श्रवणम्

10.120.7
नि तद्द᳚धि॒षे॑व᳚रं॒ परं᳚ च॒ यस्मि॒न्नावि॒थाव᳚सा दुरो॒णे ।
आ मा॒तरा᳚ स्थापयसे जिग॒त्नू अत᳚ इनोषि॒ कर्व᳚रा पु॒रूणि᳚ ॥
▶ पदपाठः (Word-by-word)
नि । तत् । द॒धि॒षे॒ । अव᳚रम् । पर᳚म् । च॒ । यस्मि᳚न् । आवि᳚थ । अव᳚सा । दु॒रो॒णे ।
आ । मा॒तरा᳚ । स्था॒प॒य॒से॒ । जि॒ग॒त्नू इति᳚ । अतः᳚ । इ॒नो॒षि॒ । कर्व᳚रा । पु॒रूणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्तस्मिन्यजमानस्य गृहेऽवरमल्पं भ्ॐअं धनं परमुत्कृष्टम् दिवि भवं धनं च हे इन्द्र त्वं न दधिषे। निदधासि। निक्शिपसि। यस्मिन्दुरोणे ग्रुहेऽवस अन्ननामैतत्। तर्पकेणान्नेन हविर्लक्षणेनाविथ अवसि तृप्यसि। अवतेस्तृप्त्यर्थाच्छन्दसि लुङ् लङ् लिटि इति सार्वकालिको लिट्। अत आदेरित्यभ्यासस्यात्वम्। यद्वृत्तान्नित्यमिति निघातप्रतिषेधः। अपि च मातरा सकलस्य भूतजातस्य निर्मात्र्यौ द्यावापृथिव्यौ जिगत्नू गमनशीले इतस्ततः प्रचलन्त्यावा स्थापयसे। स्वकीये स्थानेऽवस्थापयसि। नैश्चल्येन यथावतिष्ठेति तथा करोषीत्यर्थः। विष्वक्तस्तम्भ पृथिवीमुत द्यामिति निगमान्तरम्। ऋ. १०-८९-४। हे इन्द्र अतः कारनात्पुरूणि बहूनि कर्वरा। कर्मनामैतत्। कर्वरानि। शेश्चन्दसि बहुलमिति शेर्लोपः। कर्माणिलौकिकानि वैदिकानि चेनोषि। प्राप्नोषि। इण् गतौ। व्यत्ययेन श्नुः॥७॥