वर्ष्म᳚न्पृथि॒व्याः सु᳚दिन॒त्वे अह्ना᳚मू॒र्ध्वो भ᳚व सुक्रतो देवय॒ज्या ॥
पदपाठः (Word-by-word)
वर्ष्म᳚न् । पृ॒थि॒व्याः । सु॒दिन॒॑त्वे । अह्ना᳚म् । ऊ॒र्ध्वः । भ॒व॒ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । दे॒व॒॑य॒ज्या ॥
सायणभाष्यम् (Sayana Commentary)
इमाम् म इत्येकादशर्चम् द्वितीयं सुक्तम्। वाध्र्यश्वस्य सुमित्रस्यार्षम् त्रैष्टुभं तनूनपाद्वर्जिताः सनराशम्साः समिदादयः प्रत्यृदं देवताः। तथाचानुक्रान्तम्। इमां म एकादशाप्रमिति। वध्र्यश्वगोत्रानां पशाविदमाप्रीसूक्तम्। सूत्रितं च। समिद्धो आद्येति सर्वेषां यथऋषि वा। आ. ३-२। इति॥
हे अग्ने इळस्पद इळायास्पदे। एतद्वा इळायास्पदं यदुत्तरवेदी नाभिः। इति ब्राह्मणम् । उत्तरवेद्यामिमां मे मदीयां समिधं युषस्व। सेवस्व। तथा घृताचीं घृतमञ्चतीं स्रुचं प्रति हर्य। प्रतिकामयस्व। किञ्च हे सुक्रतो सुप्रज्ञ पृथिव्या वर्ष्मन्वर्ष्मणि सनुच्छ्रिते पूर्वोक्ते देशेऽह्नां सुदिनत्वे तन्निमित्तं देवयज्या देवयागेन हेतुनोर्ध्वो ज्वालाभिरुन्नतो भव॥१॥