उ॒त त्रा᳚यस्व गृण॒तो म॒घोनो᳚ म॒हश्च᳚ रा॒यो रे॒वत᳚स्कृधी नः ॥
पदपाठः (Word-by-word)
उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । म॒घोनः᳚ । म॒हः । च॒ । रा॒यः । रे॒वतः᳚ । कृ॒धि॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
पिबपिबेति वीप्सा अतित्वराप्रदर्शनार्थं हे शूर वीरेन्द्र त्वं अभिषुतं सोमं शीघ्रं पिब यागकालातिपातोयावन्न भवति तावच्छीघ्रं सोमं पिबेत्यर्थः । इदितिपूरणः । हे वसवान वसूनां धनानामानेतस्त्वं वसुः प्रशस्तः सन् मारिषण्यः यागकालातिक्रमजातेन दोषेण अस्मान्माहिंसीः प्रशस्तस्य तव कर्मवैगुण्येन हिंसितुमयुक्तमित्यर्थः । उतापिच हे इन्द्र त्वं गृणतस्त्वां स्तुवतः स्तोतॄन् मघोनः हविर्लक्षणधनवतोयजमानांश्च त्रायस्व प्रमादजनि तकर्मवैगुण्यदोषात् पालयस्व । किंच महश्चरायइत्युभयत्र तृतीयार्थे षष्ठी महोमहता रायो धनेन च नोस्मान् रेवतः कृधि धनवतः कुरु ॥ १५ ॥
यजामहइति सप्तर्चं सप्तमं सूक्तं प्रथमासप्तम्यौ त्रिष्टुभौ पंचम्यभिसारिणी द्विर्दशकवती द्विर्द्वादशकवतीत्यभिसारिणीत्युच्यते शिष्टाश्चतस्रोजगत्यः पूर्ववदृषिदेवते । तथाचानुक्रान्तं- यजामहेसप्ताद्यन्त्येत्रिष्टुभौ पंचम्यभिसारिणीति । चतुर्थेहनि माध्यन्दिनसवने तृतीयापंच- म्योरावर्तनेन त्रीन् तृचान् होत्रकाएकैकं त्ऋचमावपेरन् । सूत्रितंच—यजामहइन्द्रंवज्रदक्षि णमिति द्वितीयानेवमेवेति ।