श्रवणम्

10.70.8
तिस्रो᳚ देवीर्ब॒र्हिरि॒दं वरी᳚य॒ आ सी᳚दत चकृ॒मा वः᳚ स्यो॒नम् ।
म॒नु॒ष्वद्य॒ज्ञं सुधि᳚ता ह॒वींषीळा᳚ दे॒वी घृ॒तप᳚दी जुषन्त ॥
▶ पदपाठः (Word-by-word)
तिस्रः᳚ । दे॒वीः॒ । ब॒र्हिः । इ॒दम् । वरी᳚यः । आ । सी॒द॒त॒ । च॒कृ॒म । वः॒ । स्यो॒नम् ।
म॒नु॒ष्वत् । य॒ज्ञम् । सु॑धि᳚ता । ह॒वींषि᳚ । इळा᳚ । दे॒वी । घृ॒त॑प᳚दी । जु॒ष॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तिस्रो देवीरिळाद्यास्तिस्रो देव्यः वरीय उरुतरमिदं बर्हिरा सीदत। कालाध्वनोरिति द्वितीया। अत्यन्तं तस्मिन्निषीदत। कुत एतत् तत्राह वो युष्मदर्थं स्योनं विस्तीर्णमिदं च कृम। वयं कृतवन्तः। वाक्यभेदादनिघातः। इळैतन्नामिका देवी द्योतमाना सरस्वति घृतपदी दीप्तपदोपेता भारती चैता मनुष्वन्मनोर्यज्ञे यथा हवींष्यसेवन्त तद्वदस्मदीयं यज्ञं सुधिता सुष्ठु निहितानि हवींषि च जुषन्त। सेवताम्॥८॥