अ॒क॒र्मा दस्यु᳚र॒भि नो᳚ अम॒न्तुर॒न्यव्र᳚तो॒ अमा᳚नुषः ।
त्वं तस्या᳚मित्रह॒न्वध᳚र्दा॒सस्य᳚ दम्भय ॥
त्वं तस्या᳚मित्रह॒न्वध᳚र्दा॒सस्य᳚ दम्भय ॥
पदपाठः (Word-by-word)
अ॒क॒र्मा । दस्युः᳚ । अ॒भि । नः॒ । अ॒म॒न्तुः । अ॒न्य॑व्र᳚तः । अमा᳚नुषः ।
त्वम् । तस्य᳚ । अ॒मि॒त्र॒॑ह॒न् । वधः᳚ । दा॒सस्य᳚ । द॒म्भ॒य॒ ॥
त्वम् । तस्य᳚ । अ॒मि॒त्र॒॑ह॒न् । वधः᳚ । दा॒सस्य᳚ । द॒म्भ॒य॒ ॥
सायणभाष्यम् (Sayana Commentary)
अकर्म अविद्यमानयागादिकर्मा दस्युः उपक्षपयिता अभि आभिमुख्येन स्वरूपतोनो- स्मान् अमन्तुः अज्ञाता यद्वा अत्रावेत्युपसर्गस्य वकारलोपोद्रष्टव्यः अवमन्तुः अवमन्ता अभिभविता अन्यव्रतः श्रुतिस्मृतिव्यतिरिक्तकर्मा अमानुषः मनुष्यसंव्यवहारद्वाह्यः असुर- प्रकृतिरित्यर्थः एवंभूतोयोस्ति हे अमित्रहन् शत्रूणां हन्तरिन्द्र त्वं दासस्य उपक्षपयितव्य- स्य तस्य वधः हन्ता सन् दंभय तं शत्रुं भिन्धि ॥ ८ ॥