स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वात्य᳚तिष्ठद्दशाङ्गु॒लम् ॥
पदपाठः (Word-by-word)
सः । भूमि᳚म् । वि॒श्वतः᳚ । वृ॒त्वा । अति᳚ । अ॒ति॒ष्ठ॒त् । द॒श॒॑अ॒ङ्गु॒लम् ॥
सायणभाष्यम् (Sayana Commentary)
सहस्रशीर्षेति षोडशर्चं षष्ठम् सूक्तम्। नारायणो नामर्षिरन्त्या त्रिष्तुप् शिष्टा अनुष्तुभः। अव्यक्तमहदादिविलक्षणश्चेतनो यः पुरुषः। वे. सू. १-४-१। पुरुषान्न परं चिञ्चित्। क. उ. ३-११। इत्यादिश्रुतिषु प्रसिद्धः स देवता तथा चानुक्रान्तम्। सहस्रशीर्षा षोडश नारायनह् पौरुषमानुष्तुभं त्रिष्टुबन्तं त्विति। गतो विनियोगः॥
सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः सोऽयं सहस्रशीर्षा। सहस्रशब्दस्योपलक्शनत्वादनन्तैः शिरोभिर्युक्त इत्यर्थः। यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तः पातित्वात्तदीयान्येवेति सहस्रशीर्षत्वम् । एवं सहस्राक्षित्वं सहस्रपादत्वं च। स पुरुषो भूमिं ब्रह्माण्डगोलकरूपां विश्वतः सर्वतो वृत्वा परिवेष्ट्य दशाङ्गुलं दह्साङ्गुलपरिमितं देशमत्यतिष्थत्। अतिक्रम्य व्यवस्थितः। दहाङ्गुलमियुपलक्षनम् । ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः॥१॥