दशमं मण्डलम् - सूक्तम् 69

12 ऋचः

ऋषिः: सुमित्रो वाध्र्यश्वः देवता: अग्निः छन्दः: जगती

सूक्तम् 10.69 - सम्पूर्णम्

1 / 12
ऋक्: 10.69.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
10.69.1
भ॒द्रा अ॒ग्नेर्व᳚ध्र्य॒श्वस्य᳚ सं॒दृशो᳚ वा॒मी प्रणी᳚तिः सु॒रणा॒ उपे᳚तयः ।
यदीं᳚ सुमि॒त्रा विशो॒ अग्र᳚ इ॒न्धते᳚ घृ॒तेनाहु᳚तो जरते॒ दवि᳚द्युतत् ॥
▶ पदपाठः (Word-by-word)
भ॒द्राः । अ॒ग्नेः । व॒ध्रि॒॑अ॒श्वस्य᳚ । स॒म्॑दृशः᳚ । वा॒मी । प्र॑नी᳚तिः । सु॒॑रणाः᳚ । उप᳚॑इतयः ।
यत् । ई॒म् । सु॒॑मि॒त्राः । विशः᳚ । अग्रे᳚ । इ॒न्धते᳚ । घृ॒तेन᳚ । आ॑हु᳚तः । ज॒र॒ते॒ । दवि᳚द्युतत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

षष्ठेऽनुवाके षोडश सूक्तानि। भद्रा इति द्वादशर्चं प्रथमं सूक्तं वध्र्यश्वपुत्रस्य सुमित्रस्यार्षम् । आदितो द्वे जगत्यावथ दश त्रिष्टुभः। अग्निर्देवता। तथा चानुक्रम्यते। भद्राः सुमित्रो वाध्र्यश्व आग्नेयं द्विजगत्यादीति। गतो विनियोगः॥

अग्नेर्वक्ष्यमानगुणस्य सन्दृशः सन्दृष्टयो वध्र्यश्वस्यैतन्नामकस्य मम। पितुर्भद्राः कल्याणकारिण्य़ो भवन्तु। यद्वा। वध्र्यश्वस्य वध्र्यश्वकुले जातस्याग्नेः सन्दृष्टयो भजनीया भवन्तु। प्रणीतिस्तस्य प्रश्णयनं वामी कल्याणं च भवतु। तथोपेतयो यज्ञं प्रत्युपगतयः सुरणाः शोभनरमणा भवन्तु। सुमित्रा एतन्नामधेया विशोऽमी मनुष्या ईमेनमग्निमग्रे प्रथमं यद्यदेन्धते हविर्भिर्दीपयन्ति तदा घृतेनाहुतो हविर्भिश्च दविद्युतद्भृशं द्योतमानः दधर्तिदर्धर्तीत्यादिना निपातितः। सोऽग्निर्जरते। अस्माभिः स्तूयते॥१॥

10.69.2
घृ॒तम॒ग्नेर्व᳚ध्र्य॒श्वस्य॒ वर्ध᳚नं घृ॒तमन्नं᳚ घृ॒तम्व᳚स्य॒ मेद᳚नम् ।
घृ॒तेनाहु᳚त उर्वि॒या वि प᳚प्रथे॒ सूर्य᳚ इव रोचते स॒र्पिरा᳚सुतिः ॥
▶ पदपाठः (Word-by-word)
घृ॒तम् । अ॒ग्नेः । व॒ध्रि॒॑अ॒श्वस्य᳚ । वर्ध᳚नम् । घृ॒तम् । अन्न᳚म् । घृ॒तम् । ऊं॒ इति᳚ । अ॒स्य॒ । मेद᳚नम् ।
घृ॒तेन᳚ । आ॑हु᳚तः । उ॒र्वि॒या । वि । प॒प्र॒थे॒ । सूर्यः᳚॑इव । रो॒च॒ते॒ । स॒र्पिः॑आ᳚सुतिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वध्र्यश्वस्य सम्बन्धिनोऽग्नेर्घृतं दीयमानं हविर्वर्धनं भवतु। तथा घृतमन्नमदनीयं भवतु। तथास्याग्नेर्घृतमु घृतमेव मेदनं पुश्तिकरं भवतु। येनाग्निः पुष्तो भवति तन्मेदनम् । तेन घृतेनाहुतोऽग्निरुर्वियोर्वत्यन्तं वि पप्रथे। स्वतेजसा विप्रथितो भवति। तथा सर्पिरासुतिः सर्पिरासूयते यस्मिन्निति सोऽग्निः सूर्य इव रोचते। दीप्यते॥२॥

10.69.3
यत्ते॒ मनु॒र्यदनी᳚कं सुमि॒त्रः स᳚मी॒धे अ᳚ग्ने॒ तदि॒दं नवी᳚यः ।
स रे॒वच्छो᳚च॒ स गिरो᳚ जुषस्व॒ स वाजं᳚ दर्षि॒ स इ॒ह श्रवो᳚ धाः ॥
▶ पदपाठः (Word-by-word)
यत् । ते॒ । मनुः᳚ । यत् । अनी᳚कम् । सु॒॑मि॒त्रः । स॒म्॑ई॒धे । अ॒ग्ने॒ । तत् । इ॒दम् । नवी᳚यः ।
सः । रे॒वत् । शो॒च॒ । सः । गिरः᳚ । जु॒ष॒स्व॒ । सः । वाज᳚म् । द॒र्षि॒ । सः । इ॒ह । श्रवः᳚ । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते त्वदीयं यदनीकं रश्मिसङ्घं मनुरेतन्नामको यथा समीधे हविर्भिः सम्यग्दीपयति सुमित्र एतन्नामकोऽहं समीधे। सम्यग्दीपयामि। ञि इन्धी दीप्तौ। लिटीन्धिभवतिभ्यां चेति कित्त्वान्नलोपः। तदिदं सोऽयं रश्मि सङ्घो निवीयो नवतरो भवतु। स त्वं रेवद्धनयुक्तं यथा भवति तथा शोच। प्रज्वओअ। स एव त्वं गिरोऽस्मदीयाः स्तुतीर्जुषस्व। सेवस्व। स त्वं वाजं शत्रुबलं दर्षि। विआरय। तथेह मयि श्रवोऽन्नं धाः। धेहि॥३॥

10.69.4
यं त्वा॒ पूर्व᳚मीळि॒तो व᳚ध्र्य॒श्वः स᳚मी॒धे अ᳚ग्ने॒ स इ॒दं जु᳚षस्व ।
स नः᳚ स्ति॒पा उ॒त भ᳚वा तनू॒पा दा॒त्रं र᳚क्षस्व॒ यदि॒दं ते᳚ अ॒स्मे ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । पूर्व᳚म् । ई॒ळि॒तः । व॒ध्रि॒॑अ॒श्वः । स॒म्॑ई॒धे । अ॒ग्ने॒ । सः । इ॒दम् । जु॒ष॒स्व॒ ।
सः । नः॒ । स्ति॒॑पाः । उ॒त । भ॒व॒ । त॒नू॒॑पाः । दा॒त्रम् । र॒क्ष॒स्व॒ । यत् । इ॒दम् । ते॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईळितः। व्यत्ययेन कर्तरि क्तः। स्तोता वध्र्यश्वो मम पिता पूर्वं पूर्वस्मिन्काले सञ्जातं यं त्वा समीधे हविर्भिः सम्यगदिपयत् स त्वमिदानीं मया क्रियमाणमिदं स्तोत्रं जुषस्व। सेवस्व। यद्वा। वध्र्यश्वस्तस्य पुत्रोऽहं सम्यग्दीपितवानस्मि। स त्वं नोऽस्माकं स्तिपाः। अपिषोदरादिः। पस्त्यं गृहम् । तस्य रक्षको भव। यद्वा। उपस्थिताञ्ज्योतिष्टोमादीन्यागान्पालयतिति स्तिपाः। अस्मदीयानां यज्ञानां पालयिता भव। उतापि च तनूपाः स्वाङ्गनां रक्षको भव। किञ्च दात्रं तद्धनं रक्षस्व यदिदं धनं ते तव स्वभुतेष्वस्मे अस्मासु तिष्थति॥४॥

10.69.5
भवा᳚ द्यु॒म्नी वा᳚ध्र्यश्वो॒त गो॒पा मा त्वा᳚ तारीद॒भिमा᳚ति॒र्जना᳚नाम् ।
शूर᳚ इव धृ॒ष्णुश्च्यव᳚नः सुमि॒त्रः प्र नु वो᳚चं॒ वाध्र्य᳚श्वस्य॒ नाम᳚ ॥
▶ पदपाठः (Word-by-word)
भव᳚ । द्यु॒म्नी । वा॒ध्रि॒॑अ॒श्व॒ । उ॒त । गो॒पाः । मा । त्वा॒ । ता॒री॒त् । अ॒भि॑मा᳚तिः । जना᳚नाम् ।
शूरः᳚॑इव । घृ॒ष्णुः । च्यव᳚नः । सु॒॑मि॒त्रः । प्र । नु । वो॒च॒म् । वाध्रि᳚॑अश्वस्य । नाम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे व्याध्र्यश्व वध्र्यश्वकुले जाताग्ने द्युम्नी। द्युम्नं द्योततेर्यशोवान्नं वा। तद्वान्भव। उतापि च गोपा गोपयिता भव। किञ्च त्वा त्वां कश्चिदपि मा तारित्। मा हिनस्तु। यतो जनानां शत्रूणामभिमातिरभिभवनशीलमानयुक्तोऽभिभविता भवसि। किञ्च शूर इव बलवानिव धृष्णुः शत्रुधर्षणशीलः तस्माच्च्यवनस्तेषां च्यावयिता भवसि। अथ वाध्र्यश्वस्याग्नेस्तव नामाग्निर्जातवेदा वैश्वानर इत्यादीनि नामानि नु क्षिप्रं सुमित्रोऽहं प्र वोचम्। प्रब्रविमि। तस्मान्मेऽन्नादियुक्तो भव॥५॥

10.69.6
सम॒ज्र्या᳚ पर्व॒त्या॒३॒᳚ वसू᳚नि॒ दासा᳚ वृ॒त्राण्यार्या᳚ जिगेथ ।
शूर᳚ इव धृ॒ष्णुश्च्यव᳚नो॒ जना᳚नां॒ त्वम᳚ग्ने पृतना॒यू{4}र॒भि ष्या᳚ः ॥
▶ पदपाठः (Word-by-word)
सम् । अ॒ज्र्या᳚ । प॒र्व॒त्या᳚ । वसू᳚नि । दासा᳚ । वृ॒त्राणि᳚ । आर्या᳚ । जि॒गे॒थ॒ ।
शूरः᳚॑इव । घृ॒ष्णुः । च्यव᳚नः । जना᳚नाम् । त्वम् । अ॒ग्ने॒ । पृ॒त॒ना॒॑यून् । अ॒भि । स्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अज्र्या। अजन्ति गच्छन्तीत्यज्रयो जनाः। तेभ्यो हितानि पर्वत्या पर्वतभवानि वसूनि गवादिलक्षणानि सं जिगेथ। शत्रुभ्यः सञ्जितवानसि। तथार्या बलवद्भिः कृतान्दासा दासैरसुरैः कृतान्वृत्राण्युपद्रवान्सं जिगेथ। तान्हतवानसीत्यर्थः। जि जये। लिटि रूपम् । शुर इव धृष्णुर्जनानां च्यवनस्त्वं पृतनायून्सङ्ग्रामकामानभि ष्याः। अभिभव। पृतनायूनित्यत्र लोपाभावश्चान्दसः। अश्वाघस्यादित्यात्वं विधीयमानमस्मादपि व्यत्ययेन भवति॥६॥

10.69.7 समानपद
दी॒र्घत᳚न्तुर्बृ॒हदु᳚क्षा॒यम॒ग्निः स॒हस्र᳚स्तरीः श॒तनी᳚थ॒ ऋभ्वा᳚ ।
द्यु॒मान्द्यु॒मत्सु॒ नृभि᳚र्मृ॒ज्यमा᳚नः सुमि॒त्रेषु᳚ दीदयो देव॒यत्सु᳚ ॥
▶ पदपाठः (Word-by-word)
दी॒र्घ॑त᳚न्तुः । बृ॒हत्॑उ᳚क्षा । अ॒यम् । अ॒ग्निः । स॒हस्र᳚॑स्तरीः । श॒त॑नी᳚थः । ऋभ्वा᳚ ।
द्यु॒॑मान् । द्यु॒मत्॑सु᳚ । नृ॑भिः᳚ । मृ॒ज्यमा᳚नः । सु॒॑मि॒त्रेषु᳚ । दी॒द॒यः॒ । दे॒व॒यत्॑सु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दीर्घतन्तुः। यैर्यज्ञं सन्तनोति ते तन्तवः स्तोत्रादयः। प्तभुतस्तुतिमान्बृहदुक्षा। उक्षा सेचको रश्मिः। प्रभुतरश्मियुक्तः सहस्रस्तरीर्हवीरूपबह्वाच्छादनः शतनीथ आवहनीयादिद्वारेण बहुविधनयन ऋभ्वा महान्द्युमत्सु दीप्तिमत्सु मध्ये द्युमानतिशयेन दीप्तिमानयमग्निर्नृभि कर्मनेतृभिरृत्विग्भिर्मृज्यमानोऽलंक्रियमाणो भवति। मृजू शौचालङ्कारयोः। स त्वं देवयत्सु देवान्कामयमानेषु सुमित्रेष्वस्मासु दीदयः। दीप्यस्व। दिदयतिर्दीप्तिकर्मा॥७॥

10.69.8 समानपद
त्वे धे॒नुः सु॒दुघा᳚ जातवेदो॑स॒श्चते᳚व सम॒ना स᳚ब॒र्धुक् ।
त्वं नृभि॒र्दक्षि᳚णावद्भिरग्ने सुमि॒त्रेभि᳚रिध्यसे देव॒यद्भि᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । धे॒नुः । सु॒॑दुघा᳚ । जा॒त॒॑वे॒दः॒ । अ॒स॒श्चता᳚॑इव । स॒म॒ना । स॒बः॒॑धुक् ।
त्वम् । नृ॑भिः᳚ । दक्षि᳚णावत्॑भिः । अ॒ग्ने॒ । सु॒॑मि॒त्रेभिः᳚ । इ॒ध्य॒से॒ । दे॒व॒यत्॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदो जातप्रज्ञाग्ने त्वे त्वयि सुदुघा सुष्ठु पयसो दोग्ध्री काचिद्धोमसाधनभुता धेनुरस्ति। कीदृशी। असश्चतेव सङ्गवर्जितेनेवैकत्र स्थित्यभावात्कुत्रापि न संयुक्तेनादित्येन समना सङ्गता सबर्धुगमृतं दुहाना। गोरूपा माध्यमिका वाग्वैद्युते त्वय्यस्तिति भावः। तादृशस्त्वं नृभिः कर्मनेतृभिर्दक्षणावद्भिरृत्विग्भ्यो देयत्वेन तद्वद्भिर्देवयद्भिर्देवकामैः सुमित्रेभिरस्माभिरिध्यसे हविर्भिर्दीप्यसे॥८॥

10.69.9 समानपद
दे॒वाश्चि᳚त्ते अ॒मृता᳚ जातवेदो महि॒मानं᳚ वाध्र्यश्व॒ प्र वो᳚चन् ।
यत्स॒म्पृच्छं॒ मानु᳚षी॒र्विश॒ आय॒न्त्वं नृभि᳚रजय॒स्त्वावृ᳚धेभिः ॥
▶ पदपाठः (Word-by-word)
दे॒वाः । चि॒त् । ते॒ । अ॒मृताः᳚ । जा॒त॒॑वे॒दः॒ । म॒हि॒मान᳚म् । वा॒ध्रि॒॑अ॒श्व॒ । प्र । वो॒च॒न् ।
यत् । स॒म्॑पृच्छ᳚म् । मानु᳚षीः । विशः᳚ । आय᳚न् । त्वम् । नृ॑भिः᳚ । अ॒ज॒यः॒ । त्वा॑वृ᳚धेभिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदो हे वाध्र्यश्वाग्ने ते तव महिमानममैता देवाश्चिद्देवा अपि प्र वोचन्। प्रब्रुवन्ति। यद्यद मानुषीर्मनुष्यसम्बन्धिन्यो विशः प्रजाः सम्पृच्छं देवैः सह को वा असुरान्हन्तीत्येवमादिकं सम्प्रश्नमायन् प्राप्तवन्तः तदा त्वं नृभिः सर्वस्य नेतृभिस्त्वावृधेभिस्त्वया वर्धितैर्देवैः सह कर्मविघ्नकारिणस्तनजयः। जितवानसि॥९॥

10.69.10
पि॒तेव᳚ पु॒त्रम᳚बिभरु॒पस्थे॒ त्वाम᳚ग्ने वध्र्य॒श्वः स᳚प॒र्यन् ।
जु॒षा॒णो अ᳚स्य स॒मिधं᳚ यविष्ठो॒त पूर्वा{4}᳚ अवनो॒र्व्राध᳚तश्चित् ॥
▶ पदपाठः (Word-by-word)
पि॒ता॑इ᳚व । पु॒त्रम् । अ॒बि॒भः॒ । उ॒प॑स्थे᳚ । त्वाम् । अ॒ग्ने॒ । व॒ध्रि॒॑अ॒श्वः । स॒प॒र्यन् ।
जु॒षा॒णः । अ॒स्य॒ । स॒म्॑इध᳚म् । य॒वि॒ष्ठ॒ । उ॒त । पूर्वा᳚न् । अ॒व॒नोः॒ । व्राध᳚तः । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वामुपस्थे पृथिव्या उपस्थान उत्तरवेद्यां सर्पयन् परिचर्याकर्मा परिचरन्वध्र्यश्वो मम पिताबिभः। धृतवान्। हविर्घिः पोषितवान्वा। कथमिव। पितेव यथा पिता समीपे पुत्रं स्थापयति पोषयति वा। डुभृञ् धारनपोषणयोः। लङि तिपि गुणे कृते हल्ङ्यादिना तिपो लोपः। हे यविष्ठ यवतमाग्ने उतापि चास्य वध्र्यश्वस्य पितुर्वा मम वा समिधं जुषाणः सेवमानः सन् पूर्वान्प्रत्नान्वाधतश्चिद्बाधकानपि शत्रूनवनोः। अवधीः। वनतिर्हिंसायां भौवादिकः। व्यत्ययेनोप्रत्ययः॥१०॥

10.69.11
शश्व᳚द॒ग्निर्व᳚ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि᳚र्जिगाय सु॒तसो᳚मवद्भिः ।
सम᳚नं चिददहश्चित्रभा॒नो॑व॒ व्राध᳚न्तमभिनद्वृ॒धश्चि᳚त् ॥
▶ पदपाठः (Word-by-word)
शश्व᳚त् । अ॒ग्निः । व॒ध्रि॒॑अ॒श्वस्य᳚ । शत्रू᳚न् । नृ॑भिः᳚ । जि॒गा॒य॒ । सु॒तसो᳚मवत्॑भिः ।
सम᳚नम् । चि॒त् । अ॒द॒हः॒ । चि॒त्र॒भा॒नो॒ इति᳚ चित्र॑भानो । अव᳚ । व्राध᳚न्तम् । अ॒भि॒न॒त् । वृ॒धः । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निर्वर्ध्यश्वस्य सुतसोमवद्भिरभिषुतसोमैः। अनुवादको मत्वर्थीयः। तैर्नृभिरृत्विग्भिः शश्वत् सर्वदा शत्रूञ्जगाय। जितवान्। अथ प्रत्यक्षः। हे चित्रभानो नानातेजस्क चायनीयदीप्तिमन्नग्ने त्वं समनं चित्। समनमिति सङ्ग्रामनाम। तमप्यदहः स्वतेजोभिः। अथ तव स्तोता वाध्र्यश्वो वैधश्चित्स्वयम् व्रुद्धो भवन्व्राधन्तं वर्धमानं हिंसकं वावाभिनत्। अवङ्मुखम् कृत्वाच्छनत्। यद्वा। त्वमेव तमवाभिनत्। अवाङ्मुखं कृत्वाभिनः। आच्छिनः। प्रथममध्यमयोह् समानमेतद्रूपं॥११॥

10.69.12
अ॒यम॒ग्निर्व᳚ध्र्य॒श्वस्य᳚ वृत्र॒हा स᳚न॒कात्प्रेद्धो॒ नम᳚सोपवा॒क्य᳚ः ।
स नो॒ अजा᳚मी{4}रु॒त वा॒ विजा᳚मीन॒भि ति᳚ष्ठ॒ शर्ध᳚तो वाध्र्यश्व ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । अ॒ग्निः । व॒ध्रि॒॑अ॒श्वस्य᳚ । वृ॒त्र॒॑हा । स॒न॒कात् । प्र॑इ᳚द्धः । नम᳚सा । उ॒प॒॑वा॒क्यः᳚ ।
सः । नः॒ । अजा᳚मीन् । उ॒त । वा॒ । वि॑जा᳚मीन् । अ॒भि । ति॒ष्ठ॒ । शर्ध᳚तः । वा॒ध्रि॒॑अ॒श्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रहा शत्रूणाम् हन्तायमग्निः सनकाच्चिरादारभ्य वध्र्यश्वस्य हविषा प्रेद्धः प्रकर्षेन दीपितो भवति। तथा तस्य नमसा नमस्कारेण सहोपवाक्य उपस्तोतव्यो भवति। हे वाध्र्यश्व वध्र्यश्वकुले मथनेन समुत्पन्नाग्ने स त्वं नोऽस्माकमजामीनज्ञातीञ्शत्रून् उत वापि वा शर्धतो हिंसतो विजामीन्विधाञ्जातीनप्यभितिष्थ। अभिबव॥१२॥