श्रवणम्

10.149.5
हिर᳚ण्यस्तूपः सवित॒र्यथा᳚ त्वाङ्गिर॒सो जु॒ह्वे वाजे᳚ अ॒स्मिन् ।
ए॒वा त्वार्च॒न्नव᳚से॒ वन्द᳚मान॒ः सोम᳚स्येवां॒शुं प्रति᳚ जागरा॒हम् ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑स्तूपः । स॒वि॒तः॒ । यथा᳚ । त्वा॒ । आ॒ङ्गि॒र॒सः । जु॒ह्वे । वाजे᳚ । अ॒स्मिन् ।
ए॒व । त्वा॒ । अर्च᳚न् । अव᳚से । वन्द᳚मानः । सोम᳚स्य॑इव । अं॒शुम् । प्रति᳚ । जा॒ग॒र॒ । अ॒हम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितः प्रेरकत्वा त्वामाङ्गिरसोऽङ्गिरसः पुत्रो हिरण्यस्तूपो मम पितास्मिन्वाजेऽन्ने निमित्तभूते सति यथा जुह्वे अहुतवान् एवैवमर्चन्नेतत्संज्ञोऽहं त्वा त्वामवसेऽवनाय रक्षणार्थं वन्दमानः स्तुवन् आह्वयामिति शेषः। आहूय च सोमस्येवांशुं यथा सोमलतां प्रति यजमाना जाग्रति यागपर्यन्तं तद्रक्षणे प्रबुद्धा वर्तन्ते तथाहं त्वत्परिचर्यां प्रति जागर। जागर्मि। जागर्तेर्णल्युत्तमैकवचने रूपम्। अत्र निरुक्तम्। हिरण्यसूपो हिरण्यमयस्तूपो हिरण्यमहः स्तूपोऽस्येति वा। स्तूपः स्त्त्यायतेः सङ्घातः। सवितर्यथा त्वाङ्गिरसो जुह्वे वाजेऽन्नेऽस्मिन्नेवं त्वार्चन्नवनाय वन्दमानः सोमस्येवांशुं प्रतिजागर्म्यहम्। नि. १०-३३। इति॥५॥