श्रवणम्

10.22.3
म॒हो यस्पति॒ः शव᳚सो॒ असा॒म्या म॒हो नृ॒म्णस्य᳚ तूतु॒जिः ।
भ॒र्ता वज्र᳚स्य धृ॒ष्णोः पि॒ता पु॒त्रमि᳚व प्रि॒यम् ॥
▶ पदपाठः (Word-by-word)
म॒हः । यः । पतिः᳚ । शव᳚सः । असा᳚मि । आ । म॒हः । नृ॒म्णस्य᳚ । तू॒तु॒जिः ।
भ॒र्ता । वज्र᳚स्य । धृ॒ष्णोः । पि॒ता । पु॒त्रम्॑इ᳚व । प्रि॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रः महोमहतः शवसोबलस्य पतिः ईश्वरः असाम्या आङ् मर्यादायां आसमाप्तेः अनन्तगुणइत्यर्थः महोमहतोन्रुम्णस्य धनस्य च तूतुजिः स्तोतृभ्यः प्रेरकः । किंच धृष्णोः शत्रूणां धर्षकस्य वज्रस्य स्वकीयस्यायुधस्य भर्ता यइन्द्रोधारयिता सइन्द्रोस्मान्पात्विति शेषः । तत्रदृष्टान्तः—पिता पुत्रमिव प्रियं यथा पिता प्रियं ईप्सितं सुतं पाति तद्वत् ॥ ३ ॥