दशमं मण्डलम् - सूक्तम् 67

12 ऋचः

ऋषिः: अयास्यः देवता: बृहस्पतिः छन्दः: त्रिष्टुप्

सूक्तम् 10.67 - सम्पूर्णम्

1 / 12
ऋक्: 10.67.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
10.67.1 समानपद
इ॒मां धियं᳚ स॒प्तशी᳚र्ष्णीं पि॒ता न᳚ ऋ॒तप्र᳚जातां बृह॒तीम᳚विन्दत् ।
तु॒रीयं᳚ स्विज्जनयद्वि॒श्वज᳚न्यो॒॑यास्य᳚ उ॒क्थमिन्द्रा᳚य॒ शंस᳚न् ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । धिय᳚म् । स॒प्त॑शी᳚र्ष्णीम् । पि॒ता । नः॒ । ऋ॒त॑प्र᳚जाताम् । बृ॒ह॒तीम् । अ॒वि॒न्द॒त् ।
तु॒रीय᳚म् । स्वि॒त् । ज॒न॒य॒त् । वि॒श्व॑ज᳚न्यः । अ॒यास्यः᳚ । उ॒क्थम् । इन्द्रा᳚य । शंस᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमां धियमिति द्वादशर्चं सप्तमं सूक्तमाङ्गिरसस्यायस्यस्यार्षं त्रैष्टुभम् । इदमुत्तरम् च बृहस्पतिदेवताकम् । तथा चानुक्रान्तम्। इमां धियं द्वावशायास्योबार्हस्पत्यं त्विति। आभिप्लविकेषूक्थ्येक्षु स्तोमवृद्धौ ब्राह्मणाच्छंसिन इदं सुक्तमावापार्थम्। सुत्रितं च। इमां धियमिति ब्राह्मणच्छंसी विष्णोर्नुकमिति सूक्ते। आ. ७-९। इति॥

अत्रेतिहासमाचक्षते। पुरा किलाङ्गिरा नामर्षिर्बृहस्पतिं पुत्रमलभत। स तु देवानाम् हितोपदेशनायेन्द्रस्य पुरोहितोऽभवत्। कदाजित्तस्य गावः पणिनामकैरसुरैरपहृत्य वलपुरं प्रापय्य त्रिषुस्थानेषु तमसावृतेषु स्थापिता आसन्। अथ तासामन्वेषणायेन्द्रेण प्रेरितो बृहस्पतिर्मरुद्भिः सह तत्रागत्य गवां गुहास्थितानां दर्शनाय सूर्यं जनयित्वा वलनामानमसुरं तदनुचरान्पणींश्च हत्वा गा आजहारेति। तदत्र दर्शयिष्यते। तथा चास्या ऋचोऽयमर्थः धियं कर्माणां धात्रीं सप्तशीर्ष्णीं सप्तशिरस्कां सप्तभिः शिरः स्थानीयैस्तद्वत्प्रधानभूतैर्मदुद्गणैरुपेताम्। यद्वा। सप्तच्छन्दोमयशिरस्काम्। ऋतप्रजातां यज्ञार्थमुत्पन्नां बृहतीं महतीमिमां तनुं नोऽस्माकं पिताङ्गिरा अविन्दत्। लब्धवन्। कर्मणां ध्यातारं बृहस्पतिं पुत्रमलभतेत्यर्थः। येङ्गारा आसंस्तेऽङ्गिरसोऽभवन् यदंगाराः पुनरवशान्ता उददीप्यन्त तद्बृहस्पतिरभवदिति ब्राह्मणम्। ऐ. ब्रा. ३-३४। तथा तुरीयं स्विन्नप्तारमपि जनयत् आजनयत् विश्वजन्यः सर्वजनहित इन्द्रायेश्वराय बृहस्पतय इन्द्राय वोक्थं स्तोत्रं शंसन्नयमयास्यो नामर्षिः। पूर्वमेव नोऽस्माकं पिताकार्षीदित्याह॥१॥

10.67.2
ऋ॒तं शंस᳚न्त ऋ॒जु दीध्या᳚ना दि॒वस्पु॒त्रासो॒ असु᳚रस्य वी॒राः ।
विप्रं᳚ प॒दमङ्गि᳚रसो॒ दधा᳚ना य॒ज्ञस्य॒ धाम᳚ प्रथ॒मं म᳚नन्त ॥
▶ पदपाठः (Word-by-word)
ऋ॒तम् । शंस᳚न्तः । ऋ॒जु । दीध्या᳚नाः । दि॒वः । पु॒त्रासः᳚ । असु᳚रस्य । वी॒राः ।
विप्र᳚म् । प॒दम् । अङ्गि᳚रसः । दधा᳚नाः । य॒ज्ञस्य᳚ । धाम᳚ । प्र॒थ॒मम् । म॒न॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतं सत्यभूतं स्तोत्रं शंसंतः स्तुवन्त ऋजु कल्यानं दिध्यानाः कर्माणि ध्यायन्तो दिवो दीप्तस्यासुरस्य प्रज्ञानवतोऽग्नेरङ्गिरसः पुत्राः। अङ्गिरसो ह्यङ्गारेभ्यो जाता इत्युक्तम्। अङ्गारेष्वङ्गिराः। नि. ३-१७-१ इति। वीरा विक्रान्तप्रज्ञा एतेऽङ्गिरसो विप्रं प्रज्ञापकं यज्ञस्य धाम धारकं पदं बृहस्पत्याख्यम् दधानाः कर्मणा धारयन्तः सन्तः प्रथममादित एव मनन्त। स्तुवन्ति। प्रज्ञापकं ह्येतत्स्थानं यद्ब्रुहस्पतिरिति॥२॥

10.67.3
हं॒सैरि᳚व॒ सखि᳚भि॒र्वाव᳚दद्भिरश्म॒न्मया᳚नि॒ नह᳚ना॒ व्यस्य᳚न् ।
बृह॒स्पति᳚रभि॒कनि᳚क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च᳚ वि॒द्वा{4} अ᳚गायत् ॥
▶ पदपाठः (Word-by-word)
हं॒सैः॑इ᳚व । सखि᳚॑भिः । वाव᳚दत्॑भिः । अ॒श्म॒न्॑मया᳚नि । नह᳚ना । वि॒॑अस्य᳚न् ।
बृह॒स्पतिः᳚ । अ॒भि॒॑कनि᳚क्रदत् । गाः । उ॒त । प्र । अ॒स्तौ॒त् । उत् । च॒ । वि॒द्वान् । अ॒गा॒य॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवसुवां हविषु बृहस्पतये वाचस्पतय इत्यस्य याज्या हंसैरिवेत्येशा। सुत्रितम् च। बृहस्पते प्रथमं चाचो अग्रं हंसैरिव सखिभिर्वावदद्भिः। आ. ४-११। इति॥

हंसैरिव मधुरवाग्भिः सखिभिः सखिभूतैर्वावदद्भिरत्यन्तं शब्दायमानैर्मरुद्भिरश्मन्मयान्यश्ममयानि नहना गवां गन्धकान्यावरकाण्यसुराणां स्थानानि व्यस्यन् विक्शिपञ्शुथिलयन्नभिकनिक्रददाभिमुख्येन शब्दयन् गाः पणिभिरपहृतान्पशूनाजिहीर्षुः स बृहस्पतिर्वर्तते। यद्वा। वावदद्भिरत्यन्तं स्तुवद्भि स्तोतृभिः सह गाः स्तोत्रलक्षणा वाचोभिकनिक्रददाभिमुख्येनोच्चारयन्। उतापि च प्रास्तौत्। कर्मणि प्रव्रुत्तौ यज्ञस्य सखिभिः सहासीनः साम गातुं प्रस्तौति। विद्वान् सर्वं जानानः स उद्गाता भुत्वोदगायत्। देवानुद्गायति। अभिष्टौति॥३॥

10.67.4
अ॒वो द्वाभ्यां᳚ प॒र एक᳚या॒ गा गुहा॒ तिष्ठ᳚न्ती॒रनृ᳚तस्य॒ सेतौ᳚ ।
बृह॒स्पति॒स्तम᳚सि॒ ज्योति᳚रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒वः । द्वाभ्या᳚म् । प॒रः । एक᳚या । गाः । गुहा᳚ । तिष्ठ᳚न्तीः । अनृ᳚तस्य । सेतौ᳚ ।
बृह॒स्पतिः᳚ । तम᳚सि । ज्योतिः᳚ । इ॒च्छन् । उत् । उ॒स्राः । आ । अ॒कः॒ । वि । हि । ति॒स्रः । आव॒रित्यावः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पनयो गा आहृत्य त्रिषु स्थानेषु निदधुः। अवोऽवस्तात्स्थिता अनृतस्य तमसः सेतौ स्थाने गुहा गुहायां तिष्थन्तीर्गा द्वाभ्यां स्थानाभ्यामुदाजत्। ततः परः परस्तादवस्थिता गा एकयैकेन स्थानेनोदगमयत्। तदेवाह। ब्रुहस्पतिस्तस्मिंस्तमसि ज्योतिः कर्तुमिच्छंस्तत्र स्थिता उस्रा गा उदकः। उदकार्षीत्। प्रादुर्भूता अकार्षीत्। इत्त्थमयं तिस्रोऽसुराणां द्वारो व्यावः। विवृतवान्खलु। वृणोतेर्लुङि मन्त्रे घसेति च्लेर्लुक्। बहुलं छन्दसीत्यडागमः॥४॥

10.67.5
वि॒भिद्या॒ पुरं᳚ श॒यथे॒मपा᳚चीं॒ निस्त्रीणि᳚ सा॒कमु᳚द॒धेर᳚कृन्तत् ।
बृह॒स्पति᳚रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि᳚वेद स्त॒नय᳚न्निव॒ द्यौः ॥
▶ पदपाठः (Word-by-word)
वि॒॑भिद्य᳚ । पुर᳚म् । श॒यथा᳚ । ई॒म् । अपा᳚चीम् । निः । त्रीणि᳚ । सा॒कम् । उ॒द॒॑धेः । अ॒कृ॒न्त॒त् ।
बृह॒स्पतिः᳚ । उ॒षस᳚म् । सूर्य᳚म् । गाम् । अ॒र्कम् । वि॒वे॒द॒ । स्त॒नय᳚न्॑इव । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स बृहस्पतिः शयथोपशयेन स्थित्वापाचीं पराङ्मुखीमीमिमामसुरपुरीं विभिद्य विदार्योदधेर्वलाद्मेघरूपादसुरात्साकं सह युगपत्त् त्रीण्युषसं सूर्यं गामेतानि त्रीणि निरकृन्तत्। निर्गतमकार्षीत्। तमसावृत्षु स्थानेशूषः कालतः पश्चाद्भाविनं सूर्यं च जनयित्वा पशून्निरगमयदित्यर्थः। सोऽयमर्कमर्चन्यं मन्त्रं सूर्यं विवेद प्रज्ञापयति। कथमिव। यथा स्तनयन् शब्दं कुर्वन् द्यौरिव स्थितः॥५॥

10.67.6 समानपद
इन्द्रो᳚ व॒लं र᳚क्षि॒तारं॒ दुघा᳚नां क॒रेणे᳚व॒ वि च᳚कर्ता॒ रवे᳚ण ।
स्वेदा᳚ञ्जिभिरा॒शिर᳚मि॒च्छमा॒नो॑रो᳚दयत्प॒णिमा गा अ᳚मुष्णात् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । व॒लम् । र॒क्षि॒तार᳚म् । दुघा᳚नाम् । क॒रेण᳚॑इव । वि । च॒क॒र्त॒ । रवे᳚ण ।
स्वेदा᳚ञ्जि॑भिः । आ॒॑शिर᳚म् । इ॒च्छमा᳚नः । अरो᳚दयत् । प॒णिम् । आ । गाः । अ॒मु॒ष्णा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्र ईश्वरो बृहस्पतिर्दुघानां क्षीरस्य दोग्ध्रीणां गवां रक्षितारं वलमसुरं करेणेव सायुधकर इव स्थितेन रवेण शब्देन वलं वि चकर्त। विचिच्छेद। किञ्च स्वेआञ्जिभिः। स्वेआञ्जयो मरुतः क्षरदाभरणाः। तै सहाशिरमाश्रयमानं संयोगमिच्छमानः कामयमानः पणिं वलस्यानुचरमेतन्नामानमसुरमरोदयत्। व्यनाशयत्। ततस्तेनापहृता गा अमुष्णात्। आजहार॥६॥

10.67.7
स ईं᳚ स॒त्येभि॒ः सखि᳚भिः शु॒चद्भि॒र्गोधा᳚यसं॒ वि ध᳚न॒सैर᳚दर्दः ।
ब्रह्म᳚ण॒स्पति॒र्वृष᳚भिर्व॒राहै᳚र्घ॒र्मस्वे᳚देभि॒र्द्रवि᳚णं॒ व्या᳚नट् ॥
▶ पदपाठः (Word-by-word)
सः । ई॒म् । स॒त्येभिः᳚ । सखि᳚॑भिः । शु॒चत्॑भिः᳚ । गो॑धा᳚यसम् । वि । ध॒न॒॑सैः । अ॒द॒र्द॒रित्य᳚दर्दः ।
ब्रह्म᳚णः । पतिः᳚ । वृष᳚॑भिः । व॒राहैः᳚ । घ॒र्म॑स्वे᳚देभिः । द्रवि᳚णम् । वि । आ॒न॒ट् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स बृहस्पतिः सत्येभिर्यथार्थबलईः सखिभिः। सखिभुतैः शुचद्भिर्दीप्यमानैर्धनसैर्धनस्य सम्भक्तृभिर्मरुद्भिः सह गोधायसं गवां धारकमीमेनं वलंव्यदर्दः। व्यदारयत्। ततो ब्रह्मण ऋग्यजुःसामलक्शणस्य स्तोत्रस्य पतिरधिपतिः स वृशभिर्वर्शितृभिर्वराहैर्वराहारैर्वरस्य वरणीयस्योदकस्याहर्तृभिर्घर्मस्वेदेभिर्दीप्तागमनैः यद्वा क्षरदुदकैः। अथवा। घर्मो यज्ञः तं प्रति गन्तृभिर्मरुद्भिर्द्रविणं गोलक्शणं धनं व्यानट्। व्याप्नोत्॥७॥

10.67.8
ते स॒त्येन॒ मन᳚सा॒ गोप᳚तिं॒ गा इ᳚या॒नास᳚ इषणयन्त धी॒भिः ।
बृह॒स्पति᳚र्मि॒थोअ᳚वद्यपेभि॒रुदु॒स्रिया᳚ असृजत स्व॒युग्भि᳚ः ॥
▶ पदपाठः (Word-by-word)
ते । स॒त्येन᳚ । मन᳚सा । गो॑प᳚तिम् । गाः । इ॒या॒नासः᳚ । इ॒ष॒ण॒य॒न्त॒ । धी॒भिः ।
बृह॒स्पतिः᳚ । मि॒थः॑अ᳚वद्यपेभिः । उत् । उ॒स्रियाः᳚ । अ॒सृ॒ज॒त॒ । स्व॒युक्॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गाः पणिभिरपहृतान्पशूनियानासोऽभिगच्छन्तः सत्येन यथार्थभूतेन मनसा युक्तास्ते मरुतो धीभिरात्मीयैः कर्मभिरेतं ब्रुहस्पतिं गोपतिं तदाहरणेन गवां स्वामिनं कुर्म इतीशणयन्त। ऐच्छन्। ब्रुहस्पतिश्च मिथो अवद्यपेभिः। पातेः कर्मण्यौणादिकः प्रत्ययः। अवद्यरुपादसुराद्रक्षितव्या गावो येशु मरुत्सु परस्परं सङ्गच्छन्त इति ते तथोक्ताः। तैः स्वयुग्भिः स्वयमेव युक्तैर्मरुद्भिरुस्रिया गा उदसृजत। पर्वतान्निरगमयत्॥८॥

10.67.9 समानपद
तं व॒र्धय᳚न्तो म॒तिभि᳚ः शि॒वाभि᳚ः सिं॒हमि᳚व॒ नान᳚दतं स॒धस्थे᳚ ।
बृह॒स्पतिं॒ वृष᳚णं॒ शूर᳚सातौ॒ भरे᳚भरे॒ अनु᳚ मदेम जि॒ष्णुम् ॥
▶ पदपाठः (Word-by-word)
तम् । व॒र्धय᳚न्तः । म॒ति॑भिः᳚ । शि॒वाभिः᳚ । सिं॒हम्॑इ᳚व । नान᳚दतम् । स॒ध॑स्थे᳚ ।
बृह॒स्पति᳚म् । वृष᳚णम् । शूर᳚॑सातौ । भरे᳚॑भरे । अनु᳚ । म॒दे॒म॒ । जि॒ष्णुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सधस्थे। सह तिष्थन्त्यत्र देवा इति सधस्थमन्तरिक्षम् । तस्मिन् सिम्हमिव नानदतं पुनः पुनः शब्दायमानं वृषणं कामानां वर्षितारं जिष्णुं जयशीलं तं बृहस्पतिं वर्धयन्तो मरुतो वयं शूरसातौ शूरैः सम्भजनीये भरे भरे सङ्ग्रामे शिवाभिः कल्याणीभिः स्तुतिभिरनु मदेम। अनुष्तुमः। स्तोतृपरत्वेन वा योजनीयम्॥९॥

10.67.10
य॒दा वाज॒मस᳚नद्वि॒श्वरू᳚प॒मा द्यामरु᳚क्ष॒दुत्त᳚राणि॒ सद्म᳚ ।
बृह॒स्पतिं॒ वृष᳚णं व॒र्धय᳚न्तो॒ नाना॒ सन्तो॒ बिभ्र᳚तो॒ ज्योति᳚रा॒सा ॥
▶ पदपाठः (Word-by-word)
य॒दा । वाज᳚म् । अस᳚नत् । वि॒श्व॑रू᳚पम् । आ । द्याम् । अरु᳚क्षत् । उत्॑त᳚राणि । सद्म᳚ ।
बृह॒स्पति᳚म् । वृष᳚णम् । व॒र्धय᳚न्तः । नाना᳚ । सन्तः᳚ । बिभ्र᳚तः । ज्योतिः᳚ । आ॒सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

स बृहस्पतिरदा यस्मिन्काले विश्वरूपं नानारूपं वाजं गोलक्शनमन्नमसनत् भजते यदा वाहृतपशुकः सन् द्यां द्युलोकमरुक्शत् आरोहति। अथवोत्तरानि वा सद्म स्थानान्यारोहति। रुहेर्लुङि च्लेः शल इगुपधादनिटः क्सः पा. ३-१-४५। तदानीं वृशणं वर्षितारं बृहस्पतिमासास्येन देवा वर्धयन्तो भवन्ति। तथा नाना दिक्षु सन्तो भवन्तो ज्योतिर्बिभ्रतो धारयन्तो देवाश्च स्तुवन्ति॥१०॥

10.67.11
स॒त्यामा॒शिषं᳚ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव᳚थ॒ स्वेभि॒रेवै᳚ः ।
प॒श्चा मृधो॒ अप᳚ भवन्तु॒ विश्वा॒स्तद्रो᳚दसी शृणुतं विश्वमि॒न्वे ॥
▶ पदपाठः (Word-by-word)
स॒त्याम् । आ॒॑शिष᳚म् । कृ॒णु॒त॒ । व॒यः॒॑धै । की॒रिम् । चि॒त् । हि । अव᳚थ । स्वेभिः᳚ । एवैः᳚ ।
प॒श्चा । मृधः᳚ । अप᳚ । भ॒व॒न्तु॒ । विश्वाः᳚ । तत् । रो॒द॒सी॒ इति᳚ । शृ॒णु॒त॒म् । वि॒श्व॒मि॒न्वे इति᳚ वि॒श्व॒म्॑इ॒न्वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे बृहस्पतिप्रभृतयो देवा वयोधा अन्नस्य धानायास्मदीयामाशिषम् स्तुतिं सत्यां यथार्थं कृणुत। कुरुत। तथाद् यूयं स्वेभिरात्मीयैरेवैर्गमनैः कीरिं स्तोतारं मामवथ। रक्षथ। हिरवधारणे। पश्चा च छन्दसि। पा. ५-३-३३। इति निपातितः। पश्चादिश्वाः सर्वा मृधो हिंसित्र्योऽप भवन्तु। नश्यन्तु। तदिदमस्माभिरुक्तं वचनं हे विश्वमिन्वे विश्वस्य प्रीणयित्र्यौ हे रोदसी द्यावापृथिव्यौ शृणुतम्॥११॥

10.67.12
इन्द्रो᳚ म॒ह्ना म᳚ह॒तो अ᳚र्ण॒वस्य॒ वि मू॒र्धान᳚मभिनदर्बु॒दस्य᳚ ।
अह॒न्नहि॒मरि᳚णात्स॒प्त सिन्धू᳚न्दे॒वैर्द्या᳚वापृथिवी॒ प्राव᳚तं नः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य᳚ । वि । मू॒र्धान᳚म् । अ॒भि॒न॒त् । अ॒र्बु॒दस्य᳚ ।
अह᳚न् । अहि᳚म् । अरि᳚णात् । स॒प्त । सिन्धू᳚न् । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । प्र । अ॒व॒त॒म् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्र ईश्वरो मह्ना महत्त्वेन युक्तो बृहस्पतिर्महतो अर्णवस्योदकवतोऽर्बुदस्यांबुदस्य मेघस्य मूर्धानं शिरो व्यभिनत्। व्यच्छिनत्। तदुच्यते। अहिमहंतव्यमपामावरकं शत्रुमहन्। अवधित्। अतः सप्त सर्पणशीलाः सिन्धून् स्यन्दमाना अपः। यद्वा। सप्तसङ्ख्याका गाङ्गाद्या नदीः। अरिणात्। समुद्रं प्रत्यगमयत्। अथ प्रत्यक्षकृतः। हे द्यावापृथिव्यौ देवैः सह नोऽस्मान्प्रवतम्। प्ररक्शतम्॥१२॥