दशमं मण्डलम् - सूक्तम् 133

7 ऋचः

ऋषिः: सुदाः पैजवनः देवता: इंद्रः छन्दः: शक्वरी

सूक्तम् 10.133 - सम्पूर्णम्

1 / 7
ऋक्: 10.133.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.133.1
प्रो ष्व᳚स्मै पुरोर॒थमिन्द्रा᳚य शू॒षम᳚र्चत ।
अ॒भीके᳚ चिदु लोक॒कृत्सं॒गे स॒मत्सु᳚ वृत्र॒हास्माकं᳚ बोधि चोदि॒ता नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व᳚सु ॥
▶ पदपाठः (Word-by-word)
प्रो इति᳚ । सु । अ॒स्मै॒ । पु॒रः॒॑र॒थम् । इन्द्रा᳚य । शू॒षम् । अ॒र्च॒त॒ ।
अ॒भीके᳚ । चि॒त् । ऊं॒ इति᳚ । लो॒क॒॑कृत् । स॒म्॑गे । स॒मत्॑सु᳚ । वृ॒त्र॒॑हा । अ॒स्माक᳚म् । बो॒धि॒ । चो॒दि॒ता । नभ᳚न्ताम् । अ॒न्य॒केषा᳚म् । ज्या॒काः । अधि᳚ । धन्व᳚॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रो ष्विति सप्तर्चम् पञ्चमं सूक्तं पिजवनपुत्रस्य सुदास आर्षमैन्द्रम्। आद्यस्तृचः शाक्वरः। षट् पञ्चादशक्षरी शक्वरी। द्वितीयस्तृचो महापाङ्क्तः। शळष्टका महापङ्क्तिः। सप्तमी त्रिष्टुप्। तथा चानुक्रान्तम्। प्रोषु सुदाः पैजवनः शाक्वरमहापङ्क्तावाद्यौ तृचावन्त्या त्रिष्टुबिति। षोळशिशस्त्र अद्यस्तृचः शंसनीयः। सूत्रितं च। त्रिकद्रुकेषु महिषो यवाशिरं प्रो ष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ। आ. ६-२। इति। महाव्रते माध्यन्दिनसवने ब्रह्मशस्त्रेऽनुरूपतृचस्य प्रो ष्वस्मा इत्येका। तथैव पञ्चमारण्यके सुत्रितं च। प्रो ष्वस्मै पुरोरथमित्यतोऽनुरूपः। ऐ. आ. ५-१-१। इति॥

अस्मा इन्द्राय। षष्ठ्यर्थे चतुर्थी। अस्येन्द्रस्य पुरोरथं रथस्य पुरः पुरतः। पुरोऽव्ययमिति गतित्वाद्गतिसमासः। रथस्याग्रतो वर्तमानं शूषं बलं सु प्रो अर्चत। हे स्तोतारः सुष्ठु प्रपूजयत। प्र उ इति निपातसमुदायः प्रो इति। ओदिति प्रगृह्यसंज्ञम्। इन्द्रो विशेष्यते। समत्सु। समानं माद्यन्त्यत्रेति समदः सङ्ग्रामाः। औणादिकोऽधिकरने क्विप्। समानस्य च्छन्दसिति सभावः। समत्सु सङ्ग्रामेषु सङ्गे सङ्गमनीये शत्रुबले। डोऽन्यत्रापि दृश्यते। पा. ३-२-४८। इति गमेर्डः। अभीके चिदभ्यर्ण्येऽपि निकटम् प्राप्तेऽपि केशाकेश्यवस्थायामपि लोककृत्स्थितिकृन्न पालयिता स्थित्वा वृत्रहा वृत्राणामावरकाणां हन्ता एवं विधः स इन्द्रोऽस्माकं स्तोतॄणां चोदिता धनानां प्रेरिता सन्बोधि। अस्माभिः कृतानि परिचरणानि बुध्यताम्। बुधेश्छान्दसे लुङि दीपजनबुधेत्यादिना कर्तरि च्लेश्चिणादेशः। बहुलं छन्दस्यमाङ्योगेऽपीत्यडभावः। अपि चान्यकेषां कुत्सितानामन्येशां शत्रूणामधि धन्वसु धनुः ष्वधिरोपिता ज्याकाः कुत्सिता ज्या नभन्ताम्। हिंस्यन्ताम् । नश्यन्तु। ज्याशब्दात्कुत्सायां प्रागिवात्कः। पा. ५-३-७०-७४। न भ तुभ हिंसायां क्रैयादिकः। व्यत्ययेन शप्॥१॥

10.133.2
त्वं सिन्धू{4}॒रवा᳚सृजो॑ध॒राचो॒ अह॒न्नहि᳚म् ।
अ॒श॒त्रुरि᳚न्द्र जज्ञिषे॒ विश्वं᳚ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि᳚ ष्वजामहे॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व᳚सु ॥
▶ पदपाठः (Word-by-word)
त्वम् । सिन्धू᳚न् । अव᳚ । अ॒सृ॒जः॒ । अ॒ध॒राचः᳚ । अह᳚न् । अहि᳚म् ।
अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । विश्व᳚म् । पु॒ष्य॒सि॒ । वार्य᳚म् । तम् । त्वा॒ । परि᳚ । स्व॒जा॒म॒हे॒ । नभ᳚न्ताम् । अ॒न्य॒केषा᳚म् । ज्या॒काः । अधि᳚ । धन्व᳚॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सिन्धून् स्यन्दनशीलञ्जलपूरानधराचोऽधरमधोमुखमञ्चतो गन्तॄनवासृजः। मेघान्निरगमयः। यतस्त्वमहिमन्तरिक्षे गतं मेघमहन् हतवानसि। यद्वा। अहिमागत्य हन्तारं सर्वस्य जगत आवरकं वृत्रमसुरमहन् हतवानसि। अतो हे इन्द्र त्वमशत्रुः शत्रुरहितो जज्ञिषे। जायसे। न सन्ति शत्रवोऽस्येति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम्। जनेर्लिट गमहनेत्यादिनोपधालोपः। द्विर्वचनेऽचीति स्थानिवद्भावाद्द्विर्वचनम्। तथा विश्वं सर्वं वार्यं वरणीयं सम्भजनीयं धनं पुष्यसि। वर्धयसि। वृङ् सम्भक्तौ। ऋहलोर्ण्यत्। ईडवन्दवृशंसदुहां ण्यत इत्याद्युदात्त त्वम्। तादृशं त्वां परिष्वजामहे। हविर्घिः स्तुतिभिश्चालिङ्गनम्। कुर्मः। वशीकुर्म इत्यर्थः। ष्वन्ज परिश्वङ्गे। दंशसंजष्वंजां शपि। पा. ६-४-२५। इत्यनुनासिकलोपः॥२॥

10.133.3
वि षु विश्वा॒ अरा᳚तयो॒॑र्यो न᳚शन्त नो॒ धियः᳚ ।
अस्ता᳚सि॒ शत्र᳚वे व॒धं यो न᳚ इन्द्र॒ जिघां᳚सति॒ या ते᳚ रा॒तिर्द॒दिर्वसु॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व᳚सु ॥
▶ पदपाठः (Word-by-word)
वि । सु । विश्वा᳚ । अरा᳚तयः । अ॒र्यः । न॒श॒न्त॒ । नः॒ । धियः᳚ ।
अस्ता᳚ । अ॒सि॒ । शत्र᳚वे । व॒धम् । यः । नः॒ । इ॒न्द्र॒ । जिघां᳚सति । या । ते॒ । रा॒तिः । द॒दिः । वसु᳚ । नभ᳚न्ताम् । अ॒न्य॒केषा᳚म् । ज्या॒काः । अधि᳚ । धन्व᳚॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वा सर्वा अरातयोऽदात्र्योऽर्योऽभिगन्त्र्यो नोऽस्माकं शत्रुभूताः प्रजाः सु सुष्ठु वि नशन्त। विनश्यन्तु। हे इन्द्र त्वदर्थं धियः कर्माणिस्तुतयो वा प्रवर्तंताम्। हे इन्द्र यो नोऽस्माञ्जघांसति हन्तुमिच्छति। हन्तेः सन्यज्झनगमां सनीति दीर्घः। अभ्यासाच्चेति कुत्वम्। तस्मै शत्रवे वधं हननसाधनमायुधमस्तासि। क्षेप्ता भवसि। असु क्षेपणे। ताच्छीलिकस्तृन्। ते तव या रातिर्धनप्रदानहेतुर्हस्तः। रा दाने। करणे क्तिन्। मन्त्रे वृषेशपचनमनविदभूवीरा उदात्त इति क्तिन उदात्तत्वम्। सा रार्तिर्वसु धनं ददिः। अस्मभ्यं दाता भवतु। आदृगमहन इति ददातेः किप्रत्ययः। न लोकाव्ययेति वसुशब्दात्षष्ठ्यभावः। सिद्धमन्यत्॥३॥

10.133.4
यो न᳚ इन्द्रा॒भितो॒ जनो᳚ वृका॒युरा॒दिदे᳚शति ।
अ॒ध॒स्प॒दं तमीं᳚ कृधि विबा॒धो अ᳚सि सास॒हिर्नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व᳚सु ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । इ॒न्द्र॒ । अ॒भितः᳚ । जनः᳚ । वृ॒क॒॑युः । आ॒॑दिदे᳚शति ।
अ॒धः॒॑प॒दम् । तम् । ई॒म् । कृ॒धि॒ । वि॒॑बा॒धः । अ॒सि॒ । स॒स॒हिः । नभ᳚न्ताम् । अ॒न्य॒केषा᳚म् । ज्या॒काः । अधि᳚ । धन्व᳚॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यो जनो व्रुकायुः । वृको हिंसकोऽरण्यश्वा स्तेनो वा। स इवाचरन्नोऽस्मानभितः सर्वत आदिदेशति अभिलक्ष्यायुधान्यतिसृजति। दिअहतेर्लेट्यडागमः। छान्दसः शपः श्लुः। नाभ्यस्तस्याचि पितीत्यत्र बहुलं छन्दसीति वक्तव्यमिति वचनात्प्रतिषेधाभावे लघूपधगुणः। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। तमीं तमिमं जनमधस्पदं पादस्याधस्ताद्वर्तमानं क्रुधि। कुरु। करोतेश्छान्दसो विकरणस्य लुक् श्रुशृणुपृकृवृभ्य इति हेर्धिः। यतस्त्वं विबाधो विशेषेण बाधिता शत्रूणां सासहिरभिभविता चासि। सिद्धः शेषः॥४॥

10.133.5
यो न᳚ इन्द्राभि॒दास᳚ति॒ सना᳚भि॒र्यश्च॒ निष्ट्य᳚ः ।
अव॒ तस्य॒ बलं᳚ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व᳚सु ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । इ॒न्द्र॒ । अ॒भि॒॑दास᳚ति । स॑ना᳚भिः । यः । च॒ । निष्ट्यः᳚ ।
अव᳚ । तस्य᳚ । बल᳚म् । ति॒र॒ । म॒ही॑इ᳚व । द्यौः । अध᳚ । त्मना᳚ । नभ᳚न्ताम् । अ॒न्य॒केषा᳚म् । ज्या॒काः । अधि᳚ । धन्व᳚॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यः सनाभिः समानजन्मा शत्रुर्नोऽस्मानभिदासति उपक्षयति यश्च निष्ट्यो निकृष्टजन्मास्मानुपक्शयति। जातार्थे निकृष्तवाचिनो निःशब्दादव्ययात्यप्। पा. ४-२-१०४। ह्रस्वात्तादौ तद्धिते। पा. ८-३-१०१। इति षत्वम्। आधानन्तरमेव महीव द्यौर्महती द्यौरिव विस्तृतम् तस्य शत्रोर्बलं त्मनात्मना। मन्त्रेष्वाज्यादेरात्मन इत्याकारलोपः। स्वयमेवाव तिर। जहि। अवतिरतिर्वधकर्मा। गतमन्यत्॥५॥

10.133.6
व॒यमि᳚न्द्र त्वा॒यवः᳚ सखि॒त्वमा र᳚भामहे ।
ऋ॒तस्य᳚ नः प॒था न॒याति॒ विश्वा᳚नि दुरि॒ता नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व᳚सु ॥
▶ पदपाठः (Word-by-word)
व॒यम् । इ॒न्द्र॒ । त्वा॒॑यवः᳚ । स॒खि॒॑त्वम् । आ । र॒भा॒म॒हे॒ ।
ऋ॒तस्य᳚ । नः॒ । प॒था । न॒य॒ । अति᳚ । विश्वा᳚नि । दुः॒॑इ॒ता । नभ᳚न्ताम् । अ॒न्य॒केषा᳚म् । ज्या॒काः । अधि᳚ । धन्व᳚॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वायवस्त्वामात्मन इच्छन्तो वयं सखित्वं सखिकर्म यज्ञात्मकमा रभामहे। उपक्रमामहे। ऋतस्य सत्यस्य यज्ञस्य पथा मार्गेन। भस्य टेर्लोपः उदात्तनिव्रुत्तिस्वरेण तृतीयाया उदात्तत्वम्। विश्वानि सर्वाणि दुरिता दुरितानि दुर्गमनानि पापानि तत्फलानि च नोऽस्मानति नय। अतिपारय। गतमन्यत्॥६॥

10.133.7
अ॒स्मभ्यं॒ सु त्वमि᳚न्द्र॒ तां शि᳚क्ष॒ या दोह᳚ते॒ प्रति॒ वरं᳚ जरि॒त्रे ।
अच्छि᳚द्रोध्नी पी॒पय॒द्यथा᳚ नः स॒हस्र᳚धारा॒ पय᳚सा म॒ही गौः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मभ्य᳚म् । सु । त्वम् । इ॒न्द्र॒ । ताम् । शि॒क्ष॒ । या । दोह᳚ते । प्रति᳚ । वर᳚म् । ज॒रि॒त्रे ।
अच्छि᳚द्र॑ऊध्नी । पी॒पय᳚त् । यथा᳚ । नः॒ । स॒हस्र᳚॑धारा । पय᳚सा । म॒ही । गौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं तां गामस्मभ्यं स्तोतृभ्यः सु शिक्ष। प्रदेहि। शिक्षतिर्दानकर्मा। या गौर्जरित्रे स्तोत्रे वरं वरनीयं पयः प्रति दोहते प्रतिदिनं नैरन्तर्येण दुग्धे। दुहेर्बहुलं छन्दसीति शपो लुगभावः। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम्। धातुस्वरः शिष्यते। वरम् । वृञ् वरण इत्यस्माद्ग्रहव्रुदृनिश्चिगमश्चेति कर्मण्यण्। सा प्रत्ता गौरच्छिद्रोध्नी निविडोधस्का अत एव सहस्रधारा बहुभिः क्षिरधारभिरुपेता मही महती सती यथा नोऽस्मान्पयसा क्षीरेण पीपयत् प्रवर्धयेत् तथा तां कुर्विति शेशः। ओप्यायी वृद्धौ। ण्यन्ताच्छान्दसो लुङ्। व्यत्ययेन धातोः पीभावः। अडभावश्छान्दसः॥७॥