ए॒तावा᳚नस्य महि॒मातो॒ ज्याया{4}᳚श्च॒ पूरु᳚षः ।
पादो᳚॑स्य॒ विश्वा᳚ भू॒तानि᳚ त्रि॒पाद᳚स्या॒मृतं᳚ दि॒वि ॥
पादो᳚॑स्य॒ विश्वा᳚ भू॒तानि᳚ त्रि॒पाद᳚स्या॒मृतं᳚ दि॒वि ॥
पदपाठः (Word-by-word)
ए॒तावा᳚न् । अ॒स्य॒ । म॒हि॒मा । अतः᳚ । ज्याया᳚न् । च॒ । पुरु᳚षः ।
पादः᳚ । अ॒स्य॒ । विश्वा᳚ । भू॒तानि᳚ । त्रि॒॑पात् । अ॒स्य॒ । अ॒मृत᳚म् । दि॒वि ॥
पादः᳚ । अ॒स्य॒ । विश्वा᳚ । भू॒तानि᳚ । त्रि॒॑पात् । अ॒स्य॒ । अ॒मृत᳚म् । दि॒वि ॥
सायणभाष्यम् (Sayana Commentary)
अतीतानागतवर्तमानरूपं जगद्यावदस्ति एतावान्सर्वोऽप्यस्य पुरुषस्य महिमा। स्वकीयसामर्थ्यविशेषः। न तु तस्य वास्तवस्वरूपम्। वास्तवस्तु पुरुषोऽतो महिम्नोऽपि ज्यायान्। अतिशयेनाधिकः। एतच्चोभयं स्पष्टीक्रियते। अस्य पुरुषस्य विश्वा सर्वाणि भूतानि कालत्रयवर्तीनि प्राणिजातानि पादः। चतुर्थोऽंशः। अस्य पुरुषस्यावशिष्टं त्रिपात्स्वरूपममृतं विनाशरहितं सद्दिवि द्योतनात्मकेस्वप्रकाशस्वरूपे व्यवतिष्ठत इति शेशः। यद्यपि सत्यं ज्ञानमनन्तं ब्रह्म। तै. आ. ८-१- उ. २-१। इत्याम्नातस्य परब्रह्मन इयत्ताभावात्पादचतुष्टयं निरूपयितुमशक्यं तथापि जगदिदं ब्रह्मस्वरूपपेक्शयाल्पमिति विवक्षितत्वात्पादत्वोपन्यासः॥३॥