दि॒वो वा॒ सानु᳚ स्पृ॒शता॒ वरी᳚यः पृथि॒व्या वा॒ मात्र᳚या॒ वि श्र᳚यध्वम् ।
उ॒श॒तीर्द्वा᳚रो महि॒ना म॒हद्भि᳚र्दे॒वं रथं᳚ रथ॒युर्धा᳚रयध्वम् ॥
उ॒श॒तीर्द्वा᳚रो महि॒ना म॒हद्भि᳚र्दे॒वं रथं᳚ रथ॒युर्धा᳚रयध्वम् ॥
पदपाठः (Word-by-word)
दि॒वः । वा॒ । सानु᳚ । स्पृ॒शत᳚ । वरी᳚यः । पृ॒थि॒व्या । वा॒ । मात्र᳚या । वि । श्र॒य॒ध्व॒म् ।
उ॒श॒तीः । द्वा॒रः॒ । म॒हि॒ना । म॒हत्॑भिः᳚ । दे॒वम् । रथ᳚म् । र॒थ॒॑युः । धा॒र॒य॒ध्व॒म् ॥
उ॒श॒तीः । द्वा॒रः॒ । म॒हि॒ना । म॒हत्॑भिः᳚ । दे॒वम् । रथ᳚म् । र॒थ॒॑युः । धा॒र॒य॒ध्व॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे द्वार एतन्नामधेया देव्यः यूयं दिवो वा। वाशब्दश्चार्थे। दिवश्च सानुसमुच्छ्रितं वरीय उरुतरं स्थानं स्पृशत। उन्नता भवतेत्यर्थः। चवायोगे प्रथमेति न निघातः। पृथिव्याश्च यावती मात्रास्ति तावत्या मात्रया वि श्रयध्वम्। विस्तृता भवत। उशतीर्देवान्कामयमाना यूयं रथयुः। सुपां सुलुगिति जशसुः। रथकामाः सत्यो महिना महिम्ना महद्भिर्देवैरधिष्ठितं अत एव देवं द्योतमानं रथं रमणसाधनं धारयध्वम्। धारयत॥५॥