानि धामानि शरीराणि सन्ति उतापि च तानीमानि सर्वाणि शरीराणि सखिभ्योऽस्मभ्यं यषुं हविषि मयि हविर्भूते सति शक्ष। देहि। हे स्वधावो हविर्लक्षनान्नवन् स्वयमेव त्वं तन्वं स्वकीयं पूर्वोक्तं त्रिविधं शरीरं वृधानो हविषा वर्धमानः सन्। अनेन धामत्रैविध्योपन्यासेनोत्तमभुतानि देवादिशरीराणि मध्यमभूतानि मनुष्यादिशरीराणि निकृष्टभूतानि कृमिकीटादिशरीराणि च परिगृहीतानि। किं बहुना सर्वं जगदुपात्तं भवति। उक्तव्यतिरेकेण निरवयवस्य परमेश्वरस्य विग्रहाभवात् तदैक्शत बहुः स्यां प्रजायेय। छां. उ. ६-२-३। इत्यादिश्रुतिभ्यः परमेश्वरस्यैव देवादिभेदेन बहुभावावगमात्॥५॥

10.81.6
विश्व᳚कर्मन्ह॒विषा᳚ वावृधा॒नः स्व॒यं य᳚जस्व पृथि॒वीमु॒त द्याम् ।
मुह्य᳚न्त्व॒न्ये अ॒भितो॒ जना᳚स इ॒हास्माकं᳚ म॒घवा᳚ सू॒रिर᳚स्तु ॥
▶ पदपाठः (Word-by-word)
विश्व᳚॑कर्मन् । ह॒विषा᳚ । व॒वृ॒धा॒नः । स्व॒यम् । य॒ज॒स्व॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
मुह्य᳚न्तु । अ॒न्ये । अ॒भितः᳚ । जना᳚सः । इ॒ह । अ॒स्माक᳚म् । म॒घ॑वा᳚ । सू॒रिः । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तस्मिन्नेव वैश्वकर्मणपशौ वपापुरोडाशयोर्विश्वकर्मन्हविषेति क्रमेण द्वे अनुवाक्ये। सुत्रितं च। विश्वकर्मन्हविषा वावृधान इति द्वे विश्वकर्मा विमना आद्विहायाः। आ. ३-८। इति। साकमेधेषु वैश्वकर्मणस्य विश्वकर्मन्हविषेत्येषैवानुवाक्या। सुत्रं तु पूर्वमुदाहृतम्॥

हे विश्वकर्मन्विश्वविषयकर्मन्नेतन्नामक परमेश्वर हविषा हविर्भूतेन मया विश्वकर्मणा मया दत्तेन वा हविषा ववृधानो वर्धमानः। विश्वकर्मा सर्वाणि भूतानि जुहवाञ्चकार स आत्मानमप्यन्ततो जुहवाञ्चकारेति हि निरुक्तम् पूर्वमुदाहृतम्। स्वयमेव पृथिवीमुतापि च द्यां दिवं च स्वसृष्टे द्यावापृथिव्यौ स्वयं प्रवृद्धः सन्यजस्व। पूजय। अन्ये मत्तोऽन्ये जनासो जना अयष्टारोऽस्मद्यागविरोधिनो वा मुह्यन्तु मुग्धा भवन्त्वभितः सर्वतः। अथ परोक्षकृतः। इहास्मिन्यगेऽस्माकं मघवास्मत्प्रत्तेन हविर्लक्षणेन धनेन धनवान् स सूरिः स्वर्गादिफलस्य प्रेरकोऽस्तु। भवतु। अत्र विध्वकर्मन्हविषा वर्धमान इत्यादि निरुक्तमनुसन्धेयम्॥ १०-२७॥६॥

10.81.7 समानपद
वा॒चस्पतिं᳚ वि॒श्वक᳚र्माणमू॒तये᳚ मनो॒जुवं॒ वाजे᳚ अ॒द्या हु᳚वेम ।
स नो॒ विश्वा᳚नि॒ हव᳚नानि जोषद्वि॒श्वश᳚म्भू॒रव᳚से सा॒धुक᳚र्मा ॥
▶ पदपाठः (Word-by-word)
वा॒चः । पति᳚म् । वि॒श्व॑क᳚र्माणम् । ऊ॒तये᳚ । म॒नः॒॑जुव᳚म् । वाजे᳚ । अ॒द्य । हु॒वे॒म॒ ।
सः । नः॒ । विश्वा᳚नि । हव᳚नानि । जो॒ष॒त् । वि॒श्व॑श᳚म्भूः । अव᳚से । सा॒धु॑क᳚र्मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाचस्पतिं मन्त्रात्मकस्य वचसः स्वामिनं विश्वकर्माणं विश्वकर्तारं मनोजुवं मनोवेगगमनम् वाजे यज्ञेऽद्यास्मिन्दिन ऊतये तर्पणाय हुवेम। आह्वयाम। स देवो नोऽस्माकंविश्वानि सर्वानि हवनानि जोषत्। सेवताम्। किमर्थम्। अवसेऽस्माकं रक्षणाय। स विशेष्यते। विश्वशंभूर्विश्वस्य सुखस्योत्पादकः साधुकर्मा च॥७॥