तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु᳚षं जा॒तम᳚ग्र॒तः ।
तेन᳚ दे॒वा अ᳚यजन्त सा॒ध्या ऋष᳚यश्च॒ ये ॥
तेन᳚ दे॒वा अ᳚यजन्त सा॒ध्या ऋष᳚यश्च॒ ये ॥
पदपाठः (Word-by-word)
तम् । य॒ज्ञम् । ब॒र्हिषि᳚ । प्र । औ॒क्ष॒न् । पुरु᳚षम् । जा॒तम् । अ॒ग्र॒तः ।
तेन᳚ । दे॒वाः । अ॒य॒ज॒न्त॒ । सा॒ध्याः । ऋष᳚यः । च॒ । ये ॥
तेन᳚ । दे॒वाः । अ॒य॒ज॒न्त॒ । सा॒ध्याः । ऋष᳚यः । च॒ । ये ॥
सायणभाष्यम् (Sayana Commentary)
यज्ञं यज्ञसाधनभूतं तं पुरुषं पशुत्वभावनया यूपे बद्धं बर्हिषि मानसे यज्ञे प्रौक्षन्। प्रोक्षितवन्तः। कीदृशमित्यत्राह। अग्रतः सर्वसृष्टेः पूर्वं पुरुषं जातं पुरुषत्वेनोत्पन्नम् । एतच्च प्रागेवोक्तं तस्मद्विराळजायत विराजो अधि पूरुष इति। तेन पुरुषरूपेण पशुना देवा अयजन्त। मानसयागम् निष्पादितवन्त इत्यर्थः। के ते देवा इत्यत्राह। साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्रभृतयः तदनुकूला ऋशयो मन्त्रद्रष्टारश्च ये सन्ति। ते सर्वेऽप्ययजन्तेत्यर्थः॥७॥