श्रवणम्

10.70.6
दे॒वी दि॒वो दु᳚हि॒तरा᳚ सुशि॒ल्पे उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ ।
आ वां᳚ दे॒वास᳚ उशती उ॒शन्त᳚ उ॒रौ सी᳚दन्तु सुभगे उ॒पस्थे᳚ ॥
▶ पदपाठः (Word-by-word)
दे॒वी इति᳚ । दि॒वः । दु॒हि॒तरा᳚ । सु॒शि॒ल्पे इति᳚ सु॒॑शि॒ल्पे । उ॒षसा॒नक्ता᳚ । स॒द॒ता॒म् । नि । योनौ᳚ ।
आ । वा॒म् । दे॒वासः᳚ । उ॒श॒ती॒ इति᳚ । उ॒शन्तः᳚ । उ॒रौ । सी॒द॒न्तु॒ । सु॒भ॒गे॒ इति᳚ सु॑भगे । उ॒प॑स्थे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवी द्योतमाने दिवो द्युलोकस्य दुहितरा दुहितरौ सुशिल्पे शोभनरूपे उषासानक्तोषाश्च नक्तं चाहोरात्रौ योनौ यज्ञस्य स्थाने नि सदताम्। निषीदताम्। हे उशती उशत्यौ कामयमाने हे सुभगे शोभनधने हे देव्यौ वां युवयोरुरौ विस्तीर्णं उपस्थे समीपस्थे स्थान उशन्तो हवींशि कामयमाना देवासो देवा आ सीदन्तु। उपविशन्तु॥६॥