श्रवणम्

10.70.11
आग्ने᳚ वह॒ वरु᳚णमि॒ष्टये᳚ न॒ इन्द्रं᳚ दि॒वो म॒रुतो᳚ अ॒न्तरि᳚क्षात् ।
सीद᳚न्तु ब॒र्हिर्विश्व॒ आ यज᳚त्रा॒ः स्वाहा᳚ दे॒वा अ॒मृता᳚ मादयन्ताम् ॥
▶ पदपाठः (Word-by-word)
आ । अ॒ग्ने॒ । व॒ह॒ । वरु᳚णम् । इ॒ष्टये᳚ । नः॒ । इन्द्र᳚म् । दि॒वः । म॒रुतः᳚ । अ॒न्तरि᳚क्षात् ।
सीद᳚न्तु । ब॒र्हिः । विश्वे᳚ । आ । यज᳚त्राः । स्वाहा᳚ । दे॒वाः । अ॒मृताः᳚ । मा॒द॒य॒न्ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं नोऽस्माकमिष्टये यागायेन्द्रं वरुणम् च मरुतश्च दिवो द्युलोकादन्तरिक्षाच्चास्मदीयं यज्ञमा वह। प्रापय। आगतस्ते यजत्रा यष्टव्या विश्वे सर्वे वेवा बर्हिरा सीदन्तु। तत्रासन्नाभवन्तु। ततोऽमृता मरणधर्मरहिता देवाः स्वाहा स्वाहाकारेण दत्तैर्हविर्भिर्मादयन्ताम्। आत्मानं मावयन्तु॥११॥