दशमं मण्डलम् - सूक्तम् 143

6 ऋचः

ऋषिः: अत्रिः सांख्यः देवता: अश्विनौ छन्दः: अनुष्टुप्

सूक्तम् 10.143 - सम्पूर्णम्

1 / 6
ऋक्: 10.143.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.143.1
त्यं चि॒दत्रि᳚मृत॒जुर॒मर्थ॒मश्वं॒ न यात᳚वे ।
क॒क्षीव᳚न्तं॒ यदी॒ पुना॒ रथं॒ न कृ᳚णु॒थो नव᳚म् ॥
▶ पदपाठः (Word-by-word)
त्यम् । चि॒त् । अत्रि᳚म् । ऋ॒त॒॑जुर᳚म् । अर्थ᳚म् । अश्व᳚म् । न । यात᳚वे ।
क॒क्षीव᳚न्तम् । यदि᳚ । पुन॒रिति᳚ । रथ᳚म् । न । कृ॒णु॒थः । नव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशमे मण्डल एकादशेऽनुवाके चतुर्दश सूक्तानि व्याकृतानि। त्यं चिदिति षडृचं पञ्चदशं सूक्तं संख्यपुत्रस्यात्रेरार्षमानुष्टुभमश्विदेवताकम्। तथा चानुक्रान्तम्। त्यं षट् सांख्योऽत्रिराश्विनमिति। प्रातरनुवाकाश्विनशस्त्रयोरानुष्टुभे छन्दसीदं सूक्तम्। सूत्र्यते हि। आ नो विश्वाभिस्त्यं चिदत्रिमित्यानुष्टुभम्। आ. ४-१५। इति॥

हे अश्विनौ शतद्वारे पीडायन्त्रग्रुहेऽसुरैः प्रक्षिप्तो बद्धाङ्गो योऽत्रिरस्तित्यं चित्तमप्यत्रिमृतजुरम्। ऋतं स्तोत्रं यज्ञो वा। तेन जीर्यन्तम्। सर्वदा युवयोः परिचरणशीलमित्यर्थः। जीर्यतेः क्विपि बहुलं छन्दसीत्युत्वम्। यद्वा। ऋतेन प्रप्तेनासुरकृतोपद्रवेन ज्वरितम् रुग्णम्। ज्वर रोगे। ज्वरत्वरेत्यादिना वकारस्योपधयाश्च स्थान ऊट्। जूरी हिंसागत्योरित्यस्माद्वा क्विप्। अनयोः पक्षयोश्छान्दसो ह्रस्वः। ईद्रुशं तमत्रिमर्थमर्थनीयं प्राप्तव्यं यातवे गन्तुं युवां कृतवन्तौ। तत्र दृष्टान्तः। अश्वं न। यथाश्वो बन्धनाद्विमुक्तः सन् शीघ्रं गच्छति एवमयमपि युवयोः प्रसादादसुरकृतादुपद्रवजाताद्विमुच्यमानो यथास्थानमगच्छदित्यर्थः। या प्रापण इत्यस्मात्तुमर्थे सेसेनिति तवेन्प्रत्ययः। यदि। अपि चेत्यर्थः। कक्षीवन्तम्। कक्ष्या रज्जुरश्वस्य। तद्वन्तम्। आसन्दीवदष्ठीवदित्यादौ निपातनात्संप्रसारनम्। दीर्घतमसः पुत्रमुशिक्प्रसूतमृषिम् मन्दबुद्धिं सन्तं युवाम् पुनर्नवं पुनरभिनवप्रज्ञं कृणुथः। अकृणुतम् । अकुरुतम्। रथं न। यथा कश्चिच्छिल्पी जीर्नं रथं पुनरभिनवं करोति तद्वत्। कृवि हिंसाकरणयोश्च। इदित्त्वान्नुम लङर्थे व्यत्ययेन लट्। धिन्विक्रुण्व्योरच्चेत्युप्रत्ययः। तत्सन्नियोगेनाकारन्तादेशश्च। तस्यातो लोपे सति स्थानवद्भावाल्लघूपधगुणाभावः। सति शिष्तोऽपि विकरणस्वरो लसार्वधातुकस्वरम् न बाधते। म. ६-१-१५८-११। इति वचनात्तिङ एव स्वरह् शिष्यते। निपातैर्यद्यदिहन्तेति निघातप्रतिषेधः॥१॥

10.143.2
त्यं चि॒दश्वं॒ न वा॒जिन᳚मरे॒णवो॒ यमत्न᳚त ।
दृ॒ळ्हं ग्र॒न्थिं न वि ष्य᳚त॒मत्रिं॒ यवि᳚ष्ठ॒मा रजः᳚ ॥
▶ पदपाठः (Word-by-word)
त्यम् । चि॒त् । अश्व᳚म् । न । वा॒जिन᳚म् । अ॒रे॒णवः᳚ । यम् । अत्न᳚त ।
दृ॒ळ्हम् । ग्र॒न्थिम् । न । वि । स्य॒त॒म् । अत्रि᳚म् । यवि᳚ष्ठम् । आ । रजः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरेणवो‍हिंस्यमानाः प्रबला असुरा वाजिनं वेगवन्तमश्वं नाश्वमिव यमत्रिमत्नत अतन्वत बद्धमकृषत। तनोतेर्लुङि तनिपत्योश्चन्दसीत्युपधालोपः। त्यं चित्तं चात्रिं यविष्ठं युवतमं स्तुतेर्मिश्रयितृतमं वा रजः। रजन्त्यस्मिञ्जना इति रजो भूलोकः। रज इमं लोकमाभि हे अश्विनौ वि ष्यतम्। व्यमुञ्चतम्। दृढ्त्ं स्थिरतरं ग्रन्थिं न ग्रन्थिमिव। यथा कश्चित्तादृशं ग्रन्थिमयत्नेन विमुञ्चति तथा युवां तमृषिमसुरकृताद्बन्धनान्मोचितवन्तावित्यर्थः। स्यतमिति षोऽन्तकर्मणीत्यस्माल्लङ् स्यन्योतः श्यनीत्योकारलोपे रूपम्। छान्दसोऽडभावः। यद्वा। अत्रिं मां बन्दाद्वि ष्यतं विमुञ्चतमित्युषिरसुरैर्बद्धः सन्नश्विनौ प्रार्थयते॥२॥

10.143.3
नरा॒ दंसि᳚ष्ठा॒वत्र᳚ये॒ शुभ्रा॒ सिषा᳚सतं॒ धियः᳚ ।
अथा॒ हि वां᳚ दि॒वो न᳚रा॒ पुन॒ः स्तोमो॒ न वि॒शसे᳚ ॥
▶ पदपाठः (Word-by-word)
नरा᳚ । दंसि᳚ष्ठौ । अत्र᳚ये । शुभ्रा᳚ । सिसा᳚सतम् । धियः᳚ ।
अथ᳚ । हि । वा॒म् । दि॒वः । न॒रा॒ । पुन॒रिति᳚ । स्तोमः᳚ । न । वि॒॑शसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नरौ हे दंसिष्ठौ दर्शनीयतमौ शुभ्रा शोभमानौ ईदृशौ हे अश्विनौ अत्रय ऋषये मह्यं धियः कर्माणि बुद्धीर्वा सिषासतम्। दातुमिच्छतम्। षनु दाने। यद्वा। अत्रय इति षष्ठ्यर्थे चतुर्थी। अत्रेर्मम धियः स्तुतीः कर्माणि वा सिषासन्तम्। सम्भक्तुमिच्छतम्। सेवेथामित्यर्थः। वन षन सम्भक्तौ। अस्मात्सनतेः सनोतेर्वा सनि सनीवन्तर्धेति विकल्पनादिडाभावे जनसनखनामित्यात्वम्। शुभ्रेत्यस्यामन्त्रितस्यामन्त्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वेन पदादपरत्वेन पादादित्वात्तिङ्ङतिङ इति निघाताभावः। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे सनो नित्त्वादाद्युदात्तत्वम्। अथा ह्यनन्तरमेव दिवः। दीव्यतिति स्तौतिति द्यौः स्तोता। तस्य मम स्तोमो न। न शब्दाश्चार्थे। स्तोत्रं च हे नरा नेतारावश्विनौ वां युवां पुनर्विशसे। पुनरेवाद्यापि विशेषेन शंसितुं प्रभवतीति शेषः॥३॥

10.143.4
चि॒ते तद्वां᳚ सुराधसा रा॒तिः सु᳚म॒तिर᳚श्विना ।
आ यन्न॒ः सद᳚ने पृ॒थौ सम᳚ने॒ पर्ष᳚थो नरा ॥
▶ पदपाठः (Word-by-word)
चि॒ते । तत् । वा॒म् । सु॒॑रा॒ध॒सा॒ । रा॒तिः । सु॒॑म॒तिः । अ॒श्वि॒ना॒ ।
आ । यत् । नः॒ । सद᳚ने । पृ॒थौ । सम᳚ने । पर्ष᳚थः । न॒रा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुराधसा शोभनदानावश्विना हे अश्विनौ सुमतिः शोभना स्तुतिरस्मदीया रातिर्हविर्दानं च तत्तस्मात्कारणाद्वां युवयोश्चित्ते ज्ञानाय भवति। चिती संज्ञाने। अस्मात्संपदादिलक्षणो भावे क्विप्। सावेकाच इति विभक्तेरुदात्तत्वम्। यद्यस्मात्कारनात्सदने यज्ञगृहे पृथौ विस्तीर्ने समने यज्ञे नोऽस्मान् हे नरा नेतारावा पर्षथः आपूरयथः अभितो रक्शथो वा तस्माद्युवामस्मदीयं परिचरनं ज्ञातवन्तावित्यनुमीमहे। पॄ पालनपूरणयोरित्यस्माल्लेटि सिब्बहुलमिति सिप्। ततः शप्॥४॥

10.143.5
यु॒वं भु॒ज्युं स᳚मु॒द्र आ रज᳚सः पा॒र ई᳚ङ्खि॒तम् ।
या॒तमच्छा᳚ पत॒त्रिभि॒र्नास᳚त्या सा॒तये᳚ कृतम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज᳚सः । पा॒रे । ई॒ङ्खि॒तम् ।
या॒तम् । अच्छ᳚ । प॒त॒त्रि॑भिः᳚ । नास᳚त्या । सा॒तये᳚ । कृ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवं युवां समुद्र उदधौ निमग्नं रजस उदकस्य पारे प्रान्ते तरङ्गसमूह ईंखितं डोलायितं एवंभूतम् भुज्युं तुग्रपुत्रमच्छाभि पतत्रिभिः पक्षोपेतैर्नार्विशेषैः सहा यातम्। आगतवन्तौ स्थः। आगत्य च हे नासत्या सत्यस्य नेतारौ सत्यस्वभावौ वा हे अश्विनौ सातये युवयोः सम्भजनाय समर्थं कृतम्। पुनर्युवानं कुरुतम्। करोतेर्लङि छान्दसो विकरनस्य लुक्। अडभावश्च॥५॥

10.143.6
आ वां᳚ सु॒म्नैः शं॒यू इ᳚व॒ मंहि᳚ष्ठा॒ विश्व᳚वेदसा ।
सम॒स्मे भू᳚षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । सु॒म्नैः । श॒म्यू इ॒वेति᳚ श॒म्यू॑इ᳚व । मंहि᳚ष्ठा । विश्व᳚॑वेदसा ।
सम् । अ॒स्मे इति᳚ । भू॒ष॒त॒म् । न॒रा॒ । उत्स᳚म् । न । पि॒प्युषीः᳚ । इषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्ववेदसा सर्वज्ञौ सर्वधनौ वा हे नरा नेतारौ वां युवां शंयु इव सुखयुक्तौ राजानाविव मंहिष्था दातृतमावतिशयेन पूज्यौ वा सन्तौ सम्नैरस्मभ्यं दातव्यैः सुखैः सार्धमा। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। आगच्छतम्। यद्वा। उपसर्गस्य भूषतमित्यनेन सम्बन्धः। मंहिष्थेत्यपि सम्बोधनम्। हे मंहिष्था दातृतमावुक्तगुनावश्विनौ वां युवां सुम्नैः सार्धं शंयू इवास्मे अस्मान् सम्यगा भूशतम्। अभिप्राप्नुतम्। भू प्राप्तौ। अस्माल्लोटि व्यत्ययेन सिप्यपौ। भूश अलङ्कारे। आ समन्तात्सम्यग्भूषतम्। अलंकुरुतम्। पिप्युषीः प्रव्रुद्धानीष इष्यमाणानि पयांस्युत्सं न। गोरूध इव। यथा बहुभिः पयोभिरूधोऽलङ्कृतं सद्दृश्यते अस्मानप्येवं बहुभिर्धनैरलङ्कुरुतमित्यर्थः। पिप्युशीरिति प्यायतेर्लिटह् क्वसुः। लिड्यङोश्चेति पीभावः। जसि वा छन्दसीति पूर्वसवर्णदीर्घः। यद्वा। उत्सः प्रवाहो यथा पिप्युषीर्व्रुद्धानीषोऽन्नान्यलङ्करोति तद्वत्॥६॥