तस्मा᳚द्य॒ज्ञात्स᳚र्व॒हुत॒ः सम्भृ᳚तं पृषदा॒ज्यम् ।
प॒शून्ता{4}श्च᳚क्रे वाय॒व्या᳚नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
प॒शून्ता{4}श्च᳚क्रे वाय॒व्या᳚नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
पदपाठः (Word-by-word)
तस्मा᳚त् । य॒ज्ञात् । स॒र्व॒॑हुतः᳚ । सम्॑भृ᳚तम् । पृ॒ष॒त्॑आ॒ज्यम् ।
प॒शून् । तान् । च॒क्रे॒ । वा॒य॒व्या᳚न् । आ॒र॒ण्यान् । ग्रा॒म्याः । च॒ । ये ॥
प॒शून् । तान् । च॒क्रे॒ । वा॒य॒व्या᳚न् । आ॒र॒ण्यान् । ग्रा॒म्याः । च॒ । ये ॥
सायणभाष्यम् (Sayana Commentary)
सर्वहुतः। सर्वात्मकः पुरुषो यस्मिन्यज्ञे हूयते सोऽयं सर्वहुत्। तादृशात्तस्मात्पूर्वोक्तान्मानसाद्यज्ञात्पृषदाज्यं दधिमिश्रमाज्यं सम्भृतम्। सम्पादितम्। दधि चाज्यं चेत्येवमादिभोग्यजातं सर्वं सम्पादितमित्यर्थः। तथा वायव्यान्वायुदेवताकाल्लोकप्रसिद्धानारण्यान्पशूंश्चक्रे। उत्पादितवान् आरण्याहरिणादयः। तथा ये च ग्राम्या गवाश्वादयः तानपि चक्ते। पशूनामन्तरिक्षद्वारा वायुदेवत्यत्वं यजुर्ब्राह्मणे समाम्नायते। वायवःस्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षाः। अन्तरिक्षदेवत्याः खलुवै पशवः। वायव एवैनान्परिदधाति। तै. ब्रा. ३-२-१-३। इति॥८॥