दशमं मण्डलम् - सूक्तम् 157

5 ऋचः

ऋषिः: भुवन आप्त्यः साधनो वा भौवनः देवता: विश्वेदेवाः छन्दः: द्विपदा त्रिष्टुप्

सूक्तम् 10.157 - सम्पूर्णम्

1 / 5
ऋक्: 10.157.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.157.1
इ॒मा नु कं॒ भुव᳚ना सीषधा॒मेन्द्र᳚श्च॒ विश्वे᳚ च दे॒वाः ॥
▶ पदपाठः (Word-by-word)
इ॒मा । नु । क॒म् । भुव᳚ना । सी॒स॒धा॒म॒ । इन्द्रः᳚ । च॒ । विश्वे᳚ । च॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमा नु कमिति पञ्चर्चं षष्ठं सूक्तमप्त्यपुत्रस्य भुवनस्यार्षम् भुवनपुत्रस्य साधनसंज्ञस्य वा वैश्वदेवम्। सर्वा द्विपदास्त्रिष्टुभः। तथा चानुक्रान्तम्। इमा नु भुवन आप्त्यः साधनो वा भौवनो वैश्वदेवम् द्वैपदं त्रैष्टुभमिति। दशरात्रस्य द्वितीये छन्दोमे वैश्वदेवशस्त्रे वैश्वदेवान्निविद्धानात्पूर्वमिदं शंसनीयम्। सूत्रितं च। आ याहि वनसेमा नु कं बभ्रुरेक इति द्विपदासूक्तानि। आ. ८-७। इति। षष्ठेऽहनि तितीये सवने ब्राह्मणाच्छम्सिन उक्थ्यशस्त्र आद्यस्तृचः स्तोत्रियः। ततो द्वे अनुरूपार्थे। सूत्रितं च। ब्राह्मनच्छंसिन इमा नु कं भुवना सीषधामेति पञ्च। आ. ८-३। इति॥

इमेमानि प्रदृश्येमानानि धुवना भुवनानि नु क्षिप्रं सीषधाम। साधयामः। वशीकुर्मः। कमिति पूरकः। यद्वा। इमानि सर्वाणि भूतजातान्यस्मभ्यं कं सुखं सीषधाम। साधयन्तु। पुरुषव्यत्ययः। इन्द्रश्च विश्वे सर्वेऽन्ये देवाश्च स्तुत्या प्रीता इममर्थं साधयन्तु॥१॥

10.157.2
य॒ज्ञं च᳚ नस्त॒न्वं᳚ च प्र॒जां चा᳚दि॒त्यैरिन्द्र᳚ः स॒ह ची᳚कॢपाति ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञम् । च॒ । नः॒ । त॒न्व᳚म् । च॒ । प्र॒॑जाम् । च॒ । आ॒दि॒त्यैः । इन्द्रः᳚ । स॒ह । ची॒कॢ॒पा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोऽस्माकं यज्ञं ज्योतिष्टोमादिकं यागं तन्वं शरीरं च प्रजाम्। पुत्रादिकां चादित्यैरदितिपुत्रैरन्यैर्देवैः सह वर्तमान इन्द्रश्चीक्लृपाति। कल्पयतु। यज्ञादिकं स्वव्यापारसमर्थं करोतु॥२॥

10.157.3
आ॒दि॒त्यैरिन्द्र॒ः सग᳚णो म॒रुद्भि᳚र॒स्माकं᳚ भूत्ववि॒ता त॒नूना᳚म् ॥
▶ पदपाठः (Word-by-word)
आ॒दि॒त्यैः । इन्द्रः᳚ । स॑ग᳚णः । म॒रुत्॑भिः᳚ । अ॒स्माक᳚म् । भू॒तु॒ । अ॒वि॒ता । त॒नूना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदित्यैरदितिपुत्रैर्मित्रादिभिर्मरुद्भिश्च सगनः सहित इन्द्रोऽस्माकं तनूनां शरीराणां तनयानां वाविता भूतु। रक्शिता भवतु॥३॥

10.157.4
ह॒त्वाय᳚ दे॒वा असु᳚रा॒न्यदाय᳚न्दे॒वा दे᳚व॒त्वम᳚भि॒रक्ष᳚माणाः ॥
▶ पदपाठः (Word-by-word)
ह॒त्वाय᳚ । दे॒वाः । असु᳚रान् । यत् । आय᳚न् । दे॒वाः । दे॒व॒॑त्वम् । अ॒भि॒॑रक्ष᳚माणाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवा इन्द्रादयोऽसुरान् क्षेप्तॄन्वृत्रादीन्हत्वाय हत्वा विनाश्य यद्यदायन् आगच्छन् स्वकीयं स्थानं प्राप्नुवन् तदानीं ते देवा देवत्वमात्मीयममृतत्वमभिरक्षमाना अभितः सर्वतो रक्षन्तोऽभूवन्। बाधकाभवात्सर्वत्र प्रख्यापितवन्त इत्यर्थः॥४॥

10.157.5
प्र॒त्यञ्च᳚म॒र्कम᳚नय॒ञ्छची᳚भि॒रादित्स्व॒धामि᳚षि॒रां पर्य᳚पश्यन् ॥
▶ पदपाठः (Word-by-word)
प्र॒त्यञ्च᳚म् । अ॒र्कम् । अ॒न॒य॒न् । शची᳚भिः । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि᳚ । अ॒प॒श्य॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

शचीभिः कर्मभिः परिचरनात्मकैः सार्धमर्कमर्चनसाधनं स्तोत्रं प्रत्यञ्चमिन्द्रादीन्प्रत्यञ्चदनयन्। स्तोतारः प्रापयन्। यदैवं आदिदनन्तरमेवेषिरां गमनशीलं स्वधां वृष्ट्युदकं पर्यपश्यन्। सर्वे जनाः परितः पश्यन्ति। यद्वा। इषिरामेषणीयां स्वधाम् । अन्ननामैतत्। हविर्लक्षनमन्नं सर्वे देवाः परिपश्यन्ति॥५॥