ऋषी᳚णां वा॒ यः क्षये॒ गुहा᳚ वा॒ चर्कृ᳚षे गि॒रा ॥
पदपाठः (Word-by-word)
ऋषी᳚णाम् । वा॒ । यः । क्षये᳚ । गुहा᳚ । वा॒ । चर्कृ᳚षे । गि॒रा ॥
सायणभाष्यम् (Sayana Commentary)
अद्यास्मिन् दिने इन्द्रः कुह कुत्र स्थाने श्रुतो विश्रुतः प्रख्यातः कस्मिन् जने यज- माने इज्यत्वेन स्तुत्यत्वेनावस्थितः श्रूयते प्रख्यायते । तत्रदृष्टान्तः—मित्रोन सूर्यइव सखेव वा तद्वत् । यइन्द्रऋषीणां भृग्वादीनां क्षये निवासे आश्रमे गुहावा गुहायामरण्ये वा गिरा स्तुतिलक्षणया वाचा चर्कृषे अत्यर्थमाकृष्यते अत्यर्थं स्तूयतइत्यर्थः । सइन्द्रः कुह श्रुतइति पूर्वेण स्तुतिलक्षणया वाचा चर्कृषे अत्यर्थमाकृष्यते अत्यर्थं स्तुयतइत्यर्थः । सइन्द्रः कुह श्रुतइति पूर्वेण संबन्धः ॥ १ ॥