श्रवणम्

10.90.11
यत्पुरु᳚षं॒ व्यद᳚धुः कति॒धा व्य᳚कल्पयन् ।
मुखं॒ किम᳚स्य॒ कौ बा॒हू का ऊ॒रू पादा᳚ उच्येते ॥
▶ पदपाठः (Word-by-word)
यत् । पुरु᳚षम् । वि । अद᳚धुः । क॒ति॒धा । वि । अ॒क॒ल्प॒य॒न् ।
मुख᳚म् । किम् । अ॒स्य॒ । कौ । बा॒हू इति᳚ । कौ । ऊ॒रू इति᳚ । पादौ᳚ । उ॒च्ये॒ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुम् ब्रह्मवादिनां प्रश्ना उच्यन्ते। प्रजापतेः प्रानरूपा देवा यद्यदा पुरुषं विराड्रूपं व्यदधुः सङ्कल्पेनोत्पादितवन्तः तदानीं कतिधा कतिभिः प्रकारैर्व्यकल्पयन्। विविधं कल्पितवन्तः। अस्य पुरुषस्य मुखं किमासीत्। कौ बाहू अभूताम्। का ऊरू। कौ च पादावुच्येते। प्रथमं सामान्यरूपः प्रश्नः पश्चान्मुइखं किमित्यादिना विशेशविशयाः प्रश्नाः॥११॥