श्रवणम्

10.90.2
पुरु᳚ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य᳚म् ।
उ॒तामृ᳚त॒त्वस्येशा᳚नो॒ यदन्ने᳚नाति॒रोह᳚ति ॥
▶ पदपाठः (Word-by-word)
पुरु᳚षः । ए॒व । इ॒दम् । सर्व᳚म् । यत् । भू॒तम् । यत् । च॒ । भव्य᳚म् ।
उ॒त । अ॒मृ॒त॒॑त्वस्य᳚ । ईशा᳚नः । यत् । अन्ने᳚न । अ॒ति॒॑रोह᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदिदम् वर्तमानं जगत्सर्वं पुरुष एव। यच्च भुतमतीतम् जगद्यच्चभव्यं भविष्यज्जगत् तदपि पुरुष एव। यथास्मिन्कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुशस्यावयवाः तथैवातीतागमिनोरपि कल्पयोर्द्रष्टव्यमित्यभिप्रायः। उतापि चामृतत्वेस्ये देवत्वस्यायमीशानः स्वामी। यद्यस्मात्कारणादन्नेन प्राणिनां भोग्येनान्नेन निमित्तभूतेनातिरोहति स्वकीयां कारणावस्थामितिक्रम्य परिदृश्यमानाम् जगदवस्थांप्राप्नोति तस्मात्प्राणिनां कर्मफलभोगाय जगदवस्थास्विकारान्नेदम् तस्य वस्तुत्वमित्यर्थः॥२॥