माकु॒ध्र्य᳚गिन्द्र शूर॒ वस्वी᳚र॒स्मे भू᳚वन्न॒भिष्ट᳚यः ।
व॒यंव᳚यं त आसां सु॒म्ने स्या᳚म वज्रिवः ॥
व॒यंव᳚यं त आसां सु॒म्ने स्या᳚म वज्रिवः ॥
पदपाठः (Word-by-word)
मा । अ॒कु॒ध्र्य᳚क् । इ॒न्द्र॒ । शू॒र॒ । वस्वीः᳚ । अ॒स्मे इति᳚ । भू॒व॒न् । अ॒भिष्ट᳚यः ।
व॒यम्॑व᳚यम् । ते॒ । आ॒सा॒म् । सु॒म्ने । स्या॒म॒ । व॒ज्रि॒॑वः॒ ॥
व॒यम्॑व᳚यम् । ते॒ । आ॒सा॒म् । सु॒म्ने । स्या॒म॒ । व॒ज्रि॒॑वः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे शूर विक्रान्तेन्द्र अस्मे अस्माकं स्वभूताः वस्वीर्महत्यः अभिष्टयः आभिमुख्येष्टयः इज्याः यद्वा आभिमुख्येच्छा अभीप्सितप्रार्थनाः कुध्र्यक् कुत्सिताः विफलाइत्यर्थः माभूवन् । किं तर्हि हे वज्रिवः वज्रिन्निन्द्र ते तव प्रसादात् वयंवयमृत्विग्यजमामाः द्विर्वचनमतित्व- राप्रदर्शनार्थं आसामिज्यामिच्छानां वा संबन्धिनि सुम्ने सुखे अवस्थिताः स्याम भवेम वयमभिष्टिजन्येन दृष्टादृष्टुसुखेन युक्ताः शीघ्रं भवेमेत्याशास्महे इत्यर्थः ॥ १२ ॥