श्रवणम्

10.70.7
ऊ॒र्ध्वो ग्रावा᳚ बृ॒हद॒ग्निः समि᳚द्धः प्रि॒या धामा॒न्यदि᳚तेरु॒पस्थे᳚ ।
पु॒रोहि᳚तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट᳚रा॒ द्रवि᳚ण॒मा य᳚जेथाम् ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । ग्रावा᳚ । बृ॒हत् । अ॒ग्निः । सम्॑इ᳚द्धः । प्रि॒या । धामा᳚नि । अदि᳚तेः । उ॒प॑स्थे᳚ ।
पु॒रः॑हि᳚तौ । ऋ॒त्वि॒जा॒ । य॒ज्ञे । अ॒स्मिन् । वि॒दुः॑त᳚रा । द्रवि᳚णम् । आ । य॒जे॒था॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ग्रावा सोमाभिषवाय यदोर्ध्व उन्नतो भवति यदा च बृहन्महानग्निः समिद्धो हविर्भिः सम्यग्दीप्तो भवति। तथा प्रियाणि देवानां सोमादिहविष्प्रदानेन प्रीणयितॄणि धामानि हविषां धारकाणि यज्ञपात्राण्यदितेः पृथिव्या उपस्थे यज्ञसदने यदासादितानि भवन्ति तदानीं हे ऋत्विजौ देव्यौ पुरोहितौ होतारौ पुरतो निहितौ विदुष्टरा। छान्दसं सम्प्रसारनम्। विद्वत्तमौ युवामस्मिन्यज्ञे द्रविणं धनमा यजेथाम्। यजिर्दाअनार्थः। अस्मभ्यमाभिमुख्येन प्रयचृतम्॥७॥