इति᳚ चि॒द्धि त्वा॒ धना॒ जय᳚न्तं॒ मदे᳚मदे अनु॒मद᳚न्ति॒ विप्रा᳚ः ।
ओजी᳚यो धृष्णो स्थि॒रमा त᳚नुष्व॒ मा त्वा᳚ दभन्यातु॒धाना᳚ दु॒रेवा᳚ः ॥
ओजी᳚यो धृष्णो स्थि॒रमा त᳚नुष्व॒ मा त्वा᳚ दभन्यातु॒धाना᳚ दु॒रेवा᳚ः ॥
पदपाठः (Word-by-word)
इति᳚ । चि॒त् । हि । त्वा॒ । धना᳚ । जय᳚न्तम् । मदे᳚॑मदे । अ॒नु॒॑मद᳚न्ति । विप्राः᳚ ।
ओजी᳚यः । धृ॒ष्णो॒ इति᳚ । स्थि॒रम् । आ । त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । या॒तु॒॑धानाः᳚ । दुः॒॑एवाः᳚ ॥
ओजी᳚यः । धृ॒ष्णो॒ इति᳚ । स्थि॒रम् । आ । त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । या॒तु॒॑धानाः᳚ । दुः॒॑एवाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
इति चिद्ध्येवमेव खलु हे इन्द्र मदे मदे सोमपानजन्ये हर्षे सति धना शत्रुधनानि यजन्तं जयेन प्राप्नुवन्तम् त्वामनु पश्चात्। लक्षणेऽनोः कर्मप्रवचनीयत्वम्। विप्रा मेधाविनः स्तोतारो मदन्ति हृष्यन्ति यद्वा त्वामनुवदन्ति अनुक्रमेन स्तुवन्ति। मदतिः स्तुतिकर्मा। हि चेति निघातप्रतिषेधः। हे धृष्णो शत्रूणां धर्षयितरिन्द्र। त्रसिगृधिधृशिक्शिपेः क्नुः। ओजीयः। ओजस्विशब्ददीयसुनिविन्मतोर्लुगिति विनो लुक्। टेरिति टिलोपः। बलवत्तरम् अत एव स्थिरम् दृढं धनमा तनुष्व। अहितोऽस्मदर्थं विस्तारय। त्वा त्वां च मा दभन् मा हिंसन्तु दुरेवा दुर्गतयो यातुधाना राक्षसाः॥४॥