दशमं मण्डलम् - सूक्तम् 149

5 ऋचः

ऋषिः: अर्चन् हैरण्यस्तूपः देवता: सविता छन्दः: त्रिष्टुप्

सूक्तम् 10.149 - सम्पूर्णम्

1 / 5
ऋक्: 10.149.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.149.1 समानपद
स॒वि॒ता य॒न्त्रैः पृ᳚थि॒वीम᳚रम्णादस्कम्भ॒ने स᳚वि॒ता द्याम᳚दृंहत् ।
अश्व᳚मिवाधुक्ष॒द्धुनि᳚म॒न्तरि᳚क्षम॒तूर्ते᳚ ब॒द्धं स᳚वि॒ता स᳚मु॒द्रम् ॥
▶ पदपाठः (Word-by-word)
स॒वि॒ता । य॒न्त्रैः । पृ॒थि॒वीम् । अ॒र॒म्णा॒त् । अ॒स्क॒म्भ॒ने । स॒वि॒ता । द्याम् । अ॒दृं॒ह॒त् ।
अश्व᳚म्॑इव । अ॒धु॒क्ष॒त् । धुनि᳚म् । अ॒न्तरि᳚क्षम् । अ॒तूर्ते᳚ । ब॒द्धम् । स॒वि॒ता । स॒मु॒द्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविता यन्त्रैरिति पञ्चर्चमेकविंशं सूक्तं हिरण्यस्तूपपुत्रस्यार्चत आर्षं त्रैष्टुभम् सवितृदेवत्यम्। अनुक्रान्तं च। सवितार्चन्हैरण्यस्तूपः सावित्रमिति। गतो विनियोगः॥

सविता सर्वस्य प्रसविता प्रेरको मध्यमस्थानो देवः सोऽयं यन्त्रैर्यमनसाधनैर्वृष्टिप्रदानादिभिरुपायैर्वायवीयैः पाशैर्वा पृथिवीं प्रथितां भूमिमरम्णात्। अरमयत्। सुखेनावस्थापयति। तथा स एव सवितास्कम्भने। पतनप्रतिबन्धकमालम्बनं सक्म्भनम् । तद्रहिते स्थले द्याम् द्युलोकमप्यदृंहत्। दृढीक्रुतवान्। यथाधो न पतति तथात्मीयैरेवोपायैरवस्थापितवानित्यर्थः। अश्वमिव धुनिं कम्पयितव्यं कम्पयितारं वान्तरिक्षमन्तरा क्षान्तम् मध्यमस्थानगतमतुर्ते केनाप्यहिंसितेऽत्वरमाने वा नभसि वायवीयैः पाशैर्बद्धं समुद्रं मेघमयमेव सविताधुक्षत्। उदकानि दोग्धि। यद्वा। अन्तरिक्शमिति सप्तम्यर्थे प्रथमा। अतूर्तेऽन्तरिक्षे बद्धं समुदितारं धुनिं कम्पनीयं मेघमश्वमिवाधुक्षत्। सविता क्लेशयति। धुक्श सन्दीपनक्लेशजनजीवनेषु। यथा शिक्शकोऽश्वं क्लेशयत्येवं वर्षनाय मेघं क्लेशयतीत्यर्थः। अथ निरुक्तम्। सविता यन्त्रैः पृथिवीमरमयदनारम्भणेऽन्तरिक्षे सविता द्यामदृंहदश्वमिवाधुक्षद्धुनिमन्तरिक्षे मेघं बद्धमतूर्ते बद्धमतूर्ण इति वात्वरमाण इति वा सविता समुदितारम्। नि. १०-३२। इति॥१॥

10.149.2
यत्रा᳚ समु॒द्रः स्क᳚भि॒तो व्यौन॒दपां᳚ नपात्सवि॒ता तस्य᳚ वेद ।
अतो॒ भूरत᳚ आ॒ उत्थि᳚तं॒ रजो॑तो॒ द्यावा᳚पृथि॒वी अ᳚प्रथेताम् ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । स॒मु॒द्रः । स्क॒भि॒तः । वि । औन᳚त् । अपा᳚म् । न॒पा॒त् । स॒वि॒ता । तस्य᳚ । वे॒द॒ ।
अतः᳚ । भूः । अतः᳚ । आः॒ । उत्थि᳚तम् । रजः᳚ । अतः᳚ । द्यावा᳚पृथि॒वी इति᳚ । अ॒प्र॒थे॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्नन्तरिक्षे समुद्रः समुन्दनशीलो मेघः स्कभितः स्तम्भितो वायुपाशैर्बद्धः सन् व्यौनत् विशेषेण भूमिमुनत्ति उदकैः क्लेदयति। उन्दीक्लेदने। अस्माच्छान्दसे लङि रूपमेतत्। हे अपां नपान्मध्यमस्थान वैद्युताग्ने तव सम्बन्धी सविता प्रेरको देवस्तस्य तत्स्थानं वेद। वेत्ति। जानाति। अतोऽस्मादेव सवितुर्भूर्भूमिरासीत्। अत एवोत्थितमूर्ध्वमेव स्थितं रजोऽन्तरिक्षमाः। आसीत्। अजायत। अस्तेर्लुङि बहुलं छन्दसीतीडभावः। हल्ङ्याब्भ्य इति लोपः। अतोऽस्मादेव सवितुर्द्यावापृथिवी द्यावापृथिव्यावप्रथेताम्। विस्तीर्णे अप्यभूताम्॥२॥

10.149.3
प॒श्चेदम॒न्यद᳚भव॒द्यज᳚त्र॒मम᳚र्त्यस्य॒ भुव᳚नस्य भू॒ना ।
सु॒प॒र्णो अ॒ङ्ग स᳚वि॒तुर्ग॒रुत्मा॒न्पूर्वो᳚ जा॒तः स उ᳚ अ॒स्यानु॒ धर्म᳚ ॥
▶ पदपाठः (Word-by-word)
प॒श्चा । इ॒दम् । अ॒न्यत् । अ॒भ॒व॒त् । यज᳚त्रम् । अम᳚र्त्यस्य । भुव᳚नस्य । भू॒ना ।
सु॒॑प॒र्णः । अ॒ङ्ग । स॒वि॒तुः । ग॒रुत्मा᳚न् । पूर्वः᳚ । जा॒तः । सः । ऊं॒ इति᳚ । अ॒स्य॒ । अनु᳚ । धर्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्यत्सवितृव्यतिरिक्तमिदं देवतान्तरं पश्चा पश्चात्। पश्च पश्चा च छन्दसि। पा. ५-३-३३। इति निपात्यते। सवितृप्रेरणानन्तरमेव यजत्रं यष्टव्यमभवत्। केन साधनेन। अमर्त्यस्य मरणरहितस्य भुवनस्य लोकस्य स्वर्गाख्यस्य सम्बन्धिना भूना भूतेन स्वर्ग उत्पन्नेन सोमेनेत्यर्थः। यद्वा अमर्त्यस्य भुवनस्य सम्बन्धीदं देवतान्तरं भूना भूम्ना बहुत्वेन युक्तं यष्टव्यमभवत्। कुत इत्यत आह। हे अङ्ग स्तोतः सुपर्नः शोभनपतनो गुरुत्मान्सोमस्यापहर्ता तार्क्ष्यः सवितुः प्रेरकादस्माद्देवात्पूर्वं प्रथमभावी सञ्जातः। अतो हेतोः सुपर्णो गुरुत्मानस्य सवितुर्धर्म धारनमनुसृत्य वर्तते। सवितृप्रेरणाधीनत्वात्सर्वगतीनां सोमाहरणमपि तदधीनमिति सवितृप्रेरणानन्तरमेव सर्वे सोमयागाः प्रवर्तन्त इत्यर्थः। उ इति पूरकः॥३॥

10.149.4
गाव᳚ इव॒ ग्रामं॒ यूयु᳚धिरि॒वाश्वा᳚न्वा॒श्रेव᳚ व॒त्सं सु॒मना॒ दुहा᳚ना ।
पति᳚रिव जा॒याम॒भि नो॒ न्ये᳚तु ध॒र्ता दि॒वः स᳚वि॒ता वि॒श्ववा᳚रः ॥
▶ पदपाठः (Word-by-word)
गावः᳚॑इव । ग्राम᳚म् । युयु᳚धिः॑इव । अश्वा᳚न् । वा॒श्रा॑इ᳚व । व॒त्सम् । सु॒॑मनाः᳚ । दुहा᳚ना ।
पतिः᳚॑इव । जा॒याम् । अ॒भि । नः॒ । नि । ए॒तु॒ । ध॒र्ता । दि॒वः । स॒वि॒ता । वि॒श्व॑वा᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गाव इव यथारण्ये सञ्चरन्तो गावो ग्रामं शीघ्रमभिगच्छन्ति। युयुधिरिव यथा च युद्धार्थमश्वानभिगच्छति। युध सम्प्रहारे। आदृगमहनजनेत्यत्रोत्सर्गश्छन्दसि। पा. ३-२-१७१-२। इति वचनात्किन्प्रत्ययः। छान्दसं सांहितिकमभ्यासदीर्घत्वम्। सुमनाः शोभनमनस्का दुहाना दोग्ध्री बहुपयस्का वाश्रेव हंभारवात्मकं शब्दं कुर्वती गौर्यथात्मीयं वत्समभिगच्छति। पतिरिव यथा भर्ता जायाम् स्वभार्यां शीघ्रमभिगच्छति एवमेव सविता नोऽस्मान्न्यभ्येतु। नितरामभिगच्छतु। कीदृशः। दिवो द्युलोकस्य धर्ता धारयितावस्थापयिता वा अत एव विश्वावारः सर्वैर्वरणीयः॥४॥

10.149.5
हिर᳚ण्यस्तूपः सवित॒र्यथा᳚ त्वाङ्गिर॒सो जु॒ह्वे वाजे᳚ अ॒स्मिन् ।
ए॒वा त्वार्च॒न्नव᳚से॒ वन्द᳚मान॒ः सोम᳚स्येवां॒शुं प्रति᳚ जागरा॒हम् ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑स्तूपः । स॒वि॒तः॒ । यथा᳚ । त्वा॒ । आ॒ङ्गि॒र॒सः । जु॒ह्वे । वाजे᳚ । अ॒स्मिन् ।
ए॒व । त्वा॒ । अर्च᳚न् । अव᳚से । वन्द᳚मानः । सोम᳚स्य॑इव । अं॒शुम् । प्रति᳚ । जा॒ग॒र॒ । अ॒हम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितः प्रेरकत्वा त्वामाङ्गिरसोऽङ्गिरसः पुत्रो हिरण्यस्तूपो मम पितास्मिन्वाजेऽन्ने निमित्तभूते सति यथा जुह्वे अहुतवान् एवैवमर्चन्नेतत्संज्ञोऽहं त्वा त्वामवसेऽवनाय रक्षणार्थं वन्दमानः स्तुवन् आह्वयामिति शेषः। आहूय च सोमस्येवांशुं यथा सोमलतां प्रति यजमाना जाग्रति यागपर्यन्तं तद्रक्षणे प्रबुद्धा वर्तन्ते तथाहं त्वत्परिचर्यां प्रति जागर। जागर्मि। जागर्तेर्णल्युत्तमैकवचने रूपम्। अत्र निरुक्तम्। हिरण्यसूपो हिरण्यमयस्तूपो हिरण्यमहः स्तूपोऽस्येति वा। स्तूपः स्त्त्यायतेः सङ्घातः। सवितर्यथा त्वाङ्गिरसो जुह्वे वाजेऽन्नेऽस्मिन्नेवं त्वार्चन्नवनाय वन्दमानः सोमस्येवांशुं प्रतिजागर्म्यहम्। नि. १०-३३। इति॥५॥