श्रवणम्

10.149.4
गाव᳚ इव॒ ग्रामं॒ यूयु᳚धिरि॒वाश्वा᳚न्वा॒श्रेव᳚ व॒त्सं सु॒मना॒ दुहा᳚ना ।
पति᳚रिव जा॒याम॒भि नो॒ न्ये᳚तु ध॒र्ता दि॒वः स᳚वि॒ता वि॒श्ववा᳚रः ॥
▶ पदपाठः (Word-by-word)
गावः᳚॑इव । ग्राम᳚म् । युयु᳚धिः॑इव । अश्वा᳚न् । वा॒श्रा॑इ᳚व । व॒त्सम् । सु॒॑मनाः᳚ । दुहा᳚ना ।
पतिः᳚॑इव । जा॒याम् । अ॒भि । नः॒ । नि । ए॒तु॒ । ध॒र्ता । दि॒वः । स॒वि॒ता । वि॒श्व॑वा᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गाव इव यथारण्ये सञ्चरन्तो गावो ग्रामं शीघ्रमभिगच्छन्ति। युयुधिरिव यथा च युद्धार्थमश्वानभिगच्छति। युध सम्प्रहारे। आदृगमहनजनेत्यत्रोत्सर्गश्छन्दसि। पा. ३-२-१७१-२। इति वचनात्किन्प्रत्ययः। छान्दसं सांहितिकमभ्यासदीर्घत्वम्। सुमनाः शोभनमनस्का दुहाना दोग्ध्री बहुपयस्का वाश्रेव हंभारवात्मकं शब्दं कुर्वती गौर्यथात्मीयं वत्समभिगच्छति। पतिरिव यथा भर्ता जायाम् स्वभार्यां शीघ्रमभिगच्छति एवमेव सविता नोऽस्मान्न्यभ्येतु। नितरामभिगच्छतु। कीदृशः। दिवो द्युलोकस्य धर्ता धारयितावस्थापयिता वा अत एव विश्वावारः सर्वैर्वरणीयः॥४॥