दशमं मण्डलम् - सूक्तम् 120

9 ऋचः

ऋषिः: बृहद्दिव आथर्वणः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.120 - सम्पूर्णम्

1 / 9
ऋक्: 10.120.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
10.120.1
तदिदा᳚स॒ भुव᳚नेषु॒ ज्येष्ठं॒ यतो᳚ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ᳚म्णः ।
स॒द्यो ज᳚ज्ञा॒नो नि रि᳚णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमा᳚ः ॥
▶ पदपाठः (Word-by-word)
तत् । इत् । आ॒स॒ । भुव᳚नेषु । ज्येष्ठ᳚म् । यतः᳚ । ज॒ज्ञे । उ॒ग्रः । त्वे॒ष॑नृ᳚म्णः ।
स॒द्यः । ज॒ज्ञा॒नः । नि । रि॒णा॒ति॒ । शत्रू᳚न् । अनु᳚ । यम् । विश्वे᳚ । मद᳚न्ति । ऊमाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्राष्टमाष्टके षष्थाद्यायम् व्याख्याय सप्तम्याध्याय आरभ्यते। दशममण्डलस्य दशमेऽनुवाके सूक्तसप्तकं व्याख्यातम्। तदिदिति नवर्चमष्टमं सूक्तमथर्वनः पुत्रस्य बृहद्दिवस्यार्षं त्रैष्टुभमैन्द्रम्। तथाचानुक्रान्तम्। तदिन्नवाथर्वणो बृहद्दिव इति। चातुर्विंशिकेऽहनि निष्केवल्य इदं सूक्तम्। सूत्रितं च। तदिदासेति च पुरस्तात्सूक्तस्य शंसेत्। आ. ७-३। इति। व्योमविश्वदेवस्तुत्पञ्चशारदीयेष्वप्येकाहेष्विदमेव निष्केवल्यनिविद्धानम्। सुत्रितं च। एतेषाम् त्रयानां कया शुभा तदिदासेति मध्यन्दिनः। आ. ९-८। इति। राशिमरायाख्ययोरेकाहयोरपीदं निष्केवल्यनिविद्धानम्। सूत्रितं च। राशिमराययोश्च कयाशुभीयतदिदासीये। आ. ९-८। महाव्रते निष्केवल्येऽप्येतत्सूक्तम्। तथैव पञ्चमारण्यके शौनकेन सूत्रितम्। तदिदास भवनेषु ज्येष्ठं तां सुते कीर्तिं मघवन्महित्वा। ऐ. आ. ५-१-६। इति॥

तज्जगत्कारनत्वेन सर्ववेदान्तप्रसिद्धम्। इच्छब्दोऽवधारणे। भुवनेषु। भू सत्तायाम्। सत्सु पृथिव्यादिषु लोकेशु मध्ये जगत्कारणं ब्रह्मैव ज्येष्थं प्रशस्ततममास। बभूव। तस्य परमार्थत्वात् तद्व्यतिरिक्तानां व्यावहारिकत्वाच्च। यद्वा ज्यैष्थं वृद्धतमं जगत्कारनत्वेन सर्वेषामादिभूतं बभूव। अस्तेर्लिटि च्छन्दस्युभयथेति सार्वधातुकत्वादस्तेर्भूः। पा. २-४-५२। इति भूभावाभावः। यद्वा वृद्धम् तदेव ब्रह्म स्वप्रकाशतयास। दिदीपे। अस गतिदीप्त्यादानेषु। अस्मालिटि रूपम्। यत उपादानभूताद्यस्माद्ब्रह्मण उग्र उद्गूर्णस्त्वेषनृम्णः प्रदीप्तबलः सूर्यात्मक इन्द्रो जज्ञे जातो बभूव। श्रूयते हि। चक्षोः सूर्यो अजायत। ऋ.११-९०-१३। इति। सूर्याचन्द्रमसौ धाता यथपूर्वमकल्पयत्। ऋ. १०-१९०-३। इति च। जनिकर्तु प्रकृतिः। पा. १-४-३०। इति प्रकृतेरपादानसंज्ञायां यत इति पञ्चमी। जनेर्लिटि गमहनेत्यादिनोपधालोपः। द्विर्वचनेऽचेति तस्य स्थानिवद्भावाद्द्विर्वचनादि। यद्वृत्तान्नित्यमिति निघात प्रतिषेधः। स च जज्ञानो जायमान एव सद्यः शीघ्रं शत्रूञ्शातयितॄन्मन्देहादीन्राक्षसन्नि रिनाति। निहिनस्ति। यद्वा। उपासकानां पापरूपाञ्शत्रून्निहन्ति। तथा च ब्राह्मनम्। सद्यो ह्येष जातः पप्मानमपाहत। ऐ. आ. १-३-४। इति। जज्ञान इति जनेर्लिटि कानचि रूपमेतत्। रिनाति। री गतिरेषनयोः क्र्यादिः। प्वादीनां ह्रस्व इति ह्रस्वत्वम्। विश्वे सर्वे ऊमाः । अवन्ति रक्षन्तीत्यूमाः प्राणिनः। अवतेरौणादिको मन्प्रत्ययः। ज्वरत्वरेत्यादिना वकारोपधयोः स्थान ऊट्। सर्वे प्राणिनो यं सूर्यात्मकमुद्यन्तमिन्द्रमनुलक्ष्य मदर्थमुदगान्मदर्थमुदगादिति मदन्ति हृष्यन्ति। मदीहर्षे। व्यत्ययेन शप्। तथा च ब्राह्मणम्। भूतानि वै विश्व ऊमास्त एनमनुमदन्त्युदगादुदगादिति। ऐ. आ. १-३-४। इति। तैत्तिरीयकम् च। तस्मात्सर्व एव मन्यन्ते मां प्रत्युदगादिति। यद्वा। यम् स्तुत्यादिभिर्माद्यन्तमनु पश्चात्सर्वे प्राणिनोऽभीष्टप्राप्त्या हृष्यन्ति। अनुर्लक्षणे। पा. १-४-८४। इत्यनोः कर्मप्रवचनीयत्वात्कर्मप्रवचनीययुक्त इति द्वितीया। स इन्द्रो जज्ञ इत्यन्वयः॥१॥

10.120.2
वा॒वृ॒धा॒नः शव᳚सा॒ भूर्यो᳚जा॒ः शत्रु᳚र्दा॒साय᳚ भि॒यसं᳚ दधाति ।
अव्य᳚नच्च व्य॒नच्च॒ सस्नि॒ सं ते᳚ नवन्त॒ प्रभृ᳚ता॒ मदे᳚षु ॥
▶ पदपाठः (Word-by-word)
व॒वृ॒धा॒नः । शव᳚सा । भूरि᳚॑ओजाः । शत्रुः᳚ । दा॒साय᳚ । भि॒यस᳚म् । द॒धा॒ति॒ ।
अवि᳚॑अनत् । च॒ । वि॒॑अ॒नत् । च॒ । सस्नि᳚ । सम् । ते॒ । न॒व॒न्त॒ । प्र॑भृ᳚ता । मदे᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

शवसा बलेन ववृधानो वर्धमानः अत एव भुर्योजा बहुबलः शत्रुः शातयितेन्द्रो दासायोपक्षयकारिणे शत्रवे भियसम् भीतिं दधाति। विदधाति। करोति। अव्यनत्। विविधमनिति श्वसितीति व्यनत् प्रानवज्जङ्गमम्। तद्विलक्षनमव्यनत् स्थावतम्। तदुभयमपि सस्नि संस्नातमिन्द्रेण सम्यक्भोधितं भवति। स्नातेरादृगमहन इति। व्यत्ययेन कर्मणि किन्प्रत्ययः। यद्वा। अन्तर्णीतण्यर्थात्कर्तर्येव किन्। वृष्ट्यादिना सम्यक् स्नापयिता शोधयिता भवति। न लोकाव्ययेति कर्मणि ष्ष्थ्याः प्रतिषेधः। शिष्टः पादः प्रत्यक्षकृतः। हे इन्द्र ते तव मदेषु हर्षेषु हविषा स्तुत्या च जातेषु सत्सु प्रभृता प्रभृतानि प्रकर्षेण धृतानि पोषितानि वा सर्वाणि भूतजातानि संनवन्त। सङ्गच्छन्ते। स्तोतुं हवींशि च दातुं समूहीभवन्तीत्यर्थः। नवतिर्गतिकर्मा। प्रभृता। बिभर्तेः कर्मणि निष्था। शेश्छन्दसि बहुलमिति शेर्लोपः। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्॥२॥

10.120.3 समानपद
त्वे क्रतु॒मपि᳚ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमा᳚ः ।
स्वा॒दोः स्वादी᳚यः स्वा॒दुना᳚ सृजा॒ सम॒दः सु मधु॒ मधु᳚ना॒भि यो᳚धीः ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । क्रतु᳚म् । अपि᳚ । वृ॒ञ्ज॒न्ति॒ । विश्वे᳚ । द्विः । यत् । ए॒ते । त्रिः । भव᳚न्ति । ऊमाः᳚ ।
स्वा॒दोः । स्वादी᳚यः । स्वा॒दुना᳚ । सृ॒ज॒ । सम् । अ॒दः । सु । मधु᳚ । मधु᳚ना । अ॒भि । यो॒धीः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वे त्वयि। सुपां सुलुगिति सप्तम्येकवचनस्य शे आदेशः। विश्वे सर्वे यजमानाः क्रतुमनुष्ठेयं कर्म वृञ्जन्ति। समापयन्ति। अपिशब्दो ब्राह्मणोक्तसर्वभूतानां सर्वमनसां समुच्चयार्थः। सर्वाणि पृथिव्यादीनि भूतानि सर्वेषां प्राणिनां मनांसि सर्वे यज्ञक्रतवश्च व्याप्ते त्वय्येव यजमानैः परिसमाप्यन्त इत्यर्थः। तथा च ब्राह्मणम्। त्वयीमानि सर्वाणि भूतानि सर्वाणि मनांसि सर्वे क्रतवोऽपि वृञ्जन्तीत्येव तदाह। ऐ. आ. १-३-४। इति। यद्यस्मादेत ऊमास्तर्पकाः। अवतेस्तर्पणार्थादौणादिको मन्प्रत्ययः। ज्वरत्वरेत्यादिना वकारोपधयोरुट्। ईदृशा यजमानाः पूर्वमेकाकिनः सन्तः पश्चाद्द्विर्द्विवारम् स्त्रीरूपेन पुंरूपेण च जाताः सन्तः पुनरपत्येन सार्धं त्रिर्त्रिवारं जन्मभाजो भवन्ति। एक एवात्मास्त्रीपुंरूपेण जायते। अर्धो वा एष आत्मनो यत्पत्नीति श्रुतेः। पुत्रोऽप्यात्मैव। आत्मा वै पुत्रनामासि। शत. १४-९-४-२६। इति श्रुतेः। यत एवमेतेऽभिवृद्धा भवन्ति। ततोऽवगम्यते त्वय्येवानुष्थितं सर्वम् कर्म परिसमापयन्तीति। तथा च ब्राह्मणम्। दौ वै सन्तौ मिथुनौ प्रजायेते प्रजात्यै। ऐ. आ. १-३-४। इति। हे इन्द्र त्वं स्वादोः प्रियाद्गृहधनादेरपि स्वादीयः स्वादुतरम् प्रियतरमपत्यं स्वादुना स्वादुभूतेन मिथुनेन मातापित्रात्मकेन सं स्रुज। संयोजय। यद्वा। स्वादुना स्वादुभूतेन मिथुनेन मातापित्रात्मकेन सं सृज। संयोजय। यद्वा। स्वादुना भावेनोत्पन्नं तदपत्यमपि संयोजय। एतदेवाह। अदस्तदपत्यं मधुमधुरं मधुना मदहेतुना मिथुनान्तरेण पौत्रेण वा सु सुष्थ्वभि योधीः। अभियोधय। अभितः क्रिडय। धातूनामनेकार्थत्वाद्युध्यतिरत्र क्रीडार्थे वर्तते। मिथुनं वै स्वादु प्रजा स्वादु। ऐ. आ. १-३-४। इत्यादि ब्राह्मनमत्रानुसन्धेयम्॥३॥

10.120.4
इति᳚ चि॒द्धि त्वा॒ धना॒ जय᳚न्तं॒ मदे᳚मदे अनु॒मद᳚न्ति॒ विप्रा᳚ः ।
ओजी᳚यो धृष्णो स्थि॒रमा त᳚नुष्व॒ मा त्वा᳚ दभन्यातु॒धाना᳚ दु॒रेवा᳚ः ॥
▶ पदपाठः (Word-by-word)
इति᳚ । चि॒त् । हि । त्वा॒ । धना᳚ । जय᳚न्तम् । मदे᳚॑मदे । अ॒नु॒॑मद᳚न्ति । विप्राः᳚ ।
ओजी᳚यः । धृ॒ष्णो॒ इति᳚ । स्थि॒रम् । आ । त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । या॒तु॒॑धानाः᳚ । दुः॒॑एवाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इति चिद्ध्येवमेव खलु हे इन्द्र मदे मदे सोमपानजन्ये हर्षे सति धना शत्रुधनानि यजन्तं जयेन प्राप्नुवन्तम् त्वामनु पश्चात्। लक्षणेऽनोः कर्मप्रवचनीयत्वम्। विप्रा मेधाविनः स्तोतारो मदन्ति हृष्यन्ति यद्वा त्वामनुवदन्ति अनुक्रमेन स्तुवन्ति। मदतिः स्तुतिकर्मा। हि चेति निघातप्रतिषेधः। हे धृष्णो शत्रूणां धर्षयितरिन्द्र। त्रसिगृधिधृशिक्शिपेः क्नुः। ओजीयः। ओजस्विशब्ददीयसुनिविन्मतोर्लुगिति विनो लुक्। टेरिति टिलोपः। बलवत्तरम् अत एव स्थिरम् दृढं धनमा तनुष्व। अहितोऽस्मदर्थं विस्तारय। त्वा त्वां च मा दभन् मा हिंसन्तु दुरेवा दुर्गतयो यातुधाना राक्षसाः॥४॥

10.120.5
त्वया᳚ व॒यं शा᳚शद्महे॒ रणे᳚षु प्र॒पश्य᳚न्तो यु॒धेन्या᳚नि॒ भूरि᳚ ।
चो॒दया᳚मि त॒ आयु᳚धा॒ वचो᳚भि॒ः सं ते᳚ शिशामि॒ ब्रह्म᳚णा॒ वयां᳚सि ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । व॒यम् । शा॒श॒द्म॒हे॒ । रणे᳚षु । प्र॒॑पश्य᳚न्तः । यु॒धेन्या᳚नि । भूरि᳚ ।
चो॒दया᳚मि । ते॒ । आयु᳚धा । वचः᳚॑भिः । सम् । ते॒ । शि॒शा॒मि॒ । ब्रह्म᳚णा । वयां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वयानुगृहीता वयं रणेषु सङ्ग्रामेषु शाशद्महे। भृशं शत्रूञ्शातयामः। शद्लु शातने। अस्माद्यङन्तान्महिङश्छन्दस्युभयथेत्यार्धधातुकत्वादतोलोपयलोपौ। किं कुर्वन्तः। युधेन्यानि योधनार्हाणि। कृत्यार्थे तवैकेन्केन्यत्वन इति युधेरर्हार्थे केन्यप्रत्ययः। भूरि बहूनि बहुलानि। सुपां सुलुगिति शसो लुक्। प्रपश्यन्तः प्रकर्षेण जानन्तः। अपि च ते तवायुधायुधान्यायोधनसाधनानि वज्रादीनि। शेश्चन्दसि बहुलमिति शेर्लोपः। वचोभिः स्तुतिभिश्चोदयामि। शत्रून्प्रति प्रेरयामि। ते त्वदर्थं ब्रह्मणा मन्त्रेण स्तुतिरूपेण सहितानि वयांसि। अन्ननामैतत्। हविर्लक्शणान्यन्नानि सं शिशामि। सम्यग्निश्यामि। संस्करोमीत्यर्थः। शो तनूकरणे। छान्दसो विकरणस्य श्लुः। बहुलं छन्दसीत्यभ्यासस्येत्वम्॥५॥

10.120.6
स्तु॒षेय्यं᳚ पुरु॒वर्प᳚स॒मृभ्व᳚मि॒नत᳚ममा॒प्त्यमा॒प्त्याना᳚म् ।
आ द᳚र्षते॒ शव᳚सा स॒प्त दानू॒न्प्र सा᳚क्षते प्रति॒माना᳚नि॒ भूरि᳚ ॥
▶ पदपाठः (Word-by-word)
स्तु॒षेय्य᳚म् । पु॒रु॒॑वर्प᳚सम् । ऋभ्व᳚म् । इ॒न॑त᳚मम् । आ॒प्त्यम् । आ॒प्त्याना᳚म् ।
आ । द॒र्ष॒ते॒ । शव᳚सा । स॒प्त । दानू᳚न् । प्र । सा॒क्ष॒ते॒ । प्र॒ति॒॑माना᳚नि । भूरि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्तुषेय्यं स्तोतव्यम्। स्तवः क्सेय्यश्छन्दसि। उ. ३-९९। इत्यौणादिकः क्सेय्यप्रत्ययः। पुरुवर्पसं बहुरूपम्रुभ्वमुरु भासमानमुरुभूतं वेनतममतिशयेनेश्वरमाप्त्यानामाप्तव्यानां मध्य आत्प्यमाप्तव्यं एवंभूतमिन्द्रं स्त्ॐईति शेषः। य मिन्रः शवसा बलेन सप्त सप्त सङ्ख्याकान्दानान्दानवान्वृत्रनमुचिकुयवादीना दर्षये आदृणाति हिनस्ति। दॄ विदारणे। अस्माल्लेटि व्यत्ययेनात्मने पदम्। लेटोऽडाटावित्यडागमः। सिब्बहुलमिति सिप्। तथा प्रतिमानान्यसुरानां प्रतिरूपाणि भूति भूरीणि बहून्यसुरबलानि प्र साक्शते य इन्द्रः प्रसहते। यद्वा। बहूनि प्रतिमानन्यसुराणां स्थानानि प्रसाक्षते प्राप्नोति। साक्षतिराप्नोतिकर्मेति यास्कः। नि. ११-१२। षह अभिभवे। लेट्यडागमः। सिब्बहुलमिति सिप्। टत्वकत्वषत्वानि। छान्दसो दीर्घः॥६॥

10.120.7
नि तद्द᳚धि॒षे॑व᳚रं॒ परं᳚ च॒ यस्मि॒न्नावि॒थाव᳚सा दुरो॒णे ।
आ मा॒तरा᳚ स्थापयसे जिग॒त्नू अत᳚ इनोषि॒ कर्व᳚रा पु॒रूणि᳚ ॥
▶ पदपाठः (Word-by-word)
नि । तत् । द॒धि॒षे॒ । अव᳚रम् । पर᳚म् । च॒ । यस्मि᳚न् । आवि᳚थ । अव᳚सा । दु॒रो॒णे ।
आ । मा॒तरा᳚ । स्था॒प॒य॒से॒ । जि॒ग॒त्नू इति᳚ । अतः᳚ । इ॒नो॒षि॒ । कर्व᳚रा । पु॒रूणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्तस्मिन्यजमानस्य गृहेऽवरमल्पं भ्ॐअं धनं परमुत्कृष्टम् दिवि भवं धनं च हे इन्द्र त्वं न दधिषे। निदधासि। निक्शिपसि। यस्मिन्दुरोणे ग्रुहेऽवस अन्ननामैतत्। तर्पकेणान्नेन हविर्लक्षणेनाविथ अवसि तृप्यसि। अवतेस्तृप्त्यर्थाच्छन्दसि लुङ् लङ् लिटि इति सार्वकालिको लिट्। अत आदेरित्यभ्यासस्यात्वम्। यद्वृत्तान्नित्यमिति निघातप्रतिषेधः। अपि च मातरा सकलस्य भूतजातस्य निर्मात्र्यौ द्यावापृथिव्यौ जिगत्नू गमनशीले इतस्ततः प्रचलन्त्यावा स्थापयसे। स्वकीये स्थानेऽवस्थापयसि। नैश्चल्येन यथावतिष्ठेति तथा करोषीत्यर्थः। विष्वक्तस्तम्भ पृथिवीमुत द्यामिति निगमान्तरम्। ऋ. १०-८९-४। हे इन्द्र अतः कारनात्पुरूणि बहूनि कर्वरा। कर्मनामैतत्। कर्वरानि। शेश्चन्दसि बहुलमिति शेर्लोपः। कर्माणिलौकिकानि वैदिकानि चेनोषि। प्राप्नोषि। इण् गतौ। व्यत्ययेन श्नुः॥७॥

10.120.8
इ॒मा ब्रह्म᳚ बृ॒हद्दि᳚वो विव॒क्तीन्द्रा᳚य शू॒षम᳚ग्रि॒यः स्व॒र्षाः ।
म॒हो गो॒त्रस्य᳚ क्षयति स्व॒राजो॒ दुर᳚श्च॒ विश्वा᳚ अवृणो॒दप॒ स्वाः ॥
▶ पदपाठः (Word-by-word)
इ॒मा । ब्रह्म᳚ । बृ॒हत्॑दि᳚वः । वि॒व॒क्ति॒ । इन्द्रा᳚य । शू॒षम् । अ॒ग्रि॒यः । स्वः॒॑साः ।
म॒हः । गो॒त्रस्य᳚ । क्ष॒य॒ति॒ । स्व॒॑राजः᳚ । दुरः᳚ । च॒ । विश्वाः᳚ । अ॒वृ॒णो॒त् । अप᳚ । स्वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहद्दिव ऋषिरिमेमानि ब्रह्म ब्रह्माणीन्द्राय शूशं सुखं यथा भवति तथा विवक्ति। प्रब्रवीतीत्यात्मन एव परोक्षनिर्देशः। वच परिभाषणे आदादिकः। छान्दसः शपः श्लुः। बहुलं छन्दसीत्यभ्यासस्येत्वम्। ऋषिर्विशेष्यते। अग्रियोऽग्रे भवः। ऋषीणां प्रमुखः श्रेष्थ इत्यर्थः। घच्छौ च। पा. ४-४-११७। इत्यग्रशब्दाद्भवार्थे घच्। स्वर्षाः स्वर्गस्य सम्भक्ता। यद्वा। स्वरादित्य इन्द्रः। असौ वा आदित्य इन्द्र इति श्रुत्यन्तरात्। तस्य सम्भक्ता सेवक इत्यर्थः। वन षण सम्भक्तौ। जनसनखनक्रमगमो विट्। विड्वनोरनुनासिकस्यादित्वात्वम्। सनोतेरन इति षत्वम्। य इन्द्रो महो महतो गोत्रस्य पर्वतस्य वलेनासुरेण गवां पिधानार्थं निहितस्य स्वराजः स्वयमेव राजमानस्य। क्रियाग्रहणं कर्तव्यमिति। क्षि क्षये भौवादिकः। यद्वा। गोशब्दात्समूहार्थ इनित्रकट्यचश्च। पा. ४-२-५१। इति त्रप्रत्ययः। गोत्रस्य गोसमूहस्य महो महतः स्वराजः स्वयमेव राजमानस्य य इन्द्रः क्षयति ईष्टे। क्षयतिरैश्वर्यकर्मा। स्वशब्दोपपदाद्राजतेः सत्सूद्विषेति क्विप्। कृदुत्तरपदप्रकृतिस्वरत्वम्। दुरश्च बिलद्वाराणि च विश्वाः सर्वाः स्वा वलासुरस्य स्वभूता अपावृणोत्। अपगतावरणा अकरोत्। उद्घाटितवानित्यर्थः। यद्वा। दुरश्चापावृणोत् विश्वा सर्वाः स्वाः स्वभूता गा बिलमध्ये वर्तमाना अलभतेति शेषः। एवंभुतो य इन्द्रस्तस्मा इन्द्राय विवक्तीत्यन्वयः॥८॥

10.120.9
ए॒वा म॒हान्बृ॒हद्दि᳚वो॒ अथ॒र्वावो᳚च॒त्स्वां त॒न्व१॒᳚मिन्द्र᳚मे॒व ।
स्वसा᳚रो मात॒रिभ्व᳚रीररि॒प्रा हि॒न्वन्ति᳚ च॒ शव᳚सा व॒र्धय᳚न्ति च ॥
▶ पदपाठः (Word-by-word)
ए॒व । म॒हान् । बृ॒हत्॑दि᳚वः । अथ᳚र्वा । अवो᳚चत् । स्वाम् । त॒न्व᳚म् । इन्द्र᳚म् । ए॒व ।
स्वसा᳚रः । मा॒त॒रिभ्व᳚रीः । अ॒रि॒प्राः । हि॒न्वन्ति᳚ । च॒ । शव᳚सा । व॒र्धय᳚न्ति । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महान्गुणैरधिकोऽथर्वा। उपचाराज्जन्ये जनकशब्दः। अथर्वणः पुत्रो बृहद्दिवाख्य ऋषिर्देवेशु मध्य इन्द्रमेव प्रति स्वामात्मीयां तन्वं विस्तृतां स्तुतिमेवमवोचत्। प्रोक्तवान्। वचेर्लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः। वच उमित्युमागमः। पादादित्वान्न निहन्यते। अपि चैनमेवेन्द्रं मारिभ्वरीर्मातरि सकलस्य भूतजातस्य निर्मात्र्यां भूमौ भवन्त्यो वर्तमानाः। भवतेरन्येभ्योऽपि द्रुश्यन्त इति वनिप्। वनो र चेति ङीभ्रेफौ। जसि वा छन्दसीति पुर्वसवर्णदीर्घः। प्रुषोदरादित्वाद्वर्णलोपः। अरिप्रा अपापाः स्वसारः स्वयमेव सरन्त्यः परस्परं भगिन्यो वा गङ्गाद्या नद्यो हिन्वन्ति। यागसाधनत्वेन प्रीणयन्ति। हिविः प्रीणनार्थः। भौवादिकः। व्यत्ययेन शः। इदित्त्वान्नुम्। यद्वा। हि गतौ वृद्धौ च। स्वादिभ्यः श्नुः। वृष्त्यर्थं तमिन्द्रमुपगच्छन्ति। गत्वा च शवसा यागजन्येन बलेन्द् तं वर्धयन्ति च॥९॥